भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 476, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 476

४२२ मीमांसादर्शनम् [ सू० तथा दर्शपूर्णमासप्रकरणेऽग्नीषोमीयविधिसम्बन्धलङ्घनेन त्वाष्ट्रवधनिमित्तेन्द्र- गतब्रह्महत्यातुरीयविभागप्रतिग्रहप्रस्तावागतरजस्वलाव्रतानां भूमिशयनास्नाना- मांसभक्षणानभ्यङ्गाञ्जनाविलेखनाकर्तनादन्तधावनानखच्छेदनाद्रज्जुसंसर्जना - दीनां त्रिरात्रविषयाणां प्रकरणातिरिक्तस्त्रीधर्मत्वावधारणम् । एवं च विप्रकीर्णानामशक्यैकत्र संहतिः । स्मृतिमेव दृढां मुक्त्वा तस्मादस्त्यन्तरा स्मृतिः ॥ ४४३ तेनाऽऽचारः स्मृतिं यावदनुमातुं प्रवर्तते । स्मृतिर्लब्धश्रुतिस्तावद्धर्ममेवावधारयेत् ॥ ४४४ तस्मादाचारेभ्यः स्मृतिर्बलीयसी सन्निवन्धनेति । ( लोकवाक्यशेषयोर्विरोधे बलाबलचिन्तनम् ॥ ) त्रिवृच्चर्वाश्वबालादेर्लोकेऽन्योऽर्थः प्रतीयते । वेदे तदभियुक्तैश्च तस्मादन्यो विलक्षणः ॥ ४४५ तत्र किं तुल्यकल्पत्वात्पदार्थे लोकवेदयोः । समा विप्रतिपत्तिः स्यादथवैका बलीयसी ॥ ४४६ लोके तावत्त्रिवृच्छब्दस्त्रिगुणत्वस्य वाचकः । त्रिवृद्रज्जुस्त्रिवृद्ग्रन्थिर्वेदे तु नवके स्थितः ॥ ४४७ त्रिवृद्वहिष्पवमानमित्युक्त्वा तृचत्रयमनुक्रान्तमिति स्तोत्रीयङ्‌नवकवचन एवं त्रिवृच्छब्दो विज्ञायते । तथाऽयं चरुशब्दोऽपि लोके स्थालीनिबन्धनः । याज्ञिकानां च वेदे च प्रसिद्धस्त्वोदनं प्रति ॥ ४४८ अनवस्त्रावितान्तरूष्मपक्वौदनवचनो हि याज्ञिकानां चरुशब्दः प्रसिद्धः तथा वेदेऽपि 'आदित्यः प्रायणीयः पयसि चरुः' इति विहिते पश्चादुक्तमदितिमोदनेनेति- वचनाच्चौदनवचनत्वं ज्ञातम् । एवमाश्वबालः प्रस्तरः, इत्यश्वजातीयबालमयः प्रस्तरो लोकप्रसिद्ध्या विज्ञायते । वैदिकवाक्यशेषात्तु काशेष्वश्वबालप्रसिद्धिः एवं हि श्रूयते— (यज्ञो वै देवेभ्योऽश्वो भूत्वाऽपाक्रामत्सोऽपः प्राविशत्) स वालधौ गृहीतः, स वालान्मुक्त्वा विवेश ह । ते बालाः काशतां प्राप्ताः कार्योऽतः प्रस्तरस्तु तैः ॥ ऐक्ष्व्यो विधृती ये च ते इक्ष्ववयवात्मिके । लोके सिद्धे तथा वेदे काशानामेव मूलके ॥ ४४९