मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 480, कुल 804 में से
संदर्भ में पढ़ें४२६ मीमांसादर्शनम् [ सू० सत्त्वात्कथं बलीयस्त्वमित्याशङ्क्य, साधुमूलबलेनासिद्धाया अपि साधयितुं शक्यत्वादिति परिहरति-तन्मूलस्येति । ननु समुदायप्रसिद्धद्यवयवप्रसिद्धिबाधात्कथं प्रामाण्यमित्याशङ्क्य,निराकरणार्थं नाशिष्ट- स्मृतेरिति भाष्यावयवं व्याचष्टे- न सिद्धमपीति । म्लेच्छप्रसिद्धेऽर्थे वैदिकानां शब्दानां समुदायप्रसिद्धेरात्मलाभासम्भवान्नावयवप्रसिद्धेर्बाधकमस्तीत्याशयः । सिद्धमप्यसन्मूलं न प्रमाणमिति, लुप्तमावप्रत्ययपमाणशब्दानुषङ्गेण योज्यम् । ननु शब्दार्थसम्बन्धस्य वृद्धव्यव- हारमात्रप्रमाणकत्वान्लेच्छव्यवहारस्यापि तत्र प्रामाण्योपपत्तेः कथमाश्रयदोषेण दुष्टत्व- मित्याशङ्कयाभ्युपगम्यापि तावन्म्लेच्छव्यवहारस्य शब्दार्थसम्बन्धे प्रामाण्यम्, वैदिकशब्दानां म्लेच्छप्रसिद्धार्थाभिधायित्वं न सम्भवतीत्याह - कथमिति । गृहीतसम्बन्धस्य श्रुतस्य शब्दस्यार्थाभिधायकत्वान्लेच्छानां च सम्बन्धग्रहणसम्भवेऽपि वैदिकशब्दश्रवणाभावात्तच्छा- विणां चार्याणां म्लेच्छसम्भाषणनिषेधेन तत्प्रसिद्धार्थसम्बन्धग्रहणासम्भवाम्नायान्प्रति समुदायप्रसिद्धेरात्मलाभः सम्भवतीत्याशयः । म्लेच्छप्रसिद्धार्थग्रहणे च निगमादीनाममर्थ- क्यापत्तेस्तद्ग्रहणं न युक्तमिति, प्रतिपादनार्थं निगमादीनां चेति भाष्यम् । म्लेच्छप्रसिद्धा- र्थाभावे निगमादीनामर्थवत्त्वोपपत्तेरयुक्तमाशङ्क्योपपादयति-एवं चेति । म्लेच्छप्रसिद्धेः प्रमाणत्वे सतीत्यर्थः । ननु सर्वम्लेच्छदेशान्वेषणेऽपि यस्यार्थस्याऽप्रसिद्धिः, स निगमादीनां विषयो भविष्य- तीत्याशङ्क्याह-अनन्तेति । शङ्कामेवोपपादयति-अनन्तेषु हीति । कोऽर्थः क्व देशे सिद्ध इत्यर्थः । सर्वम्लेच्छदेशानन्वेषणे तु बाधशङ्का दुष्परिहरेत्याह-निगमादिति । अस्मत्पक्षे त्वायविर्त्तदेशस्याल्पत्वेन सर्वान्वेषणसम्भवात्तदप्रसिद्धोऽर्थो निगमादीनां विषयो भविष्यतीत्याह- म्लेच्छाचारेति । उपसंहरति तस्मादिति । म्लेच्छव्यवहारस्य शब्दार्थ- सम्बन्धे प्रामाण्यमभ्युपगम्य वैदिकशब्दार्थावधारणं म्लेच्छव्यवहारान्न - सिद्ध्यतीत्युक्तम् । परमार्थतस्त्वनभियुक्तत्वान्लेच्छानाम्, न तद्व्यवहारः शब्दार्थसम्बन्धे प्रमाणमिति, प्रति- पादनार्थमनभियोगश्चेत्यादिभाष्यं व्याचष्टे - धर्मे चेति । नन्वपभ्रष्टस्य शब्दस्यार्थतत्त्वा- नवधारणेऽपि संस्कृतस्य शब्दस्य म्लेच्छव्यवहारादप्यर्थतत्त्वावधारणं भविष्यतीत्याशङ्क्याह- न चेति । 'न म्लेच्छभाषां शिक्षेतेति' तद्भाषाविषेषसूचनायापभाषणमित्युक्तम् । ननु पिकादिशब्दानां वेदतदभियुक्तप्रयुक्तत्वेन संस्कृतानां म्लेच्छभाषायां दृष्टत्वाद- सत्त्वचनमयुक्तमित्याशङ्क्याह- संस्कृतेति । अविभक्तिकत्वात्संस्कृतसदृशास्तैः प्रयुज्यन्ते । न च सादृश्यमात्रेण शालाशब्दस्येव मालाशब्दार्थवाचकत्वं युक्तमित्यर्थः । यवादिशब्दाना- माचारान्तरे प्रयोगात्र म्लेच्छव्यवहारेणाऽर्थतत्त्वाध्यवसाय इति द्योतनायाऽर्थान्तरे - इत्युक्तम् । संस्कृतप्रतिरूपेभ्यश्च म्लेच्छप्रयुक्तेभ्यः । संस्कृतशब्दकल्पने अनेकविधोत्प्रेक्षा- सम्भवान्न व्यवस्थितशब्दार्थावधारणं सम्भवतीत्याह - आर्याश्चेति । कथं पदान्तराक्षरोपेतं कल्पयन्तीत्यपेक्षिते कदाचनेति - प्रकारद्वयमुक्तम् ।