मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 495, कुल 804 में से
संदर्भ में पढ़ेंस्तोत्रसाधनसामविशेषापेक्षायां यद्ब्राह्मणेनाग्निष्टोमसाधनत्वेन जराबोधीयं विहितम् । तत्कात्यायनेनार्मभवपवमानाख्यस्तोत्रान्तरसाधनेषु सत्सु सामसु लक्ष्यमाणेषु तद्गोयात्रप्रथमा- द्गायत्राख्यात्साम्नस्तृतीयत्वेन लक्षितं 'जरासादिति' सूत्रेणेत्यर्थः । कथमनेन सूत्रेण जराबोधीयमार्मर्वीयगायत्रतृतीयत्वेन लक्षितमित्यपेक्षायामाह-आर्भवयेति । माध्यन्दिन- पवमानेऽपि गायत्रसद्भावात्तद्व्यावृत्त्यर्थमार्मर्वीयविशेषणं प्रकृतार्मभवपवमाने संहितस्य गायत्रान्तरत्वात्तस्यैव सर्वत्र समिति संज्ञा माभूदिति गायत्रेणोपलक्षणं यद्यत्रार्मभवपवमाने गायत्रानन्तरं साम, तत्र तस्य समिति संज्ञेत्यर्थः । परशब्देन सादिति पञ्चमीपरयोगेन व्याख्याता । कथं जराशब्दस्य जराबोधीयवाचित्वेत्यपेक्षायां पदैकदेश इत्युक्तम् । न केवलम- न्यत्र विनियोगाद् ब्राह्मणानादरः किं त्वग्निष्टोमसामत्वेनाविनियोगादपीत्याह-डेशब्देन चेति । अग्निष्टोमसाम्नो ड़ेयज्ञायज्ञीयमितिसूत्रेण प्रायणीयाग्निष्टोमसामत्वेन यज्ञायज्ञीयमेव नियमित्यर्थः । नन्वामर्भावेयगायत्रतृतीयत्वेन पञ्चविंशब्राह्मणे सामन्तराविधानान्न जरा- बोधीयस्य तत्र विनियोगे ब्राह्मणविरोधः नाप्यग्निष्टोम सामत्वेन यज्ञायज्ञीय नियमे ब्राह्मणे 'नाप्ययो खल्वाहुर्यज्ञायज्ञीयमेवाग्निष्टोम सामकार्यमिति' तस्य नियतत्वादित्याशङ्कयाह- यदि चेति । यज्ञायज्ञीयनियमे जराबोधीयविधानार्थक्यापत्तेरेवकारस्य च यदेव प्रकृतौ, तदेवात्रापीत्येवं परत्वेनोपपत्तेर्विकल्पपरमेव ब्राह्मणमित्याशयः । एवं तर्हि कात्यायनवचनं प्रत्यक्षविरोधादग्राह्यं स्यादित्याशङ्कयाह-बह्विति । यद्यपि कात्यायनसूत्रं पौरुषेयम्, तथापि तस्य वेदोत्थापिनां न्यायानां मध्येऽयं सम्यङ्न्यायः, अय न्यायाभास इति विवेक- कुशलत्वान्नाकुशलैर्मिथ्यावादित्वमध्यवसातुं शक्यमित्यर्थः । परमार्थतस्त्वस्मिन्पूर्वपक्षे सर्वेषामपौरुषेयत्वान्न कस्यचिद् बाध इत्येतावानाशयः । करोतिप्रणयत्यादिप्रयोगास्तु प्रवचनाभिप्रायेण, दर्शनाभिप्रायेण वा व्याख्येया इत्युक्तमेव । श्रुतिबलादप्येवं वेदतुल्यत्वमवसीयत इति प्रतिपादनार्थमाचार्यवचन इतिभाष्यं व्याचष्टे-आचार्यवचनानं चेति । ननु प्रामाण्यस्य स्वतस्त्वात्तत्प्रतिपादनपरा श्रुतिरनर्थिका स्यादित्याशङ्क्य, स्वतः सिद्धस्यापि प्रामाण्यस्यापवादशङ्कानिरासाय प्रमाणान्तरापेक्षायां तदर्थ्येन प्रामाण्यश्रुतिसाफल्यप्रतिपादनार्थं प्रत्यक्षत इत्यादिभाष्यं व्याचष्टे-तथा चेति । श्लोकाभिप्रायं विवृणोति -- यत्प्रत्येति । अनाप्तवाक्येष्वपि सम्वादेनापवादाशङ्का निवर्त्तते, किमुतापौरुषेयेष्वित्याशयः । एतदेवोपसंहरति-सत्यवाचां चेति । तुल्यकल्पत्व एवोपपत्त्यन्त- रप्रतिपादनार्थं वेदवाक्यैश्चेति भाष्यं व्याचष्टे -- अपि चेति । तुल्यत्वोपपादनार्थैवाडति- शयोक्तिः । याज्ञिककर्तृकादराद्यर्थतया व्याख्याय, ब्रह्मयज्ञविधिकृतादराद्यर्थतयैतदेव व्याचष्टे- तुल्यं चेति । सम्प्रदायः अध्ययनम् । तद्विधायकं य एवं विद्वाञ्स्वाध्यायमधीत इति ब्रह्मयज्ञ- विधिवाक्यं तद्वेदवाक्यैः सह कल्पसूत्राणां तुल्यमित्यर्थः । अध्येतृकर्तृको वादरोऽनेन भाष्येणोक्त इति तृतीयं व्याख्यानमाह--अथ वेति । यत्नतुल्यत्वमेव दर्शयति -- अनुयोगेष्विति । वेदकौशलजिज्ञासार्थं तत्तद्वेदभागचिह्नलेखानि घटिकायां कुम्भाख्यायां