मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 481, कुल 804 में से
संदर्भ में पढ़ें९ ] प्रथमाध्याये तृतीयपादः ४२७ यन्म्लेच्छैरधिकाक्षरं प्रयुक्तम्, तत्र स्वराद्यधिकमक्षरं प्रक्षिपन्तीत्यर्थः । एतदेव विवृणोति—तद्यथेति । आदिशब्दोऽनुस्वारलोपमत्वर्थीयप्रत्ययाभिप्रायः । स्वरान्तकल्पना- मुदाहरति—तद्यथेति । स्वरान्तत्वविभक्त्यन्तत्वकल्पनयोदाहरणमाह—पन्थानामिति । स्वरान्तानुस्वारलोपकल्पनयोरुदाहरणमाह—तत्त्वेति । स्त्रीप्रत्ययकल्पनामुदाहरति— एवमिति । मत्वर्थीयप्रत्ययकल्पनामुदाहरति —वैरशब्दं चेति । विशेषतः प्रत्यन्तवासिम्ले- च्छभाषायां व्यवस्थितशब्दार्थावधारणं न सम्भवतीत्याह—तद्यथेति । किं शब्दस्वरूपं स्वभाषानुरूपमुत्प्रेक्ष्य किमर्थरूपं प्रतिपत्स्यन्त इत्यर्थं । उपसंहरति—तस्मादिति । विविधं कल्प्यत इत्यर्थं। तस्मादित्यपसंहारभाष्यं व्याचष्टे—निरुक्तेरिति । निरुक्तादिभ्योऽनेकार्थप्रति- मानेऽप्यक्षादिशब्दवत्प्रकरणादिना विशेषावधारणम्, तदभावेऽप्यसम्मद्व्युत्पत्तिपदार्थन्या- वृत्त्या सम्मद्व्युत्पत्तिपदार्थविशेषरूपेणावधारणं भविष्यतीत्याशयः । सूत्रव्याख्यानार्थमेवं प्राप्त इत्यादिसिद्धान्तभाष्यम् । शब्दाविप्लुत्यभावेनार्थविप्लुतिशङ्का- निराकरणाशक्तेरयुक्तमाशङ्क्य, शब्दान्तरेषु विप्लुतिशङ्कानिराकरणाशक्तावपि पिकादि- शब्दानां वेदादिशास्त्रप्रयुक्तत्वेनाविभक्तिम्लेच्छप्रयोगेऽपि प्रातिपदिकाविप्लुतिनिश्चयान्मु- ख्यार्थान्तराप्रसिद्धेश्च गौणत्वायोगादनादिम्लेच्छव्यवहारान्यथानुपत्त्या वाचकत्वकल्पनं युक्त- मित्याभिप्रायेण व्याचष्टे— एवमिति । पिकादिशब्दस्वरूपस्य शिष्टैरप्यवगतत्वाद्रोतृत्वास- म्भवप्रतिपादनार्थं शिष्टानवगतिविशेषणानुपपत्तिमशङ्क्यार्थं इत्युक्तं प्रतीयेतेत्यस्य न्यूनत्वा- शङ्कानिराकरणार्थं—तथैवेत्युक्तम् । विध्यनुवादविवेकार्थो यत्तच्छब्दौ । अविरोधत इति तसिला यत्प्रमाणेनेति यच्छब्दा यस्मादित्यर्थे व्याख्यातः । तदवे गम्यमानमिति भाष्यावयवं विप्लुतिशङ्कानिराकरणार्थत्वेन व्याख्यातुम्—पिकेत्युक्तम् । यथाभाष्यं सूत्रपादानामन्वयं कृत्वा पदार्थान्व्याचष्टे—चोदितं हीति । हिशब्दोऽलङ्कारार्थः । न तद्धर्मंप्रमाणेनेत्यत्र चाकृष्य व्याख्येयः । म्लेच्छप्रयुक्तस्यार्थस्यान्यप्रत्यप्रसिद्धिमाशङ्क्य—अवधृतमित्युक्तम् । विरोधाभावाभिप्रायेणाविरोधपदं व्याख्यायाधर्मपदवद्विरोधविपरीतानुसारामिप्रायेण