मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 477, कुल 804 में से
संदर्भ में पढ़ें९ ] प्रथमाध्याये तृतीयपादः ४२३ एवमादिषु सर्वेषु प्रतिपत्तिविपर्यये । प्रतिपत्तेः समानत्वाद्विकल्पो हि प्रसज्यते ॥ ४५० ननु च लोकप्रसिद्धेर्धर्मं प्रत्यनङ्गत्वार्द्वेदप्रसिद्धिरेव ज्यायसी ॥ नैतदेवं पदार्थेषु न हि वेदो विशिष्यते । अदृष्टहेतुवाक्यार्थे लोकात्स ह्यतिरिच्यते ॥ ४५१ तस्मादुभय्यपि त्वेषा प्रतिपत्तिः समा भवेत् । यदि वा पूर्वभावित्वाल्लौकिक्येव बलीयसी ॥ ४५२ वेदनिरपेक्षा हि लोकप्रसिद्धिरात्मानं लभते, वैदिकी पुनर्लोकप्रसिद्धपदान्तर- सामानाधिकरण्येन सिध्येत् । तत्र लोकाविरुद्धा या वैदिकी सैव गृह्यते । लोकसिद्धिं व्यतिक्रम्य साऽऽत्मानं नैव विन्दति ॥ ४५२ 'तेष्वदर्शनाद्विरोधस्य' इति च तेषु लौकिकेषु पदार्थेष्वदर्शनाद्विरोधस्यार्थ- वादानां चान्यपरत्वेन गुणवादप्रायत्वात् । आदित्ययूपयजमानप्रस्तरस्वर्गाहवनी- यादिवचनवत्कथमपि प्ररोचनाशेषत्वात् संज्ञासंज्ञिसम्बन्धकरणव्युत्पादनव्यापा- ररहितत्वाच्च न पदार्थप्रतिपत्त्यङ्गत्वमध्यवसीयते । तदाश्रयणे च विधिविरोध- प्रसङ्गात् । तेष्वेव वा दर्शनाद्विरोधस्येत्यभिप्रायः । तथा शास्त्रस्थमन्वादि- प्रसिद्धिरप्यस्मत्पक्षानुगुणैव । तथाऽऽह—'कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत्' ।१ त्रिवृता ग्रन्थिनैकेति२ ॥ ४५४ तस्मात्समाऽपि तावद्भवत्विति प्राप्ते— सिद्धान्तः अभिधीयते–शास्त्रस्था प्रतिपत्तिर्या सैवात्र ज्यायसी भवेत् । धर्मस्य तन्निमित्तत्वात्ससाधनफलात्मनः ॥ ४५५ अर्थवादकृताऽप्यर्थप्रतिपत्तिर्बलीयसी । तद्ग्राह्यत्वादृते नान्यत्तस्या ह्यस्ति प्रयोजनम् ॥ ४५६ गौणो वा यदि वा मुख्यो वेदेनाऽऽश्रीयते हि यः । स धर्मसाधनत्वेन पदार्थोऽध्यवसीयते ॥ ४५७ १. 'शणसूत्रमयं राज्ञो वैश्यस्याऽऽविकमेव च' इत्युत्तरार्धम् । मनु० २ अ० श्लो० ४४ । २. मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥ मनु० अ० २ श्लो० ४३