मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 482, कुल 804 में से
संदर्भ में पढ़ें४२८ मीमांसादर्शनम् [ सू० निराकरणार्थं यत्तु शिष्टाचार इति भाष्यं व्याचष्टे—यत्त्विति । एवमनुभाष्य स्वयं ताव- च्छब्दार्थव्यवहारेऽपि पूर्वाधिकरणन्यायेन शास्त्रस्थप्रसिद्धिवलीयस्त्वमङ्गीकृत्य विरोधाभावे- नाऽबाधमाह—नेति । नन्वविरोधेऽपि शाक्यादिग्रन्थवच्छिष्टापरिगृहीतत्वानम्लेच्छव्यवहार- स्याप्रामाण्यं भविष्यतीत्याशङ्कयाह—यदेवेति । या वेदबाह्याः स्मृतय इत्यादिना वेदबाह्य- स्मृतीनां निष्फलत्वस्मरणान्छाक्यादिग्रन्थावगतस्य श्रुत्यादिसम्वादिनाऽपि श्रेयःसाधन- त्वाभावप्रतीतेरदृष्टार्थेषु वेदबाह्यानां विरोधाभावे—अप्यप्रामाण्यं युक्तम् । दृष्टार्थे तु शब्दा- र्थव्यवहारे म्लेच्छानामपि प्रतीतिप्रयोगान्यथानुपपत्तिप्रभववाच्यवाचकभावविषयार्था- पत्तिज्ञानस्य निराकर्त्तुमशक्यत्वादप्रतिहतं प्रामाण्यमित्याशयः । एतदेव पूर्वाधिकरणव्युत्पादिताभियुक्ततरायंप्रसिद्धिवलीयस्त्वेन द्रढयति—अत एवेति । यत एवाविरोधे दुर्बलस्यापि ग्राह्यत्वम् । अत एव वैदिकवाक्यार्थे येऽभियुक्ततरा वैद्यास्तेषा- मितरार्येभ्यो बलीयस्त्वमन्यथा शास्त्रापेक्षया तत्प्रसिद्धेरपि दौर्बल्यादग्राह्यत्वं स्यादित्यर्थः । नन्वार्यान्तरेभ्योऽप्यभियुक्ततरार्याणां बलीयस्त्वे म्लेच्छेभ्यः सुतरां स्यादित्याशङ्क्य— प्रसिद्धिविति । श्लोकं विवृणोति—अष्टकादिषु हीति । अष्टकाद्यर्थेषु मन्वादीनां शाक्या- दिभ्यो बलीयस्त्वं पदस्वरूपज्ञानेषु वैयाकरणानामितरेभ्यः, पदार्थज्ञानेषु याज्ञिकानां वैद्यानां च पिकादिषु तु म्लेच्छप्रयोगेभ्योऽर्थनिर्णये सति न किंचिद्विरुद्धम् । प्रत्युताकाङ्क्षितं पदार्थज्ञानं सेत्स्यतीत्यन्वयः । ननु विप्लुतिभूयिष्ठत्वेन म्लेच्छप्रयोगेभ्यः शब्दस्य स्वरूपस्यैवानवगतेः कथंचिद बाह्यस्वरूपावगमेऽपि स्तोमाक्षरवद्वाचकत्वस्यापि सम्भवात् कथं पदार्थज्ञानाकाङ्क्षत्या- शङ्कयार्थेत्युक्तम् । वेदादौ प्रयोगात्स्वरूपावगमः, वाक्यान्त्यान्यथानुपपत्त्या च वाचकत्वा- वगमः, वाच्यविशेषज्ञानमपि तर्हि आर्येभ्य एव भविष्यतीत्याशङ्क्य—वाच्येत्युक्तम् । ननु म्लेच्छप्रयोगात्रिर्मूलाञ्ज्ञार्थानिर्णयो युक्त इत्याशङ्क्य—पदवदित्यक्तम् । म्लेच्छानामपि मूलप्रमाणसम्भवो दृष्टग्रहणेनोक्तः । अनादित्वेन दोषनिरासः पदे यथा प्रत्यक्षत्वान्मले- च्छेरपि लब्धाप्रसिद्धिः । एवं दृष्टो यः कोकिलादिरर्थः । तत्प्रतिपत्त्यर्थो योऽनादिः पिकादिशब्दप्रयोगः तेन लब्धशब्दार्थसम्बन्धविषया प्रसिद्धिर्यैम्लेच्छैस्ते तथोक्ताः । नन्वार्यप्रसिद्धयभावेऽपि निगमादिभ्योऽर्थनिर्णये सिद्धेम्लेच्छ्रप्रसिद्धिबाधः स्यादि- त्याशङ्कयाह—निगमेति । ननु निगमादिभिर्निधारितरूपार्थविशेषानुदाहरणेऽप्यवयव- व्युत्पत्त्या कश्चिदर्थविशेषो ज्ञाप्यते । अत आह—काल्पनिक इति । अनेन च सत्यपि विरोधे समुदायप्रसिद्धेरेव रथकारधिकरणन्यायेनावयवप्रसिद्धितो वलीयस्त्वादबाध इत्युक्तम् । भाष्यकृता त्वदृष्टार्थेष्वेव शिष्टाचारस्य म्लेच्छाचाराद् बलीयस्त्वं न लौकिकेष्विति तत् प्रत्यक्षानवगतेष्वपि परिहारः कृतः । तद्व्याचष्टे आश्रयाणां चेति । म्लेच्छानामनभियुक्त- त्वात्तदाचारस्य शब्दार्थसम्बन्धाप्रामाण्यं पूर्वपक्षोक्तं यत्त्वभियुक्ता इत्यनुभाष्याभियुक्ततरा इति भाष्येण परिहृतम् । तद्व्याचष्टे—तस्मादिति । वाच्यनिर्णये म्लेच्छानां प्रामाण्याभावे