भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 499, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 499

१० ] प्रथमाध्याये तृतीयपादः ४४५ पाटलिपुत्रेऽप्युपलम्भापत्तेर्न युज्यते इति शाक्यग्रन्थार्थः । ननु पदार्थानित्यत्वेऽप्यागमनित्य- त्वमवद्यस्मरणादिना सेत्स्यतीत्याशङ्क्याह—यस्तन्तून्विति । पदसङ्घातात्मकस्यागमस्य पदाश्रितत्वात्तदनित्यत्वे नित्यत्वं न युज्यत इत्याशयः । आगमनित्यत्वसिद्धयर्थं चोपकल्पिते पदादिनित्यत्वे शाक्यैर्निराकृतमागमनित्यत्वमिति रूपकद्वारेणाह—यावदिति । आगम- नित्यत्ववेश्मार्थं यावत्पदानित्यत्वादिदारूपकल्पितं तस्मिञ्छाक्योक्तैर्हेत्वाभासाग्निभिर्दग्धे तदागमनित्यत्वरूपं वेश्म दुष्करमित्यर्थः । ननु कूटस्थनित्यत्वासम्भवेऽपि व्यवहारनित्यत्वे प्रवाहनित्यत्वापरपर्यायं भविष्यतीत्या- शङ्क्याह—व्यवहारेति । अर्थप्रतिपादनलक्षणक्रियानित्यत्वमिह व्यवहारनित्यत्वं वाच्यम् । न चाश्रयनित्यत्वं विना तदाश्रितक्रियानित्यत्वं युक्तमित्यर्थः । नन्वाश्रयस्य पदादेः कूटस्थ- नित्यत्वाभावेऽपि प्रवाहनित्यत्वात्तदाश्रितक्रियानित्यत्वं भविष्यतीत्याशङ्क्याह—न चेति । पदावयवभूतानां वर्णानामपि क्षणिकत्वाभ्युपगमाच्च पदार्थानित्यत्वस्यापि जातितो व्यक्तितो वाऽनुपपत्तेर्न पदादेः प्रवाहनित्यतापि शाक्यपक्षे सम्भवतीत्याशयः । अतः स्थितैषां धर्मनित्यतेति वचनाच्छाक्यागमे वेदत्वनित्यत्वबुद्धिर्जातापि सर्वक्षणिकसिद्धान्तविरोधाद् दुष्यतीत्युपसंहरति—स्थितैवेति । किं च क्षणिकत्वे पूर्वोपलब्धाया धर्मताया निर्देशकाले विनष्टत्वादेषेति सर्वनामनिर्देश एव तावन्न युक्तः । चिरविनष्टत्वाद्बुधैत्यस्य तदेकवाक्यता- त्यन्तमयुक्तेत्याह—एषेति । अत्रैव सूत्रं योजयति—तेनेति । असत्त्वस्य क्षणिकत्वस्य सर्वपदार्थेषु विशेषतश्च पदादिषु नियमानिवद्धत्वादभ्युपगतत्वादागमनित्यत्वानुपपत्तिं प्रति- पाद्यमालोच्य प्रागसतश्च कृतिमस्यातीन्द्रियेऽर्थे स्वातन्त्र्यलक्षणं प्रयोगशास्त्रत्वाभावं प्रतिपाद्यमालोच्यैतत्सूत्रमित्यर्थः । असाधुशब्दाभिप्रायो वायमसच्छब्दो व्याख्येय इत्याह— असाध्विति । पूर्वार्द्धं व्याचष्टे—मागधेति । मागधभाषागता असाधवः शब्दा मागधाः दाक्षिणात्यभाषागता दाक्षिणात्याः । तदुभयापभ्रंशप्रायाश्चासाधवो ये शब्दास्तैर्निबन्धनं येषामागमानामिति विग्रहः । मागधदाक्षिणात्या एव तावदसाधवः शब्दाः तदपभ्रंशास्त्व- साधुतरा इत्याशयः । ममापि भिक्षवः कर्म वत्तंत एवाशरीरपातादित्याद्यागमार्थः । उत्क्षिप्ते लोष्ठे उत्क्षेपोऽस्ति कारणम् पतेन नास्ति कारणमस्त्युद्भूवे च कारणम् । इमे च संस्कृता धर्माः सम्भवन्ति सकारणा-अकारणा विनश्यन्ति । उत्पत्तिमनुकारणम- पेक्षन्त इत्याद्यागमन्तरार्थः । उत्तरार्द्धं व्याचष्टे—ततश्चेति । नन्ववद्यस्मरणेऽप्यसाधुशब्द- भूयिष्ठत्वादिना शाक्याद्यागमानां कृतकत्वापादने वेदस्यापि पदसङ्घातात्मकत्वादिहेतुना कृत- कत्वमापद्येतेत्याशङ्कां निराकुर्वन्निहैका परमार्थेनेतिश्लोकस्य पूर्वार्द्धं व्याचष्टे—वेदेषु हीति । आदिमात्रदर्शनाद्वेदे पौरुषेयत्वभ्रान्तिर्निवर्त्तते, किमुत समस्तवेददर्शनादित्याह— आदिमात्रमिति । कथमित्यपेक्षिते पौरुषेयत्वेऽप्यवैलक्षण्यं दर्शयितुं पौरुषेयग्रन्थानां तावत्प्रमाणान्तरानुसारिपदवाक्यनिबद्धत्वमाह—दृष्टार्थेष्विति । वेदानां तद्वैलक्षण्यात्पौरुषेय- त्वासम्भवं दर्शयन्नृग्वेदस्य तावदलौकिकप्रायनियतस्वरकपदानिवद्धत्वात्पौरुषेयत्वासम्भव- माह—प्रपाठकेति ।