मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 497, कुल 804 में से
संदर्भ में पढ़ें१० ] प्रथमाध्याये तृतीयपादः ४४३ यत इति यत्कल्पनम् तद्रूपानुपपत्त्येत्यर्थः । विद्यास्थानान्तरेषु पूर्वपक्षमुक्तमर्थमुप- संहरति—तस्मादिति । शाक्यादिग्रन्थानां वा नित्यत्वमनेन सूत्रेणोच्यत इत्याह—शाक्यादीति । शाक्यादि- ग्रन्थनिष्टत्वे को न्याय इत्यपेक्षायामाह—येनैवेति । नन्वेवं सत्यासत्वलक्षणाभावात्कथं प्रामाण्यसिद्धिरित्याशङ्क्य, स्वतस्त्ववाङ्गीकरणेन परिहरति—बोधकत्वादिति । कथमकृत- कमित्यपेक्षायाङ्कर्तृस्मरणवर्जनादित्युक्तम् । ननु सामाख्यानिकं कर्तृस्मरणमस्तीत्याशङ्कयाह— बुद्धेति । यथाक्रमं दृष्टान्तद्वयमनुपलब्धिविरोधादिदूषणमपि वेदवत्परिहर्त्तव्यमित्याह— यावदेवेति । उपसंहरति—तेनेति । नासन्नियमादिति सिद्धान्तसूत्रं स्वयं तावद्वयाचष्टे—एवमिति । यदेतत्सर्वेषामविशे- षेण नित्यत्वं वेदत्वं स्वतःप्रमाणत्वम्, तत्कारणं च कर्तृस्मरणवर्जनाद्युक्तम् । न तस्य किंचिन्नित्यं निबन्धनं नियतं-कारणमागमो न्यायो ऽस्तीत्यर्थः । अनेन चासन्नियमा- दिति हेतुनिबन्धनाभावादित्येवं व्याख्यातः । सर्वसाम्योक्तेरसन्निबन्धनत्वमेवोपपादयितुं चतुर्द्धा वैलक्षण्यमाह — इहेति । वेदतदङ्गाधर्मशास्त्र-शाक्यादिग्रन्थेष्वेषु तुल्यत्वेनोपन्य- स्तेषु अर्थेषु मध्ये वेदेषु या वेदत्वनित्यता बुद्धिः सा वेदस्वरूपदर्शनादेव जायते, बाधका- भावाच्च पारमार्थिकी । तदङ्गेषु तु कल्पसूत्रेषु शिक्षादिषु च वैदिकग्रहेष्टकाद्यर्थप्रबन्धान् ‘षडङ्गमेके’ इतिस्मृतेश्च वेदत्वनित्यत्वबुद्धिर्जायमाना दृढकर्तृस्मरणात्, ‘मन्त्रब्राह्मणयो- र्वेदनामधेयमि’ति बहुश्रुतिविरोधाच्च भ्रान्तिर्द्धर्मशास्त्रेषु वैदिकग्रहाद्यर्थनिबन्ध- लिङ्गाभावाद्वेदत्वास्मरणाच्च वेदत्वनित्यत्वबुद्धिरजायतैव । शाक्यादिग्रन्थेषु त्वतीन्द्रियार्थनिबन्धनेन, ‘स्थितेवेयं धर्मनित्यतेत्यादिपर्यालोचनया च वेदत्वनित्यत्वबुद्धिर्जातापि स्वसिद्धान्तविरोधाद् दुष्यतीत्यर्थः । ननु शाक्यादिग्रन्थेषु स्वसिद्धान्तविरोधात्कथं वेदत्वनित्यत्वबुद्धिर्जायते इत्याशङ्कयाह—परेणेति । उक्ति- प्रत्युक्तिरूपम्=वाकोवाक्यम् । प्रतिमाने किं कारणमित्यपेक्षायां परवाक्येभ्योऽवगतानां नित्य- त्वोपपत्तीनां स्वागमेष्वारोपः । प्रतिमानकारणत्वेनोक्तः । ननु स्वसिद्धान्तज्ञाने परोक्तो- पपत्त्याऽऽरोपो न सम्भवतीत्याशङ्कयाह—छायामिति । स्वागमप्रामाण्यप्रतिज्ञाहान्या परा- जयात् मुखच्छायां नश्यन्तीं रक्षयितुमित्यर्थः । यद्यप्यात्मीयं सिद्धान्तं जानन्तीत्यध्याहृत्य तथापिशब्दो योज्यः । एतदेवोदाहरणनिष्ठमाह—यथेति । ननु वेदमूलत्वेनापि स्वागम- प्रामाण्यसिद्धेर्नित्यत्वाभिधानमनर्थकमित्याशङ्कयाह—प्रद्वेषादिति । ननु स्वानङ्गीकृत- नित्यत्वाभिधानादसत्यवादित्वं स्यादित्याशङ्कयाह—तन्मात्रेऽपि चेति । नित्यत्वाभिधा- नादसत्यवादित्वाभावेऽपि स्वागमप्रामाण्याभिधानविषये सत्यवादिता सेत्स्यतीत्यर्थः । नन्वहिंसादेर्वेदमूलस्वाभिधानात्कथं तेषां वेदमूलत्वे प्रद्वेष इत्याशङ्कयाह —भूयसामिति । शाक्यैरप्यहिंसादि वेदवत् स्वातन्त्र्येणैव विधीयते, न वेदानुपलभ्येत्यर्थः । नित्यत्वप्रतिपादने किं तेषां प्रयोजनमित्यपेक्षायामाह—ततश्चेति । वेदनिंत्यत्ववागाभासैर्विमोह्यते विभ्राम्यते विप्रतीपीक्रियते—निवार्यत इत्यर्थः । ननु तैर्नित्यत्वस्यासत्वलक्षकवाक्यप्रामाण्य-