मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 501, कुल 804 में से
संदर्भ में पढ़ें१० ] प्रथमाध्याये तृतीयपादः ४४७ व्याकरणानुगतशब्दनियमाभावादिति तृतीयं व्याख्यानं कर्तुमर्थं तावदाह— यावांश्चेति । उक्तेऽर्थे सूत्रं व्याचष्टे—असन्नियमादिति वेति । प्रागविद्यमानस्य ग्रन्थस्य निबन्धनादिति चतुर्थं व्याख्यानमाह-क्षणिकत्वेति । स्वसिद्धान्तप्रसिद्धसर्वक्षणिकत्वनिरा- कृतेन स्थितैवेयं धर्मनित्यतेत्युक्तेन धर्मप्रतिपादकागममनित्यत्वेन सिद्धमनित्यत्वं यस्य ग्रन्थस्य, स तथोक्तः । अत एव निबन्धनात्प्रागत्यन्ताविद्यमानस्य निबन्धनाभ्युपगमादित्य- भिप्रायेणेति योज्यम् । अविद्यमानानां क्षणभङ्गादीनां निबन्धनादिति पञ्चमं व्याख्यान- माह—असतो वेति । असाधुभिर्हेतुभिर्निबन्धनादिति षष्ठं व्याख्यानमाह—असद्धेतुभिश्चेति । ननु क्षणभङ्गादीनामविद्यमानानां हेत्वाभासैर्निबन्धनेऽपि धर्माधर्मनिबन्धनानां कथमप्रामा- ण्यमित्याशङ्कयाह—तदेककर्तृकेति । एवं तावदसाधारणैर्हेतुभिः शाक्याद्यागमानां पौरुषेयत्वमुपपादितम् इदानीं वेदाति- रिक्तविद्यास्थानसाधारणेन कर्तृस्मृतिदाढर्येनोपपादयति-कश्चिदिति । अनेनैव हेतुना वेदातिरिक्तविद्यास्थानानामपि सर्वेषां पौरुषेयत्वमित्याह—एवमिति । अनेन चापौरुषेयत्व- हेतोः कर्तृस्मरणस्य धर्मशास्त्रेष्वभावाद्द्वेदत्वबुद्धिर्न जायत इत्यभिधानादजातापि त्वन्येति श्लोकावयवो व्याख्यातः । ननु कल्पसूत्रेष्वितरेषु च वेदाङ्गेषु च वैदिकार्थप्रबन्धात्षडङ्गमेके इति च स्मृते- र्वेदत्वबुद्धिर्जाता, केन हेतुना बाध्यते इत्याशङ्कयाह—तेनेति । अङ्गत्वविशेषेऽपि कल्पसूत्रेषु वैदिकार्थप्रबन्धाधिक्यात् कल्पसूत्रग्रहणे प्रतीयमानापि स्वतन्त्रता कर्तृस्मरणेन प्रत्याख्यातेति वदताऽन्या भ्रान्तिरिति श्लोकावयवो व्याख्यातः । ननूभयत्र हेतुसद्भावे कथं पौरुषेयत्वस्यैव निश्चय इत्याशङ्कयाह—येनेति । स्मर्त्त- व्यास्मरणमेव दृश्यादर्शनवत्कर्त्रभावे प्रमाणम् । तच्च कल्पसूत्रे नास्ति, वैदिकार्थप्रबन्धस्तु वेदमूलत्वेनाप्युपपत्तेर्न वेदत्वसाधनायालम् । अध्येतॄणां चाङ्गेषु वेदत्वस्मृत्यभावात् 'षडङ्गमेके' इत्यपस्मृतिरित्याशयः । नन्वीश्वरप्रणीतो वेद इति तार्किकाणां कर्तृस्मरणे सत्यपि वेदस्य नित्यत्वमुक्तम्, तथाङ्गेष्वपि भविष्यतीत्याशङ्कयाह-यथैव हीति । अनध्येतृस्मृतेरनभियुक्तगतत्वेना- प्रामाण्यान्न वेदे कर्तृसिद्धिः । कल्पादिषु त्वध्येतॄणामेव कर्तृस्मृतेः पौरुषेयत्वमित्याशयः । अत्रापि प्रागसतां वेदातिरिक्तविद्यास्थानानां निबन्धनादित्येवं सूत्रं योजयति—ततश्चेति । नन्वत्र माशकादिसमाख्यानिमित्ताऽध्येतॄणां कर्तृस्मृतिर्वाच्या । सा च प्रवचनयोगेनाप्युपपत्तेर्न कर्तृसाधनमित्याशङ्कयाह-न चेति । मशकादिशब्दानां च कठादिशब्दवदनादिचरणाभि- धायित्वाज्ज्ञानादिसमाख्याव्युत्पत्तिनिमित्तत्वं सम्भवतीत्याह—यथा चेति । अत्राप्यर्थे मशकादिसमाख्यायाः प्रागविद्यमानग्रन्थविषयत्वादित्येवं सूत्रं योज- यति—अतश्चेति । स्वसंवेद्यालौकिकरूपाभावादिति तृतीयं व्याख्यानमाह—वेदेति । अनध्यायनियमाभावादिति चतुर्थं व्याख्यानमाह—कामं त्विति । भाष्यकृता तत्सूत्रं स्वरनियमाभावाभिप्रायेण व्याख्यातवद्विधविघातकारित्वादयुक्तमित्याह—यस्त्विति । समा-