भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 502, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 502

धत्ते—तस्मादिति । प्रपाठकचतुःषष्ठीत्यादिना यत्स्वसम्वेद्यमलौकिकं वेदरूपमुक्तम्, तस्य कल्पसूत्रेष्वभावोऽत्र भाष्ये प्रयोगशास्त्रत्वाभावाकारणं विवक्षितम् । स्वरग्रहणरूप- लक्षणार्थमित्यर्थः । अवाक्यशेषात् । अनेन सूत्रेणार्थवादरहितत्वात्कल्पसूत्राणामवेदत्वमुक्तमिति प्रतिभाति, तदप्यरुणपराशरशाखाब्राह्मणस्य, वसन्ताय कपिञ्जलानालभेत इत्यादीनां चार्थवादरहित- त्वेनावेदत्वापत्तेरयुक्तमित्याशङ्कद्यालौकिकवेदरूपाभावोपलक्षणार्थत्वेन व्याचष्टे—अत- श्चेति । तच्छब्देन स्वसम्वेद्यरूपाभावः परामृष्टः वाक्यशेषाणामलौकिकरूपत्वमुपपादयति— बहव इति । श्लोकं व्याचष्टे—बृहस्पतिरिति । नन्वर्थवादानामपि विध्येकवाक्यत्वेना- नुष्ठानोपयोगित्वात्प्रणयनमर्थवदित्याशङ्कयाह—नित्यत्वे सतीति । नित्यत्वे पर्य्यनुयोगा- सम्भवात्कथंचिद्गतिः कार्य्या । प्रणयनं तु क्लिष्टार्थस्य मूढतामापादयतीत्यर्थः । वाक्यशेषाणामलौकिकरूपत्वमुपपाद्य, कल्पादिषु तदभावान्नापौरुषेयत्वमिति सूत्रार्थं- सिद्धिमाह—न चेति । भाष्यकृता तु विधानायाच्छिष्यैः शिष्यते विधीयतेऽनेनेत्यस्मिन्नर्थे घञुत्पत्तेर्विधायकवचनं शेषशब्दमङ्गीकृत्य विधायकवाक्यरहितत्वादित्येवं तावत्प्रथमं सूत्रं व्याख्यातम् । तस्य साध्यप्रयोगशास्त्रत्वाभावोपयोगितामाह—विधोति । ननु वर्त्तमाना- पदेशस्यापि ‘समिधो यजती’त्यादेर्विधित्वाङ्गीकरणान्न तेन विध्यभावः शक्यो वक्तुम्, वचना- नामित्याशङ्क्य, वाक्यशेषान्वयान्यथानुपपत्त्या तत्र विधिपरत्वं कल्प्यते न तु कल्पादिष्व- सावस्तीत्येवं परतया पुनरेतत्सूत्रव्याख्यानार्थं न चात्रेति भाष्यं व्याचष्टे—वर्त्तमानेति । विधित्वेऽङ्गीकृते तत्प्ररोचकत्वेनार्थवादान्वयोपपत्तेस्तदुपपादकत्वेन विधिकल्पनमभि- प्रेत्यार्थवादप्ररोचित इत्युक्तम् । ननु विध्येकवाक्यत्वं विना लाक्षणिकप्ररोचनार्थत्वं युक्तमिति प्रागेवोपपादितम् । ननु- वसन्ताय कपिञ्जलानालभेत इत्यादी वाक्यशेषाभावेऽपि वर्त्तमानापदेशस्य विधित्वदर्शनात् कल्पादिष्वपि तथा भविष्यतीत्याशङ्कयाह--पञ्चमेनेति । छन्दसोत्यधिकृत्य, लिङर्थे लेडिति स्मृतेर्नान्यत्र पञ्चमलकारोऽस्तीत्याशयः । ननु छन्दःशब्दस्य वेदविषयत्वात्पूर्वपक्षे च कल्पादीनामपि वेदत्वाम्युपगमात्पञ्चमल- कारो युज्यत इवेत्याशङ्कयाह—यद्यपीति । यथैव छन्दःशब्दस्य गायत्र्यादिच्छन्दोयोगा- दङ्गमात्रविषयत्वप्रतीतावपि मन्त्रान्तरेषु ब्राह्मणोऽपि छन्दोनिमित्ता यस्य पादादिविधिदर्श- नात्तद्विषयताप्यवसीयते, तथैव मन्त्रब्राह्मणव्यतिरेकेण वेदशब्दाभिलप्येऽपि तर्के छन्दो- निमित्तविध्यदर्शनान्मन्त्रब्राह्मणमात्रविषयत्वावसायान्न वेदमात्रविषयश्छन्दःशब्द इत्याशयः । एतदेव विवृणोति—यथैव हीति । विधिर्ब्राह्मणम्, विधेयो मन्त्रः । तर्को मीमांसा । यद्यप्यध्येतृभिर्मीमांसायां वेदशब्दाप्रयोगात्तदनपेक्षया चैतया स्मृत्या विध्यादीनां वेदत्वोक्ता श्रुत्या विध्युद्देशस्यैव विधिशब्दवाच्यत्वे नार्थवादमन्त्रोपनिषदामवेदत्वांपत्तेर्विषयत्वतकं- त्वाभ्यां चाग्निहोत्रादिन्यायविस्तरादीनामपि वेदत्वापत्तेर्नार्नया स्मृत्या तर्कस्य वेदत्व-