मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 479, कुल 804 में से
संदर्भ में पढ़ें९ ] प्रथमाध्याये तृतीयपादः ४२५ न्या० सु०—अत्र भाष्याच्छास्त्रस्थम्लेच्छप्रसिद्धयोर्बलाबलचिन्तेति प्रतिभाति । तच्च म्लेच्छाचारप्रामाण्यस्य प्रागव्युत्पादितत्वादयुक्तमाशङ्क्य, शब्दार्थविषये म्लेच्छाचारप्रामा- ण्याप्रामाण्यचिन्तापरत्वेन सन्देहभाष्यं व्याचष्टे-ये शब्दा इति । म्लेच्छप्रसिद्धार्थग्रहणेऽपि- कादिशब्दानर्थक्यमाशङ्क्य भाष्यकृता धातुतोऽर्थः प्रकल्पयितव्य इत्यभिधानादार्य- प्रसिद्धयभावेऽपि म्लेच्छप्रसिद्धार्थो न ग्राह्य इति पूर्वपक्षवचनव्यक्तिः सूचितेत्याशयः । किमत्र सन्देहकारणमित्यपेक्षायामाश्रयस्वरूपतावलावलीविसंवादं सन्देहकारणं दर्शयितुमाह— तथेति । प्रकृतचिन्तासिद्धयर्थम् । एतदपि चिन्त्यते इति तथाशब्दार्थः । निरुक्तव्याक्रिया- द्वारेत्यनेन शास्त्रस्थत्वमवयवप्रसिद्धित्वं सूचितम् । समुदायप्रसिद्धिर्वा बलीयसीत्यनुषङ्गः । ननु षष्ठे वचनाद्रथकारस्याधानस्य सर्वशेषत्वाद्वि(६-१-४४)त्यत्राधिकरणे समुदायप्रसिद्धेरव- यवप्रसिद्धितो बलीयस्त्वस्य वक्ष्यमाणत्वात्समुदायावयवप्रसिद्धयोर्बलाबलचिन्ता पुनरुक्ते- त्याशङ्क्य—म्लेच्छस्थैवेत्युक्तम् । शास्त्रस्थप्रसिद्धेर्बलीयस्त्वे समुदायप्रसिद्धिम्लेच्छेष्वेव तिष्ठति, नायंगामिनी भवति नायींन्प्रत्यत्मानं लभत इत्यर्थः । अथ वावयवप्रसिद्धित्वेन तस्या दौर्बल्यात्समुदायप्रसिद्धिराचार्यानपि प्रति भवेदात्मानं लभत इत्यर्थः । समुदायप्रसिद्धेरेवात्र प्रामाण्याप्रामाण्यरूपमात्मलाभसद्भावसिद्धयर्थं निरुक्तादिद्वारप्रसिद्धिवलात्रलविचारः क्रियत इत्याशयः । यद्वा किं निरुक्तादिद्वाराप्रसिद्धिः शास्त्रस्थत्वाद् बलीयसो, म्लेच्छस्थैव वा समुदाय- प्रसिद्धत्वादित्येकं विचारप्रकारमुक्त्वा किं निरुक्तादिद्वारावयवप्रसिद्धिर्वा म्लेच्छस्थत्वादिति प्रकारान्तरसूचनार्थत्वेन वाप्यथवा शब्दो योज्यः । यद्वा शास्त्रस्थम्लेच्छप्रसिद्धयोः का बलीयसीत्येवं प्रकारमुक्त्वा, म्लेच्छस्थैव वा किं म्लेच्छस्थत्वाद् दुर्बला, समुदायप्रसिद्धित्वाद् बलीयसीत्येवं विचार्या भवेदिति प्रकारान्तर- प्रतिज्ञानार्थोऽथ वा शब्दः । म्लेच्छस्थैव प्रसिद्धिविचार्या भवेदित्युक्ते कथं विचार्येत्यपेक्षायां विचारस्वरूपं सोपपत्तिकं दर्शयति—म्लेच्छस्थप्रसिद्धिंरिति । पूर्वव्याख्यानयोरप्येतदेव प्रकारान्तरप्रतिज्ञातमेवानेन ग्रन्थेन प्रतिपाद्यत इति विशेषः । निरुक्तादिद्वारैव वा प्रसिद्धिः किं शास्त्रस्थत्वात् बलीयसी अवयवप्रसिद्धित्वाद्वा दुर्बलेति प्रकारान्तरमाह—तथेति । भाष्येऽपि निगमनिरुक्तव्याकरणवशेनेत्यनेनावयवप्रसिद्धेः शास्त्रस्थत्वं बलीयस्त्वका- रणमुक्तम् । कल्पयितव्य इति कल्पनीयत्वं दौर्बल्यकारणम् । म्लेच्छा इति च समुदाय- प्रसिद्धेम्लेच्छस्थत्वं दौर्बल्यकारणमुक्तम् । आचरन्तीति क्लृप्तत्वं बलीयस्त्वकारणमिति विवेकः । शिष्टाचारस्येत्यादिपूर्वपक्षभाष्यं सन्देहभाष्यव्याख्यानोपसंहारपूर्वकं व्याचष्टे— एवमिति । म्लेच्छप्रसिद्धौ प्रयोक्तृदौर्बल्यम्, स्वरूपबलीयस्त्वम् इतरत्र प्रयोक्तृबलीस्त्वम्, स्वरूपपदौर्बल्यमित्युपपत्तितुष्ट्यान्म्लेच्छप्रसिद्धिप्रामाण्याप्रामाण्यसन्देहे सिद्ध इत्यर्थः । पूर्वापवादत्वेनानन्तरसङ्गतिसूचनार्थं सूत्रोपन्यासः । पिकादिशब्दार्थप्रसिद्धेः शास्त्रस्थाना- मसिद्धत्वात्कथं बलीयस्त्वमित्याशङ्क्य—कल्पापीत्युक्तम् । नावक्लृप्तायाः स्वरूपेणैवा-