भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 486, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 486

४३२ मीमांसादर्शनम् [ सू० बलवत्या शास्त्रस्थप्रसिद्ध्या बाध्या उत स्वयमेव बलवतीति तस्या बाधिकेत्ययं विचारस्संभवतीति तमेव योग्यायोग्यत्वविचारं सूचयितुमयमपक्षिप्त इत्यवगन्त- व्यम् । प्रयोजनं तु विचारस्य पिकादिशब्दानां व्यवस्थितार्थविषयत्वं सिद्धं स्वयमेव वक्ष्यति, तत्र पूर्वाधिकरणसिद्धान्तन्यायेन पूर्वपक्षमाह—शिष्टाचार- स्येति । आचारशब्दः शब्दप्रयोगविषयः । स्मृतिशब्दोऽपि तत्पूर्वप्रयोगपरः, यद्यपि शास्त्रस्थप्रसिद्धिः कल्प्या, तथापि शास्त्रमूलत्वादेव प्रमाणम् । म्लेच्छप्रसिद्धिस्तु कॢप्तापि निर्मूला न प्रमाणम्, कॢप्तसकल्पमूलयोः कॢप्तमूलाया एव प्राबल्यादिति भावः । म्लेच्छप्रसिद्धेरप्रामाण्ये फलितमाह--तस्मादिति । निगमाद्यर्थवत्त्वाय च म्लेच्छप्रयोगस्याप्रामाण्यमाश्रयणीयम्, अन्यथा म्लेच्छदेशानन्त्यात् क्वचिद्देशे कस्मिंश्चिदर्थे कदाचित् केनचित् म्लेच्छेनायमार्यप्रसिद्धः शब्दः प्रयुक्त इति शङ्कायां निगमादिवैयर्थ्यप्रसङ्गादित्याह-निगमादीनामिति । अनभियुक्तत्वाच्च म्लेच्छानां न तद्व्यवहारश्शब्दार्थसम्बन्धे प्रमाणम् । किन्तु अभियुक्तानामार्याणा- मेवेत्याह-अनभियोगश्चेति । तस्मानम्लेच्छप्रसिद्धेः प्रामाण्यायोग्यतया ततोऽ- र्थावगमासंभवात् आर्यप्रसिद्धानां पिकादिपदानां धातुबलेनैवार्थः कल्पनीय इति निगमयति-तस्मादिति । सिद्धान्तं दर्शयन् सूत्रमवतार्य व्याकरोति-एवमिति । यत्पदं म्लेच्छैरर्थ- विशेषे चोदितं प्रयुक्तम्, तच्छिष्टैरनवगतमगृहीतसम्बन्धमपि प्रतीयेत-आद्रियेत । तस्मिन्नर्थे प्रमाणमिति यावत् । अत्राविरोधादिति हेतुमात्रं व्याचष्टे-यत्प्रमाणे- नेति । यद्यपि न शास्त्रमूला म्लेच्छप्रसिद्धिः, तथापि शास्त्रस्थप्रसिद्धिविरोधा- भावाद्देदतदङ्गादिषु प्रयुक्तपिकादिपदार्थाकाङ्क्षायां तत्सिद्धकोकिलाद्यर्थपरिग्रह- संभवेनार्थान्तरकल्पना युक्तेति भावः । यद्यपि पूर्वाधिकरणन्यायेन शास्त्रस्थप्रसिद्धेः बलीयस्त्वमिति, तदपि प्रत्यक्षाद्यनवगम्ये धर्मादिविषय एव, न वाच्यवाचक- सम्बन्धादिविषय इत्याह--यत्त्वित्यादिना । यत्पुनर्वाच्यवाचकादिष्वप्यभि- युक्तानां शिष्टानामेव प्रामाण्यम्, न म्लेच्छानामिति, तदनुवदति--यत्त्वभियुक्ता'''' इति । दूषयति-अभियुक्ततरा इति । यथैव सेवागृहनिर्माणादिषु दृष्टार्थेषु म्लेच्छानामधिकं कौशलं तथैवाभ्यस्तकोकिलादिवाच्यस्वरूपाणां वाच्यवाचक- भावावगमेऽपीत्यर्थः । निगमाद्यर्थवत्त्वाय म्लेच्छाचारस्याप्रामाण्यमुक्तमनुवदति- यत्त्विति । दूषयति-तत्रैषामिति । म्लेच्छदेशानन्त्येऽपि विचारावस्थायामपि येषां पदानामर्थविशेषे प्रसिद्धिः म्लेच्छेषु पुरुषपरम्परया न प्राप्ता, तेषां पदानां निगमादिवशेन प्रतिपत्ति। भविष्यतीत्यर्थः । पिकादिपदानां निगमादिवशेनार्थ- वत्त्वेऽर्थव्यवस्थापि न स्यादित्याह-अपि चेति । पिकादिशब्दस्य निगमेन तावदर्थविशेषो न प्रतिपादितः, तथा सति सन्देहाभावप्रसङ्गात् अवयवव्युत्पत्त्या तु निरुक्त्या कश्चिदर्थः कल्पनीयः, तत्र च पिवति पाति पचतीत्यनेकधातुसाधा- रणत्वादवयवान्वयस्य निरुक्तेनाप्यर्थविशेषासिद्धिरिति भावः ।