मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
धत्ते—तस्मादिति । प्रपाठकचतुःषष्ठीत्यादिना यत्स्वसम्वेद्यमलौकिकं वेदरूपमुक्तम्, तस्य कल्पसूत्रेष्वभावोऽत्र भाष्ये प्रयोगशास्त्रत्वाभावाकारणं विवक्षितम् । स्वरग्रहणरूप- लक्षणार्थमित्यर्थः । अवाक्यशेषात् । अनेन सूत्रेणार्थवादरहितत्वात्कल्पसूत्राणामवेदत्वमुक्तमिति प्रतिभाति, तदप्यरुणपराशरशाखाब्राह्मणस्य, वसन्ताय कपिञ्जलानालभेत इत्यादीनां चार्थवादरहित- त्वेनावेदत्वापत्तेरयुक्तमित्याशङ्कद्यालौकिकवेदरूपाभावोपलक्षणार्थत्वेन व्याचष्टे—अत- श्चेति । तच्छब्देन स्वसम्वेद्यरूपाभावः परामृष्टः वाक्यशेषाणामलौकिकरूपत्वमुपपादयति— बहव इति । श्लोकं व्याचष्टे—बृहस्पतिरिति । नन्वर्थवादानामपि विध्येकवाक्यत्वेना- नुष्ठानोपयोगित्वात्प्रणयनमर्थवदित्याशङ्कयाह—नित्यत्वे सतीति । नित्यत्वे पर्य्यनुयोगा- सम्भवात्कथंचिद्गतिः कार्य्या । प्रणयनं तु क्लिष्टार्थस्य मूढतामापादयतीत्यर्थः । वाक्यशेषाणामलौकिकरूपत्वमुपपाद्य, कल्पादिषु तदभावान्नापौरुषेयत्वमिति सूत्रार्थं- सिद्धिमाह—न चेति । भाष्यकृता तु विधानायाच्छिष्यैः शिष्यते विधीयतेऽनेनेत्यस्मिन्नर्थे घञुत्पत्तेर्विधायकवचनं शेषशब्दमङ्गीकृत्य विधायकवाक्यरहितत्वादित्येवं तावत्प्रथमं सूत्रं व्याख्यातम् । तस्य साध्यप्रयोगशास्त्रत्वाभावोपयोगितामाह—विधोति । ननु वर्त्तमाना- पदेशस्यापि ‘समिधो यजती’त्यादेर्विधित्वाङ्गीकरणान्न तेन विध्यभावः शक्यो वक्तुम्, वचना- नामित्याशङ्क्य, वाक्यशेषान्वयान्यथानुपपत्त्या तत्र विधिपरत्वं कल्प्यते न तु कल्पादिष्व- सावस्तीत्येवं परतया पुनरेतत्सूत्रव्याख्यानार्थं न चात्रेति भाष्यं व्याचष्टे—वर्त्तमानेति । विधित्वेऽङ्गीकृते तत्प्ररोचकत्वेनार्थवादान्वयोपपत्तेस्तदुपपादकत्वेन विधिकल्पनमभि- प्रेत्यार्थवादप्ररोचित इत्युक्तम् । ननु विध्येकवाक्यत्वं विना लाक्षणिकप्ररोचनार्थत्वं युक्तमिति प्रागेवोपपादितम् । ननु- वसन्ताय कपिञ्जलानालभेत इत्यादी वाक्यशेषाभावेऽपि वर्त्तमानापदेशस्य विधित्वदर्शनात् कल्पादिष्वपि तथा भविष्यतीत्याशङ्कयाह--पञ्चमेनेति । छन्दसोत्यधिकृत्य, लिङर्थे लेडिति स्मृतेर्नान्यत्र पञ्चमलकारोऽस्तीत्याशयः । ननु छन्दःशब्दस्य वेदविषयत्वात्पूर्वपक्षे च कल्पादीनामपि वेदत्वाम्युपगमात्पञ्चमल- कारो युज्यत इवेत्याशङ्कयाह—यद्यपीति । यथैव छन्दःशब्दस्य गायत्र्यादिच्छन्दोयोगा- दङ्गमात्रविषयत्वप्रतीतावपि मन्त्रान्तरेषु ब्राह्मणोऽपि छन्दोनिमित्ता यस्य पादादिविधिदर्श- नात्तद्विषयताप्यवसीयते, तथैव मन्त्रब्राह्मणव्यतिरेकेण वेदशब्दाभिलप्येऽपि तर्के छन्दो- निमित्तविध्यदर्शनान्मन्त्रब्राह्मणमात्रविषयत्वावसायान्न वेदमात्रविषयश्छन्दःशब्द इत्याशयः । एतदेव विवृणोति—यथैव हीति । विधिर्ब्राह्मणम्, विधेयो मन्त्रः । तर्को मीमांसा । यद्यप्यध्येतृभिर्मीमांसायां वेदशब्दाप्रयोगात्तदनपेक्षया चैतया स्मृत्या विध्यादीनां वेदत्वोक्ता श्रुत्या विध्युद्देशस्यैव विधिशब्दवाच्यत्वे नार्थवादमन्त्रोपनिषदामवेदत्वांपत्तेर्विषयत्वतकं- त्वाभ्यां चाग्निहोत्रादिन्यायविस्तरादीनामपि वेदत्वापत्तेर्नार्नया स्मृत्या तर्कस्य वेदत्व-
१० ] प्रथमाध्याये तृतीयपादः ४४९ मुच्यते, किं तु कश्चिद्वेदभागो विधायकः, कश्चिद्विधेयः, कश्चिच्च स एष नेति नेत्यादिर- नित्यशरीरादिव्यतिरेकेण नित्यात्मप्रतिपादनादिरूपतर्कानुरूपत्वात्तर्कं इति त्रैविध्यं वेद- स्योच्यते, तथापि विध्यादित्रयस्य वेदत्वप्रतिपादनार्थेयं स्मृतिरिति परमताम्युपगमेनायं दृष्टान्त इति सूचनार्थमेतस्मिन्दर्शने सतीत्युक्तम् । भाष्यकृता कल्पसूत्राणां वेदवाक्यैस्तुल्यादरत्वं पूर्वोक्तम् । यश्चादर इत्यनुभाष्य स नान्तरीयकत्वादिति परिहारमुक्त्वा कथं नान्तरीयकत्वमित्यपेक्षायां शाखान्तरगतकर्माङ्ग- भूतमन्त्ररूपवेदवाक्यमिश्राणां कल्पसूत्राणां पाठान्मन्त्रकौशलार्थं घटिकादिष्वादरे नान्त- रीयकः कल्पसूत्रादर इत्युक्तम् । तदतिस्पष्टत्वान्न व्याख्यातम् । ब्रह्मयज्ञविधिविषयत्वतुल्यताभिप्रायेण तुल्यादरभाष्यव्याख्याने स्वयमनुभाषणपूर्वकं परिहारमाह—यच्चेति । कल्पसूत्राण्येवात्रोदाहरणमित्यभिमानेनानैकान्तिकत्वोपन्यासः । अतोऽनैकान्तिकत्वान्न विधेयत्वमात्रेणाकृतकत्वनिश्चय इत्याह—तस्मादिति । प्रवाहनित्य- त्वाच्च नित्यानित्यसंयोगविरोधपरिहार इत्याह—वेदार्थेति । ननु प्रवाहनित्यत्वेऽप्य- पूर्वस्य ग्रन्थस्य कल्पसंज्ञाकरणान्नित्यसंयोगविरोधः प्रसज्येतेत्याशङ्क्याह—वेदार्थेति । यौगिकेयं संज्ञा, न ग्रन्थव्यक्तिनिबन्धनेत्यर्थः । प्रयोगप्रांशुभावोपयोगिकर्मानुसन्धानप्रयो- जनत्वाच्चास्य विधेस्तस्य च येन केनचित्प्रयोगकल्पनात्मकेन शब्देनोपपत्तेर्ग्रन्थविशेषस्य विधिविषयत्वाभावान्न नित्यतापत्तिरित्याह—कर्मेति । कर्मणोऽभ्यासेनानुसन्धानं विधि- प्रयोजनमित्यर्थः । प्रयोजनवचनोऽर्थशब्दः । यद्वा नात्र कल्पाख्यग्रन्थाध्ययनं विधेयम्, किं त्विकस्मरण इत्यस्य धातोरधीत इति रूपमङ्गीकृत्य कर्मणो वेदार्थस्याहरहरभ्यासेन स्मरणं विधेयमिति । परिहारान्तरमने- नोच्यते चशब्दो वाशब्दार्थः । ऋक्षादौ वेदाध्ययन इत्येतद्धात्वर्थत्वेनावधारितस्याधीत इत्यस्य कल्पानित्यत्रानुपक्तस्य धात्वन्तररूपत्वायोगादन्वाचयोपपत्तिसूचनार्थः । वैदिकार्थ- प्रबन्धस्य वेदत्वहेतोर्भाष्यकारेणापरिहृतत्वात्स्वयमनुभाषणपूर्वकं परिहारमाह—पुनरिति । अत एव स्वातन्त्र्यमपि न संवादात्सिध्यतीत्याह—तदर्थेति । ननु 'षडङ्गमेके' इति कल्पादीनां वेदत्वस्मृतेः किमित्यन्यथा संवादो नीयत इत्याह—वेदेति । षडङ्गेऽध्येतृभि- र्वेदशब्दाप्रयोगादपस्मृतिरेषेत्यर्थः । ततश्चैतन्न सिद्धान्तभाषितमित्येवं चशब्दो योज्यः । यच्च कल्पसूत्राणां वैदिकार्थानुवादत्वं तदर्थानुगमान्नेत्यनेनोक्तम्,, तदुपपादयति— संवादे चेति । ननु शाखान्तरन्यायेनैषामपि विधित्वमविरुद्धमित्याशङ्क्याह—न चेति । एतदेव विवृणोति—सर्वेति । किं च होतृवषट्कारे चमसा नीयन्ते उद्गातृब्रह्मणो यजमानस्येति भक्षणार्थं नयनमुक्त्वा केनादौ भक्षणीयमित्यपेक्षायां तेषां होताग्रे भक्षयेदिति प्रतिज्ञाय, तस्य वषट्कारान्वयत्वादित्यादिभिर्वषट्कर्तुः प्रथमभक्ष इत्यादिव्राह्मणोत्थहेतु- भिर्व्याख्यानदर्शनात्कल्पसूत्राणां ब्राह्माणोक्तार्थानुवादकतावसीयत इत्याह—विवृण्वन्तश्चेति । २९
तथा प्राश्य घृतं शंसेद्य चाह वा इदमनो वा रथो वाऽक्तो वर्त्तंत, एवं हैवाक्तो इत्यादिभिर्घृतप्राशनादिविधिशेषभूतैर्ब्राह्मणैर्नाचामेद्विशदिति विवायते देवरथो वा यज्ञेोता, नाक्षमञ्जिः करवाणीत्यादिवाक्यैराचमनामावाद्ज्ञापनानुवादकत्वनिश्चय इत्याह—अन्यार्थे- रिति । उपसंहरति — अर्थेति । आचार्यवचःप्रामाण्यं श्रुत्यैवोक्तमिति पूर्वोक्तस्य यत्त्वित्याद्यनुभाषणपूर्वकं परिहार- भाष्यं व्याचष्टे—आचार्येति । वेदवचः प्रमाणमित्येवमन्यार्थताभाष्यकृतोदितेत्यर्थः । अव्युत्पन्नो वाऽयमाचार्यशब्दो व्याख्यातृव्यापयितृविषयः, न तु कल्पसूत्रकारविषय इति परिहारान्तरं (यद्वेति) भाष्येणोक्तं तद्वद्याचष्टे—व्याचक्षाणस्येति । शिष्याणां स्वप्रत्यये संवादनिरपेक्षप्रदर्शनार्थं स्वयम्प्रमाणतेत्युक्तम् । अयमेव परिहारः स्मृत्यानुगुण्याद्युक्त इत्याह—आचार्येति । नन्वाप्तवाक्यप्रामाण्यस्य लोकप्रसिद्धत्वाद्धचनमनर्थकमित्याशङ्क्याह—वेदेति । अनेन भाष्येण यत्प्रमाणमाचार्यवचनम्, तदपेक्षेयं श्रुतिरित्युक्त्वा कतरदितिपृष्टे यत्प्रमाणगम्य- मित्यभिधानात् व्याख्यातृवचनमध्यापकवचनमपि वा सम्भवन्मूलप्रमाणकमेव सत्यं न सर्व- मित्युक्तम् । तदुपपादयति—न चेति । 'अनृतवादिनी वागि'तिश्रुतेः प्रायोभिप्रायत्वेन रूपात्प्रायादित्यत्र व्याख्यातत्वात्प्रायादित्युकम् । श्रुत्यन्तरमुदाहरति—अन्यत्रापीति । यदि च वेदसंवादकल्पसूत्राणां वेदत्वम्, वेदतुल्यत्वं वोच्यते, ततः क्वचिद्विसंवादा- द्वैपरीत्यमपि शक्यं वक्तुमित्येतदर्थत्वेन सर्वत्र च प्रयुक्तत्वात्सन्निधानवशाच्चेति सूत्रं 'यच्चोक्तमिति भाष्येणावतारितम् । तद्व्याचष्टे—वेदादेवेति । यज्ञायज्ञीयमेव प्रयणीयाग्नि- ष्टोमसामकार्यमित्यादेः पञ्चविंशब्राह्मणे जराबोधीययज्ञायज्ञीययोः प्रायणीयाग्निष्टोमसाम- वैकल्पिकविधानेन साक्षाद्वेदेन विसंवाददर्शनात् अपि वा नानागोत्राः स्युरित्यादेस्तनून्- पात्नाराशंसकल्पाद्यवैगुण्याय समानकल्पानामेव सूत्रेष्वधिकार इति, वेदोत्थेन न्यायेन विसं वाददर्शनात्कल्पसूत्रकारवाचां वेदादेवानुक्तत्वावगतिरित्यर्थः । इह च यच्चोक्तमिति सूत्रावतारणार्थानुभाषणभाष्ये च शब्दप्रयोगात्तुल्यादराचार्यवचः प्रामाण्यश्रुत्योः परिहारो सर्वत्र चेति सौत्रेण चशब्देन सूचितौ कल्प्येते । यद्वा पूर्वमेव सूत्रं नवमपनीय व्यवधारणकल्पनया वा अस्मिन्परिहारद्वये योज्यम् । शेषस्य शेषिमिश्रत्वेन लक्षणया वेदवाक्यमिश्रत्वप्रतीतेरर्थवादे च वाक्यशेषशब्दस्य प्रसिद्ध- त्वाद्यद्ययं न वाक्यशेषः स्यादेतच्छङ्काद्वयमपि च व्यवधारणकल्पनयापि व्याहृतोपप- त्तेर्नोत्सूत्रत्वाशङ्का । उक्तेऽर्थे सूत्रं योजयति—सर्वत्र चेति । पूर्वेण सूत्रावयवेन विसंवादविषयोदाहरणे, उत्तरेण विसंवादाभिधानमित्यर्थः । अतिशयार्थोऽभ्यासः । अत्र भाष्यकृता सर्वत्र तिथिषु कल्पसूत्रकारैः पौर्णमास्यामावास्याख्यकर्मणः प्रयुक्तत्वादनुष्ठापितत्वादित्येवं सूत्रावयवं व्याचक्षाणेन शुक्लपक्षे यस्यां कस्यांचत्तिथावमावास्याख्यं कर्म कार्यमिति कल्पसूत्रकार- वचनत्वेनोदाहृतम् । तद् दूषयति—तत्रेति ।
१० ] प्रथमाध्याये तृतीयपादः ४५१ यद्वृत्तिकारेणोदाहरणं दत्तं तदनादृत्य इत्यन्वयः। अत्यन्तासिद्धस्याध्यारोपेण कल्प- सूत्रकाराणामभिभवः कार्यं इत्यभिप्रायेण युक्तत्वादिति हेतुः। किमत्यन्ताभूतमध्यारो- पितमित्यपेक्षायां दर्शोत्युक्तं दर्शपूर्णमासयोश्चरकं गमकं तद्विषयं कल्पसूत्रकारवचनं चेत्यसदे- वाध्यारोपितमित्यर्थः। नन्वमावास्यापौर्णमासीशब्दयोर्दर्शनात् कथं तद्विषयस्यासत्त्वमित्या- शङ्क्य-पार्वणेत्युक्तम्। गृह्यकारवचनत्वेन श्रवणादित तद्विषयत्वे हेतुः। गृह्यशब्दस्योपास- नाग्न्यधिकरणकर्मविषयत्वेन तत्प्रतिपादनाधिकृतानां वैतानिककर्मप्रतिपादनस्यानुचितत्वा- दिति भावः। एतदेव दृष्टान्तेनोपपादयति—गृह्येति। प्रदोषान्तो होमकालः, सङ्गवान्तः प्रातः तमतिनीय चतुर्गृहीतमाज्यं जुहुयादित्यग्निहोत्रस्य स्वकालातिक्रमे प्रायश्चित्तस्मरणाद- पस्मृतेस्तद्विषयत्वाभावनिश्चयाद् दृष्टान्तत्वम्। गृह्यकारवचनत्वेन स्वयंदृष्टत्वाद्भाष्यकारो- दाहृतसमानविषयमुदाहरणान्तरमुक्तम्। किं तर्ह्यत्रोदाहरणमित्यपेक्षायामाह--तस्मादिति। सर्वाणि हवींषि पर्यग्निकरोतीति कल्पसूत्रकारैः पर्यग्निकरणस्य सर्वत्र हविःषु प्रयुक्त- त्वात्तद्विरुद्धस्य च पुरोडाशं पर्यग्निकरोतीति शास्त्रस्य सन्निधानादित्येवं व्याख्येय- मित्यर्थः॥ १० ॥ ॥ इति षष्ठं कल्पसूत्राधिकरणम् ॥ मा० प्र०—म्लेच्छों की प्रसिद्धि से आर्यों की प्रसिद्धि बलवती है—यह पूर्व सूत्र के व्याख्यान से सिद्ध है। प्रस्तुत प्रसङ्ग में यह आशङ्का होती है कि वेद आदि में पिक, तामरस, नेम, क्लोम, आदि का किसी विशेष अर्थ में प्रयोग प्रसिद्ध नहीं है, किन्तु म्लेच्छों ने क्रमशः कोकिल, पद्म, अर्द्ध, देह के अभ्यन्तर स्थित अवयव विशेष में प्रयोग किया है। म्लेच्छों के द्वारा स्वीकृत इन अर्थों का ग्रहण करना उचित है या नहीं ? पूर्वपक्षियों का कहना है कि पूर्व अधिकरण में म्लेच्छों की प्रसिद्धि को अशास्त्रीय माना गया है, अतः उनकी प्रसिद्धि अनादरणीय है, इसलिए प्रदर्शित अर्थ ग्राह्य नहीं हैं। इसके समाधान में सिद्धान्ती ने कहा है कि आर्यों की प्रसिद्धि के साथ म्लेच्छों का विरोध रहने पर पूर्वोक्त नियम स्वीकार किया गया है। किन्तु, प्रकृत में आर्यों की इन शब्दों के अर्थों की प्रसिद्धि नहीं है, अतः म्लेच्छों की प्रसिद्धि ही आदरणीय है। निरुक्त आदि में इन शब्दों के अन्य अर्थों की कल्पना उचित नहीं है, क्योंकि (१) यौगिक अर्थ की अपेक्षा रूढ़ अर्थात् प्रसिद्ध अर्थ बलवान् होता है। (२) निरुक्त के द्वारा एक ही शब्द के अनेक अर्थों की कल्पना की जा सकती है, ऐसी स्थिति में कौन अर्थ ग्राह्य है, कौन अर्थ ग्राह्य नहीं है—इसकी व्यवस्था सम्भव नहीं है। (३) पशु-पक्षी आदि के पालने में, वृक्ष, पुष्प आदि की वृद्धि में, पशुओं के छेदन-भेदन आदि कार्यों में आर्यों की अपेक्षा म्लेच्छ अधिक पटु हैं, अतः, इन विषयों में उनको ही अभियुक्त मानना होगा, फलतः, पिक, तामरस आदि वैदिक शब्दों का अर्थ उन लोगों की प्रसिद्धि के अनुसार ही मानना होगा। अर्थ प्रसिद्धि के साथ विरोध न होने से इन स्थलों में म्लेच्छों की
४५२ मीमांसादर्शनम् [ सू० प्रसिद्धि बलवान् है । म्लेच्छ का अर्थ अपभ्रंश, प्राकृत आदि भाषा का व्यवहार करने वाला व्यक्ति होता है । ‘चोदितम्’ म्लेच्छों के द्वारा अर्थ विशेष में प्रयुक्त अर्थात् व्यवहृत शब्द समूह ‘तु’ किन्तु, ‘प्रतीयेत’ प्रतीत होता है अर्थात् उस अर्थ के वाचक रूप में अवगत होता है ‘अविरोधात् प्रमाणेन’ प्रमाण के साथ विरोध नहीं है । इन विशेष शब्दों का आर्यों ने विशेष अर्थ में व्यवहार नहीं किया है, अतः इन शब्दों का म्लेच्छों ने जिस अर्थ में प्रयोग किया है, उन शब्दों का वही अर्थ ग्रहण करना उचित है, क्योंकि म्लेच्छों का व्यवहार आर्यों के व्यवहार का विरोधी नहीं है ॥ १० ॥ अथ षष्ठं कल्पसूत्राधिकरणम् [६] प्रयोगशास्त्रमिति चेत् ॥ ११ ॥ पू० शा० भा०—इह कल्पसूत्राण्युदाहरणम् । मशकम्, हास्तिकम्, कौण्डिन्यक- मित्येवं लक्षणकानि किं प्रमाणमप्रमाणं वेति सन्दिग्धानि । किं प्राप्तम् ? प्रयोगस्य शास्त्रं प्रमाणमेवं जातीयकमिति ब्रूमः । सत्यवाचामेतानि वचनानि । कथमवगम्यते । वैदिकैरेषां संवादो भवति । य एव हि वेदे ग्रहास्त एवेह, या एव वेदे इष्टकास्ता एवेह । तस्मात्सत्यवाच आचार्याः । आचार्यवचः प्रमाणमिति च श्रुतिः१ । प्रत्यक्षतः प्रामाण्यमनवगतमिति यद्युच्येत ? प्रमाणान्तरेण वचनेनावगतमिति२ न दोषः । वेदवाक्यैश्चैषां तुल्य आदरः । तस्मात् प्रमाणम् ॥ ११ ॥ इति पूर्वपक्षः । भा० वि०—एवं तावत्स्मृत्यधिकरणसिद्धस्यौत्सर्गिकस्याचारप्रामाण्यस्यार्य- प्रसिद्धिविरोधे म्लेच्छप्रयोगरूपम् आचारेऽपवादम्, तदविरोधे चोत्सर्गस्थिति- मभिधायेदानीं स्मृतीनामपि वेदव्यतिरिक्तविद्यास्थानरूपाणामौत्सर्गिकं श्रुति- मूलत्वेन प्रामाण्यं स्मृत्यधिकरणसिद्धमेवानेनाक्षिप्य समाधीयत इति सङ्गतिः । न चाशब्दमूलत्वेन स्मृत्यधिकणे पूर्वपक्षप्रदर्शनात् । सिद्धान्ते च शब्दानुमान- कथनात् कल्पसूत्राणां च प्रत्यक्षवेदमूलत्वात् कथं समस्तविद्यास्थानविषयत्वं स्मृत्यधिकरणन्यायस्येति वाच्यम्, स्मृतीनामपि कासाञ्चिद् उपनयनादिविषयाणां प्रत्यक्षश्रुतिमूलत्वदर्शनात् कल्पसूत्राणामपि नानाशाखाङ्गोपाङ्गोपसङ्ग्राहिणां सर्वेषामेव प्रत्यक्षमूलत्वासम्भवात्, स्वल्पभूयस्त्वेन च विशेषोपपत्तेरिति मन्तव्यम् । १. ब. च श्रुतिप्रत्यक्षतः । २. ब. वचनेन वावगत ।
पादयति—कथमित्यादिना । कल्पादीनां वैदिकार्थविषयत्वेन वेदसंवादित्वमत
११ ] प्रथमाध्याये तृतीयपादः ४५३ विषयमाह—इहेति । कल्पसूत्रशब्दो विद्यास्थानमात्रपरः । अत्र१ च कल्पशब्द प्रयोगकल्पनात् कल्प इति बोधायनमशकादिप्रणीतग्रन्थविषयः । सूत्रशब्दस्तु प्रयोगसूचनात् सूत्रमिति व्युत्पत्त्या संज्ञापरिभाषादिभिः व्याख्यानापेक्षाश्वलाय- नादिग्रन्थविषयः । तत्रापौरुषेयत्वपौरुषेयत्वाभ्यां संशयमाह—किं प्रमाणमिति । किं वेदमूलत्वेन विना स्वयमेव वेदतया वेदतुल्यतया वा प्रमाणम् किं वा स्वातन्त्र्येण न प्रमाणम् ? किन्तु श्रुतिमूलतयेति विमर्शार्थः, विचारप्रयोजनं त्वधीतवेदविस्मरणप्रायश्चित्तवान् कल्पसूत्रादिविस्मरणेऽपि प्रायश्चित्त-प्राप्तिः, सूत्रं व्याकुर्वाणः पूर्वपक्षयति—प्रयोगस्येति । यस्मादेवं जातीयकं कल्पादिरूपं प्रयोगस्य धर्मानुष्ठानस्य शास्त्रं शासकम्, तस्मात् स्वयमेव प्रमाणमित्यर्थः । पौरुषेयवाक्य- स्यातीन्द्रियधर्मानुष्ठापकत्वाभावेन प्रयोगशास्त्रत्वादेवापौरुषेयत्वनिश्चयादिति भावः । कल्पादीनां स्वयं प्रमाणत्वे हेत्वन्तरमाह—सत्यवाचामिति । न गुणवद्वक्तृकत्वं सत्यवादिवचनत्वम्, किन्तु संवादिवचनत्वमभिप्रेतम् । एतदेव प्रश्नपूर्वकमुप- पादयति—कथमित्यादिना । कल्पादीनां वैदिकार्थविषयत्वेन वेदसंवादित्वमत आह—य एवेति । कल्पादीनां वेदेनैकार्थ्यं फलितमाह—तस्मादिति । आचार्याः मशकप्रभृतयः । ननु कल्पादीनाम् "अग्निमीले पुरोहितम्" इत्यादीनामिव रूपदर्शनमात्रेणा- पौरुषेयत्वानवगमात् कथं संवादित्वेन प्रामाण्यमत आह—आचार्यवचनमिति । आचार्यैः मशकादिभिः प्रोच्यमानमाचार्यवचनमित्युच्यते । एतदेव विवृणोति— प्रत्यक्षत इति । इतश्चानपेक्षमैतेषां प्रामाण्यमित्याह—वेदवाक्यैश्चेति । यादृशो हि मन्त्रब्राह्मणयोः अध्येतॄणामादरः अनध्यायपरिवर्जनादिरूपः, तादृश एव कल्पसूत्रेष्वित्यर्थः । उक्तहेतुसिद्धमनपेक्ष्य प्रामाण्यमुपसंहरति—तस्मादिति ॥११॥ षष्ठं कल्पसूत्राधिकरणं त० वा०—कल्पसूत्राण्युदाहृत्य संप्रत्येतद्विचायंते । किमेतेषां स्वतन्त्राणां प्रामाण्यं वेदवद्द्भवेत् ॥ ५०१ किं वा वेदत्वमेवैषां मन्त्रब्राह्मणवन्मतम् । वैदिकार्थप्रबन्धाद्धि नैतेषां स्मृतितुल्यता ॥ ५०२ कल्पसूत्रयोर्भेदवर्णनम् आह—के पुनः कल्पाः ? कानि सूत्राणीति ? उच्यते—सिद्धरूपः प्रयोगो यैः कर्मणामनुगम्यते ॥ ५०३ १. कल्पानां सूत्राणाञ्च भेदो वार्तिके प्रतिपादितः । यथा सिद्धरूपः प्रयोगो यैः कर्मणा- मनुगम्यते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते—इति । तदेवात्र व्याख्यात्रा निर्दिश्यते ।
सूत्रं तु सूचनात्तेषां स्वयं कल्पप्रयोजकम् ।
४५४ मीमांसादर्शनम् [ सू० ते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते । कल्पनाद्धि प्रयोगाणां कल्पोऽनुष्ठानसाधनम् ॥ ५०४ सूत्रं तु सूचनात्तेषां स्वयं कल्पप्रयोजकम् । कल्पाः पठितसिद्धा हि प्रयोगाणां प्रतिक्रतु ॥ ५०५ बौधायनीय-वाराह-माशकादिप्रबन्धवत् । स्वसंज्ञापरिभाषाभिर्युत्सर्गपवादनम् ॥ ५०६ हेतुदृष्टान्तवत्सूत्रं तल्लक्ष्यव्यापि लक्षणम् । आश्वलायनकं सूत्रं¹ वैजवापिकृतं तथा ॥ ५०७ द्राह्मायणीयलाटीयकात्यायनकृतानि च । तत्र सकलप्रत्यक्षवेदप्रतिपाद्यक्रतूपयोगोपनिबन्धनादन्तर्हितविप्रकीर्णानुमेय- प्रायश्रुतिमूलस्मृतिबन्धनेभ्यो महानेव कल्पसूत्राणां विशेषोऽस्तीति, न तत् तद्गतन्यायं व्यवस्थाप्य प्रामाण्यानि विज्ञायन्ते । अप्रामाण्यं स्मृतीनां च यदशब्दतयोदितम् । पूर्वपक्षे न तद्वक्तुं कल्पसूत्रेषु शक्यते ॥ ५०८ प्रत्यक्षवेदशब्दत्वात्तदुक्ता नापशब्दता । न ह्यत्यन्तानृतं वक्तुं शक्यते पूर्वपक्षिणा ॥ ५०९ स्मृत्यधिकरणे चाप्रमाणत्वं मूलानुपपत्त्या पूर्वपक्षेऽभिधाय, सिद्धान्तेऽनुमि- तश्रुतिमूलत्वेन प्रामाण्यं स्थापितम् । एतानि च न तत्रोदाहृतानि, पूर्वपक्षहेत्वसं- भवात् । न चैषामिह प्रामाण्यप्रतिपादनम्² । अतिरिक्तप्रामाण्यापवादप्रतिपादार्ह- त्वादधिकरणस्य । यद्वा भवतु नामैषां तस्मिन्नपि विचारणा । तेषां चात्रापि सर्वेषामिति प्रामाण्यवारणा ॥ ५१० यदि धर्मं प्रति स्मृतीनां प्रामाण्यमभ्युपगम्यते । तथा सति । तासामपि हि वेदत्वे तैर्वा तुल्यप्रमाणता । स्वातन्त्र्याच्छक्यते वक्तुं न तु मूलानुमानतः ॥ ५११ यद्वा प्रयोगशास्त्रत्वमङ्गानामभिधीयते । वेदत्वं वा षडङ्गेऽपि वेदत्वस्मृतिरस्ति हि ॥ ५१२ 'मन्त्रब्राह्मणयोर्वेद इति नामधेयम्, षडङ्गमेके' इत्याङ्गान्यपि वेदशब्दवा- च्यानि स्मर्यन्ते । तस्मात्तान्यपि वेदा³ वा प्रमाणानि स्वतोऽथ वा । प्रतिभान्तीति कर्तव्यमन्यथा प्रतिपादनम् ॥ ५१३ १. वैजावापि पु० पा० । २. क प्रामाण्याप्रति । ३. क. वेदो ।
११ ] प्रथमाध्याये तृतीयपादः ४५५ यद्वा शाक्यादिशास्त्राणां स्मृतिशास्त्रत्ववारणात् । वेदशाखासमानत्वमाशङ्क्येह निवार्यते ॥ ५१४ शाक्यादयोऽपि ह्येवं वदन्त्येव । यथा ‘उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवेयं धर्मनित्यता’ इति । ततश्च वेदवन्नित्यास्तेऽपि चेदागमा मताः । चोदनालक्षणो धर्मस्तदुक्तोऽपि प्रसज्यते ॥ ५१५ कामं न प्रविशेद् ग्रामं वारितो दण्डपाणिभिः । स्पष्टं महापथेनेव संप्रति प्रविविक्षति ॥ ५१६ एवमेतानि चत्वार्यपि विचारस्थानान्येकमार्गपतितानि कल्पसूत्रविचारेणैव गतप्रायाणि भविष्यन्तीति मन्वानेन तदुपन्यासमात्रमेव क्रियते । का गतिः कल्पसूत्राणामित्यस्मिन् संशये सति । प्रयोगशास्त्रतां तावत् प्राह स्म त्यक्तसंशयम् ॥ ५१७ वेदत्वं कल्पसूत्राणां न मोक्तव्यं मनागपि । यदि वा वेदतुल्यत्वं स्वतन्त्राणां प्रतीयताम् ॥ ५१८ वेदेनैवाभ्यनुज्ञाता धर्मे तेषां प्रमाणता । वेदत्वमेव वा सिद्धं संवादादिप्रमाणकम् ॥ ५१९ ननु च पौरुषेयत्वादेषामेतदुभयमप्यनुपपन्नम् । नैतेषां पौरुषेयत्वं भविष्यति हि वेदवत् । माशकादिसमाख्या हि प्रोक्तत्वात्काठकादिवत् ॥ ५२० यथैव काठादिप्रोक्ताः शाखाः काठकादिसमाख्ययाऽभिधीयन्त इत्यकृत्रिमाः१ स्थापिताः तथैव वेदसमाम्नातमाशकादिसमाख्यातग्रन्थनित्यतापि प्रत्येत्तव्या । यथा सामसूक्तानामिदमस्याऽऽर्षमिदमस्येति सत्यामपि तन्निमित्तायां समाख्यायां न नित्यत्वप्रतिघातः । एवं प्रख्यातर्षिप्रणीकल्पसूत्रग्रन्थानामपि । तथा हि— न तावदृषिः कश्चित्स्मर्यते कल्पसूत्रकृत् । कर्तृत्वं यदृषीणां तु तत्सर्वं मन्त्रकृत्समम् ॥ ५२१ यथा शैशवं भवति, शिशुर्वा अङ्गि॒रसो मन्त्रकृतां मन्त्रकृदासीदित्यत्र मन्त्रकृच्छब्दः प्रयोक्तरि प्रयुक्तः । एवं तस्य तस्य कल्पस्य, सूत्रस्य वा प्रयोक्तार- स्तत्कारित्वेन व्यपदेक्ष्यन्ते । ब्रह्मयज्ञविधाने च ‘एवं विद्वान् स्वाध्यायमधीयीत’ इत्युक्त्वा तत्प्रपञ्चे ‘यदृचोऽधीते, यद्यजूंषि, यत्सामानि, यद् ब्राह्मणानि १. क. त्यकृत्रिमास्थापिता ।
४५६ मीमांसादर्शनम् [ सू० यदितिहासपुराणानि, यत्कल्पान्' इति तज्जप्यमानत्वेन विधानादार्षत्वमेव विज्ञायते । पुरुषकृतानां जपनिमित्तधर्महेतुत्वेन नित्यविधिविषयत्वासम्भवात् । अरुणपराशरशाखाब्राह्मणस्य च कल्परूपत्वात्सर्वयाज्ञिकैश्च स्वशाखाधीतव्यति- रिक्तकल्पसूत्रकारोपन्यस्तपक्षतुल्यबलत्वाध्यवसानात्कल्पजमन्त्राणां चेतरसमाम्ना- याधीतवत्क्रतुविनियोगाश्रयणात् तुल्यत्वम् । आर्षेयवचनं नित्यपर्यायत्वेन गम्यते । आर्षेयत्वप्रसिद्धिश्च कल्पसूत्रेष्ववस्थिता ॥ ५२२ उक्तेऽर्थे सूत्रकारवचनम् लाटद्राह्मायणसूत्रकाराभ्यामपि च दृढकल्पप्रामाण्यापेक्षयेदं माशकमपेक्ष्य 'तत्प्रत्यक्षविहितं चाऽऽर्षंकल्पेन तत्रानुमानं न विद्यते' इति ब्राह्मणविहितादप्यार्ष- कल्पविहितगरीयस्त्वमङ्गीकृत्योक्तम् । उक्तार्थदार्थ्याय कात्यायनवचनोपन्यासः कात्यायनेन च कृतासामविशेषलक्षणसूत्रप्रणयनप्रक्रमेऽभिहितं यज्ञविषय- ब्राह्मणगतस्तोत्रविधिवाक्यशेषे यथा 'माशकमुपलक्षणं तत्प्रामाण्यात्करिष्यते, न तन्निरपेक्षशुद्धब्राह्मणप्रामाण्यादि'ति । तथा च प्रायणीयाग्निष्टोमसाम्नि यज्ञायज्ञीयेन सह वैकल्पिकं जराबोधीयमग्निष्टोमसाम कार्यमिति पञ्चविंश- ब्राह्मणेऽभिहितमपि, माशकानुवृत्त्या कात्यायनेनाऽऽर्भवोयगायत्रतृतीयत्वेन जरासादिति लक्षितम्। आर्भवगीयगायत्रीगतगायत्रानन्तरसाम्नो हि तेन समिति संज्ञा कृता । तस्माच्च परत्वेन पदैकदेशप्रयोगेण जराबोधीयमुक्तं ठेशब्देन च ज्योतिष्टोमकाग्निष्टोमसामसंज्ञाभूतेन यज्ञायज्ञीयमेवाग्निष्टोमसामत्वेन नियतम् । यदि च कल्पाद् ब्राह्मणमतिरिक्तं कात्यायनोऽमंस्यत, ततः प्रत्यक्षब्राह्मणदृष्टं विकल्पमेवावक्ष्यत् । बहुवेदगतन्यायविवेकज्ञो यदब्रवीत् । कात्यायनो न तद्वाच्यमन्याय्यमिति मादृशैः ॥ ५२३ आचार्यवचनानां च प्रामाण्यं श्रूयते श्रुतौ । अङ्गानां च प्रणेतार आचार्या ऋषयो मताः ॥ ५२४ यथा च सर्वशाखानां संवादात्तुल्यकल्पता । तथैव कल्पसूत्राणामिति प्रामाण्यतुल्यता ॥ ५२५ यान्यप्यप्रत्ययितपुरुषवचनानि प्रमाणान्तरसङ्गतार्थानि भवन्ति, तान्यपि सत्यत्वेनावधार्यन्ते, किमङ्ग पुनः सत्यवाचां वचनानि ? सत्यवाचां च वाक्यानि वैदिकैः सङ्गतानि च । ज्ञातसत्यानि तान्येवं कोऽन्यथा कल्पयिष्यति ॥ ५२६
११ ] प्रथमाध्याये तृतीयपादः ४५७ अपि च—वेदादृतेऽपि कुर्वन्ति कल्पैः कर्माणि याज्ञिकाः । न तु कल्पैर्विना केचिन्मन्त्रब्राह्मणमात्रकात् ॥ ५२७ तुल्यं च साम्प्रदायिकम्, स्वाध्यायाध्ययनविधिवचनं प्राग्दर्शितम् कल्पग्रहणात् । अथ वा संप्रदातॄणामध्येतॄणां च यादृशः । मन्त्रब्राह्मणयोर्यत्नः कल्पसूत्रेषु तादृशः ॥ ५२८ १अनुयोगेषु वेदानां घटिकामार्गवृत्तिषु । न कल्पसूत्रहीनानां लभ्यते कृत्स्नवेदता ॥ ५२९ तस्मात्कर्मप्रयोगाणां शास्त्रमेतदतिस्फुटम् । वेदो वा वेदतुल्यं वा कल्पसूत्राद्यसंशयम् ॥ ५३० एतेन धर्मशास्त्राणामङ्गानां चापि वेदता२ । तत्तुल्यताऽपि वा वाच्या सर्वेषां सर्वहेतुभिः ॥ ५३१ धर्मशास्त्रपदं येषु सर्वकालं प्रयुज्यते । प्रयोगशास्त्रतां तेषां वेदज्ञः को हरिष्यति ॥ ५३२ अपि चाङ्गानि वेदाश्च धर्मशास्त्रं च तुल्यवत् । विद्यास्थानानि गण्यन्ते सर्वदा वेदवादिभिः ॥ ५३३ किं च—कर्मणां ब्राह्मणोक्तानां यथा मन्त्राः प्रकाशकाः । अष्टकापार्वणादीनां दृश्यन्ते ते तथैव हि ॥ ५३४ तथाऽवकीर्णियागादि कृच्छ्रचान्द्रायणादि वा । वेदमन्त्रप्रकाश्यं तत्स्यात् कथमवैदिकम् ॥ ५३५ सिद्धवद्विशिखत्वादि यच्च मन्त्रैरनूद्यते । चौलोपनयनप्राप्तं तत्स्यात्कथमवैदिकम् ॥ ५३६ एवं च वेदमूलत्वं किमेषामनुमीयते । संभवत्येव वेदत्वे नित्यत्वे चापि तत्समे ॥ ५३७ वेदं हि कल्पयित्वेभ्यः पुनस्तस्यापि नित्यता । वक्तव्यैव वरं तेन सा तेष्वेवावधारिता ॥ ५३८ १. वेदकौशलजिज्ञासार्थं तत्तद्वेदभागचिह्नलेख्यनि घटिकायां कुम्भाख्यायां निक्षिप्य तत्तद्वेदभागपरीक्षाकाले ताभ्याकृष्य आकृष्टलेख्यचिह्नितं पठन्त्यध्येतारो न पुञ्जत इति घटिकामार्गवर्तिनोऽनुयोगाः इति । २. (क) देवता ( अयं प्रामादिकः पाठः )
४५८ मीमांसादर्शनम् [ ० सू सिद्धानां नित्यतैवैका सुबोधा वेदताऽपि वा । असंशयितवेदार्थविषयत्वात्प्रकल्प्यते ॥ ५३९ तस्माद्वर्षसहस्रेऽपि यस्य न ज्ञायतेऽवधिः । न तत्कृतकतां लब्ध्वा लभते नित्यमूलताम् ॥ ५४० यान्येव धर्मशास्त्राणां मूलवाक्यानि मन्यसे । तान्येवैतानि पठ्यन्त इत्येतत्कल्पितं वरम् ॥ ५४१ मन्वादिभिरवश्यं च स्वग्रन्थप्रतिपादने । तान्युपन्यसनीयानि शिष्याणां वेदवादिनाम् ॥ ५४२ तेन तान्येव तैरेभ्यः संप्रत्तानीति गम्यते । के हि तेषूपलब्धेषु गृह्णीयुः प्रतिकञ्चुकान् ॥ ५४३ यथा च धर्मशास्त्राणां नाद्यत्वे प्रतिकञ्चुकाः । ग्राह्यास्तथा पुराऽप्यासन्न वेदप्रतिकञ्चुकाः ॥ ५४४ सम्प्रदायविनाशाच्चेद्गीतेस्तदसमर्पणम् । मन्वादिष्वनुमीयेत स्वग्रन्थाकरणं तथा ॥ ५४५ वेदवाक्यार्पणं येषां खण्डशो नाभिसंमतम् । स्वग्रन्थकरणं तेषां वेदस्थाने कथं भवेत् ॥ ५४६ वेदादेव च विज्ञातो वेदार्थः साधयेत्फलम् । नान्यस्मात्पुरुषग्रन्थान्मन्त्राभासात्स्मृतो यथा ॥ ५४७ कृता मन्वादिभिर्यद्वन्न मन्त्रप्रतिकञ्चुकाः । न ह्येतेन स्मृतं कर्म सिध्यतीत्यवधारणात् ॥ ५४८ तथैव तैर्न कर्तव्या ब्राह्मणप्रतिकञ्चुकाः । नावेदविहितं कर्म फलतीति हि निश्चितम् ॥ ५४९ न चैभिर्भिन्नदेशस्थवेदवाक्यसमुच्चयः । कृत इत्यवगन्तव्यमीदृक् ग्रन्थावधारणात् ॥ ५५० ईदृगेवं क्रमश्चायं वेदग्रन्थ इतीदृशी । युज्यते हि मतिः कर्तुं न मूलान्तरकल्पना ॥ ५५१ तेन प्रयोगशास्त्रत्वं तदैवाऽऽपतितं बलात् । धर्मं प्रत्यप्रमाणत्वं यदैवैषां न संमतम् ॥ ५५२ चोदनालणे धर्मे पूर्वमेवावधारिते । अवेदस्य प्रमाणत्वं ब्राह्मणस्यापि नेष्यते ॥ ५५३ तेनैषां धर्मशास्त्राणां न वा धर्मोपयोगिता । वेदता वाऽभ्युपेतव्या गतिर्नास्त्यान्तरालिकी ॥ ५५४
११ ] प्रथमाध्याये तृतीयपादः ४५९ वदन्ति धर्ममेतानि चोदना गमयन्ति च । अशक्यमीदृशं वक्तुं यावदुक्तप्रमाणकैः ॥ ५५५ उक्तमर्थं परित्यज्य यदनुक्तं प्रतीयते । अनुक्तेन च सोऽप्यर्थ इति किं नोपपद्यते ॥ ५५६ तस्माद्धर्मप्रयोगस्य साक्षादुक्तस्य तत्स्वयम् । प्रमाणं धर्मशास्त्रं स्यान्न वेदव्यवधानवत् १ ॥ ५५७ शाक्यादिनिर्मिते धर्मशास्त्राभासे निराकृते । शाक्यग्रन्थानां वेदवत्स्वातन्त्र्येण प्रमाण्यमितिपक्षः धर्मप्रयोगशास्त्रत्वं तस्य वेदमिहोच्यते ॥ ५५९ येनैवाकृतकत्वं हि वेदस्य प्रतिपाद्यते । न्यायेन तेन शाक्यादिग्रन्थस्यापि भविष्यति ॥ ५५९ बोधकत्वात्प्रमाणत्वं स्वतस्तस्यापि लभ्यते । न च संदिह्यते बुद्धिर्न विपर्य्यते क्वचित् ॥ ५६० अकर्तृकतया नापि कर्तृदोषेण दुष्यति । वेदवद् बुद्धवाक्यादिकर्तृस्मरणवर्जनात् ॥ ५६१ बुद्धवाक्यसमाख्याऽपि प्रवक्तृत्वनिबन्धना । तद्द्रष्टृत्वनिमित्ता वा काठकाङ्गिरसादिवत् ॥ ५६२ यावदेवोदितं किंचिद्वेदप्रामाण्यसिद्धये । तत्सर्वं बुद्धवाक्यानामतिदेशेन गम्यते ॥ ५६३ तेन प्रयोगशास्त्रत्वं यथा वेदस्य संमतम् । तथैव बुद्धशस्त्रादेर्वक्तुं मीमांसकोऽर्हति ॥ इति ॥ ११ ॥ ५६४ न्या० सु०—अनुमानादित्यादिभाष्यात्स्मृत्याचाराणां किं व्यवस्थया प्रामाण्यम- व्यवस्थाया वेति चिन्ता प्रतिभाति । तत्र प्रमाणस्य तावदालोकवत्सर्वपुरुषसाधारण्यान्न व्यवस्थाशङ्कोपपत्तिमती । अथ स्मृत्याचारमूलभूता श्रुतिः किं व्यवस्थितविषया सर्वविषया वेत्यभिप्रायः । तथाऽप्यष्टकादिस्मृतीनां प्रदीपाद्याचाराणां च व्यवस्थितविषयमूलाथशङ्का निर्बीजैव मूलविशेषविषयचिन्तात्वाच्च स्मृत्यधिकरणानन्तरं सङ्गच्छेत । तस्माद्द्होलाका- दयः प्राच्यैरेवेत्यादिभाष्यात्त्वधिकारिव्यवस्था सदसद्भावाचिन्ता । सा च प्रमाणेन लक्षणे- न सङ्गतेत्याशङ्कयाह—देशधर्मानिति । १. व्यवधानतः पु० पाठः ।
सूत्रं योजितं भवति ।
४६० मीमांसादर्शनम् [ सू० व्यवस्थिताव्यवस्थितमूलचिन्तैवेयमधिकारव्यवस्था सदसद्भावप्रयोजनेत्याशयः । सा च देशाचारमात्रविषया, न सर्वस्मृत्याचारविषयेति देशधर्मानित्यत्वेनोक्तम् । पूर्वाधिकरणे च स्वातन्त्र्यनिराकरणेन वेदमूलत्वे दृढीकृते तद्विशेषविचार इति सम्प्रतिशब्देनोक्तम् । तत्र किं कल्पकानामाचाराणां व्यवस्थादर्शनात्तदनुसारेण व्यवस्थितविषयमेव मूलं कल्प्यम्, व्यवस्थितमूलासम्भवाद्वा तदनुसारेणाचाराणां सर्वधर्मता कल्प्येति । कल्प्यकल्पकविप्रतिपत्तेः सन्देहकारणत्वं दर्शयितुमप्रतियोगिभूतवचनव्यक्तिद्वयोपन्यासः । नन्वनुष्ठेयानामेव भाष्यकृतोदाहृतत्वात्कथमविशेषेण देशधर्माणामुदाहरणत्वमुक्तमित्या- शङ्क्योपलक्षणार्थं भाष्यमित्याह-विध्यर्थेति । विषयवचनोऽर्थशब्दः । विधिनिषेधयोरा- चारकल्पकत्वात्के विधिविषयभूताः, के वा निषेधविषयभूता इति कथं ज्ञेयमित्यपेक्षायां क्रियेत्युक्तम् । करणं विधिविषयचिह्नं वर्जनं निषेधविषयचिह्नमित्यर्थः । एतदेव प्रपञ्च- यति-प्राच्या इति । नन्वाचाराणामेवोदाहरणत्वे स्मृतेराचाराणां चेति भाष्ये स्मृतिग्रहणमनर्थकं स्यादित्या- शङ्क्याह-आद्येति । सूत्रान्तराणां देशाचारमात्रविषयत्वात्सर्वसूत्रव्यापिविचारविषय- प्रदर्शनार्थं देशधर्मानित्युक्तमित्याशयः । सूत्रशब्दो धर्मशास्त्रविषयः । सर्वेषां गृह्याणां गौतमादिप्रणीतानां च धर्मशास्त्राणां किं व्यवस्था, उत सर्वगामित्वेत्यर्थः । एतदपि प्रपञ्चयति-पुराणेति । प्रामाण्यस्यानुष्ठातॄनननुष्ठातॄंश्च प्रति साधारण्याद्ग्राह्यत्वाभिप्रायः प्रमाणशब्दः । किं यानि यैः पठ्यन्ते तानि तैरेव ग्राह्याणि, उत सर्वाणि सर्वैरित्यर्थः । इह च नानागृह्यविहितानामपि स्थालीपाकादीनां शाखान्तरन्यायेनाभेदात्तदङ्गानामपि व्यवस्थानुपपत्तेः पूर्वपक्षेऽपि सर्वधर्मत्वावधारणाद्यदेव किञ्चित्पुरुषधर्मत्वेन गृह्यादौ क्व- चिदेव विहितम्, तदेव पूर्वपक्षे व्यवस्थयानुष्ठेयम् । यथा कपालं भगलमिति ब्रूयादिति गौतमीये पूर्वपक्षच्छन्दागतं वाऽनुष्ठेयं सिद्धान्तच्छन्दागतं वा । उपनयनोपाकरणादीनां वेदाध्ययनाङ्गतत्तच्छाखाध्ययनानुग्राहकोपकारभेदसिद्धयर्थतिकर्त्तव्यताभेदापेक्षोपपत्तेः । 'बह्वल्पं वा स्वगृह्योक्तं यस्य कर्म प्रकीर्त्तितम् । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् ।।' इत्यादिवचनानां चात्यन्तानर्थक्यापत्तेः । सिद्धान्तेऽपि सर्वधर्मत्वान्नोदाहरणत्वमनुमा- नादित्यादिपूर्वपक्षसूत्रव्याख्यानार्थं भाष्यं व्यवस्थितविषयमूलप्रतिपादनपरत्वेन व्याचष्टे- किं तावदिति । किं व्यवस्थितमूला इति सन्देहावसरे पूर्वपक्षवचनव्यक्त्युपन्यासात्स्मृत्या- चारमूलानां व्यवस्थितविषयत्वेन व्यवस्था पूर्वपक्षार्थः । पाठग्रहणेनाचारोऽप्युपलक्षितः । पाठादाचाराद्वा व्यवस्थिताद्व्यवस्थितविषयैव श्रुतिः कल्प्येतेत्यर्थः । अनेन चानुमापकस्य कल्पकस्य पाठस्याचारस्य वा व्यावस्थानाद्व्यवस्थितविषयोपपदसंयुक्तं मूलप्रमाणं स्यादिति सूत्रं योजितं भवति । ननु मूलश्रुत्यनुमानेन स्मृत्याचारप्रामाण्यात्तेनैव श्रुत्यनुमानेन हेतुना स्मृत्याचाराः प्रमाणं तेनैव व्यवस्थितविषयश्रुत्यनुमानेन हेतुना व्यवस्थितविषयमेव स्मृत्याचार-
११ ] प्रथमाध्याये तृतीयपादः ४६१ प्रामाण्यमिति वदता भाष्यकृता व्यवस्थितविषयमूलत्वस्यैव स्मृत्याचारप्रामाण्य- व्यवस्थायां हेतुत्वाभिधानाद्विपरीतहेतुमद्भावाभिधानं भाष्यविरुद्धं स्यादित्याशङ्कयाह— अनुमीयतेऽनेनेति । मूलव्यवस्थायाः कल्पकत्वेन हेतुत्वायोगात्प्रामाण्यस्य च सर्वपुरुष- साधारण्य़ाद् व्यवस्थानुपपत्तेर्नैदं व्यवस्थितमूलत्वेन स्मृत्याचाराणां धर्मिधम प्रति व्यवस्थितप्रामाण्यप्रतिपादनपरं भाष्यं किं तु व्यवस्थितत्वाद् व्यवस्थितविषयामेव श्रुतिं प्रति प्रामाण्याप्रतिपादनपरमिति भावः । तेनैवं भाष्यं योज्यम् । अनुमापकत्वेन स्मृत्याचाराणां मूलं प्रति प्रामाण्याच्चैनेवान्यथानुपपत्तिलक्षणेन हेतुना तेषां मूलश्रुतिं प्रति प्रामाण्यम्, तेनैव व्यवस्थितत्वात्तादृशीमेव प्रति प्रामाण्यमिति । कल्पकाभिप्रायो वार्त्तिके लिङ्गशब्दः । व्यवस्थितस्य स्मृत्याचाररूपस्य कल्पकस्य व्यवस्थितविषयश्रुतिकल्पकत्वौचित्यमुक्त्वा दृष्टान्तद्वारेण प्रकृते योजयति—तच्चेति । श्लोकं व्याचष्टे—ग्रन्थेति । न चाहष्टधूमैरिति दृष्टान्ततयोक्तम् । यथा नादृष्टस्य लिङ्गत्वम् । एवमपक्षधर्मस्यापीत्यर्थः । ननु लिङ्गस्य पक्षधर्मत्वेन गमकत्वाद् व्यवस्थितलिङ्गानुमापकत्वं युक्तम् । स्मृत्याचाराणां त्वनुपपत्त्या कल्पकत्वात्तस्याश्च तद्विषयश्रुतिकल्पनमात्रेण परिहारान्नियतकर्तृकल्पना निष्प्रमाणिकेत्या- शङ्कयाह—यथेति । यथाग्निहोत्रादीनां नियतकर्तृकाधानोपनयनमन्त्रानि विद्यासाधन- कत्वान्यथानुपपत्त्या नियतविषयत्वं कल्पितम् । तथात्रापि नियतकर्तृविषयश्रुतिकल्पनं विना नियतकर्तृत्वानुपपत्तेर्नियतकर्तृविषयैव श्रुतिः कल्प्येत्याशयः । दृष्टं च केषांचित्स्मृत्या- चाराणां नियतकर्तृविषयश्रुतिकल्पकत्वमिति प्रतिपादनार्थं यथेति भाष्यं व्याचष्टे— यथा चेति । जातयो ब्राह्मणाद्याः तद्भेदा गोत्रचरणानि । तदवान्तरभेदाः कुलानि । ननु तत्र जात्यादिवाचकोपपदसम्भवाद् व्यवस्था युक्ता, होलाकाद्यनुष्ठातृवाचकोपपदासम्भवान्नेह व्यवस्थायुक्तेत्याशङ्कयाह—यदि स्यादिति । अत्राप्यनुपपत्त्या किंचिदुपपदं कल्प्यमिति भावः । एवं व्यवस्थितविषयोपपदरहितश्रुतिकल्पनमात्रेणानुपपत्तेरपरिहारादुपपदमपि कल्प्य- मित्य़ुक्तम् । इदानीं सर्वविषयश्रुतिकल्पने प्रमाणमेव नास्तीत्याह—अन्यथेति । श्लोकं व्याचष्टे—यस्मादिति । व्यवस्थितविषयस्य नियतश्रुतिकल्पकत्वं दृष्टान्तेनोपपादयति— तथा चेति । अनुमानशब्दस्य स्मृत्याचारविषयत्वम् प्रमाणशब्दस्य च श्रुतिविषयत्वं दर्शयन्पूर्वपक्षम़ुपसंहरति—अनुमानेति । अपि वा सर्वधर्मः स्यात्तन्न्यायत्वाद्विधानस्येति सिद्धान्तसूत्रं व्याचष्टे—अपि चेति । तस्य सर्वधर्मत्वस्योपपादको न्यायो विधेः सर्वविषयत्वं यस्मिन्कल्पे विधाने विधायके वाक्येऽस्ति । तत्तन्न्यायं तस्य भावस्तन्न्यायत्वम् । कथं कल्पके विधायके वाक्ये सर्वविषय- विधित्वन्याय इत्यपेक्षायाम्—शक्तेत्युक्तम् । यस्माच्छक्तमात्रं पुरुषं विधायकवाक्यमधि- करोति, नातिरिक्तं विशेषणमपेक्षते । तस्मात्तस्य सर्वविषयविधित्वं न्याय्यमित्यर्थः । ननु कर्तृविषयज्ञानं विना नैराकाङ्क्ष्याभावात्कथं विधेः प्रवृत्तिरित्याशङ्क्य साध्य- साधनेतिकर्त्तव्यताविशिष्टभावनाविधानमात्रेण भावनाक्षेपादेव तन्निष्पादनसमर्थकर्त्रवगम-
४६२ मीमांसादर्शनम् [ सू० सिद्धेर्नैराकाङ्क्ष्यं वक्तुं यावता विना नैराकाङ्क्ष्यं न भवति तावद्दर्शयति-इहेति । भावना च नाम विशेषणव्यवच्छिन्नो यागादिधात्वर्थविशेषश्च स्वर्गादिफलं च द्रव्यदेवतादि- कारकं च यावद्दृष्टेतिकर्त्तव्यता च । तद्विधायको विधिश्च श्रुतिष्वनुमीयमानास्वनुमीयत इत्यन्वयः। अवश्यमित्येतावतामनुमाने कारणत्वमुक्तम् । तदेव कुत इत्यपेक्षायाम्- कारणानुविधायीत्युक्तम् । कारणात्तथाविधत्वं विना कार्यंतथाविधत्वानुपपत्तिः । कार्यानु- रूपकारणानुमाने हेतुरित्यर्थः । निषेधे कियता नैराकाङ्क्ष्यमित्यपेक्षायामाह-एवमिति । नन्वेतावत्यनुमितेऽपि निरधिकारयोर्विधिनिषेधयोरप्रवृत्तेरधिकारिविशेषोपादानं विना नैराकाङ्क्ष्यं न सम्भवतीत्याशङ्क्याह-तावता चेति । अशक्यविधानानुपपत्तेरसामर्थ्य- व्यावृत्त्यवगमाच्छक्तमात्रस्य कर्तृत्ववधारणात्कर्तृत्वस्य चाधिकारं विनानुपपत्तेः । कर्तृ- विशेषेणैवाधिकारिविशेषावधारणसिद्धेनं होलादौ दिग्देशपरिच्छिन्नस्यैव कर्तृविशेषस्या- धिकार इति नियता प्रतिपत्तिर्लभ्यत इत्यर्थः । ननु शक्तस्यापि विधिमन्त्रेणाप्रवृत्तेस्तस्य चात्राचारकल्पकत्वात्तदानुरूप्येण दिग्देश- परिच्छिन्नकर्तृविशेषविषयत्वप्रतीतेः कथं तन्निराकरणमित्यभिप्रायेण पृच्छति-कुत इति । उत्तरमाह-त्रिधैवेति । स्वर्गकामो यजेतेत्यविशेषश्रवणेऽप्यग्निविद्यारहितत्वेनायोग्यस्य शूद्रादेः कर्तृत्वासम्भवाद्योग्यत्वेन त्रैवर्णिकः कर्ता विशेषरूपेण ज्ञायते 'पतितषण्ढयोर्द्वि- जातिकर्मभ्यो हानिर्'ति निषेधात्तद्वर्जितो प्रतिषिद्धत्वेन ज्ञायते । 'राजा राजसूयेन यजेतेति विशेषापादकत्वे येन क्षत्रियः कर्त्ता विशेषरूपेण ज्ञायते । न त्विहैषां मध्ये किं- चिद्दिग्देशपरिच्छिन्नकर्तृविशेषज्ञानकारणमस्तीत्याशयः । यत्र योग्यत्वस्य तावदविशिष्टत्वान्न दिग्देशपरिच्छिन्नकर्तृविशेषज्ञानकारणतास्तीत्याह-तद्विहेति । श्रावयेच्चतुरो वर्णानित्यादि- श्रुतिपर्यालोचनया शूद्राणामपि वैदिकमन्त्ररहितेषु स्मृत्याचारप्राप्तेषु कर्मस्वधिकारोऽस्तीति, समस्तशब्देनोक्तम् । सर्वधर्मबहिष्कृतत्वस्मृत्या म्लेच्छानां धर्मानधिकारावगादायंवर्त्त- निवासिग्रहणम् । निषेधाधिकारे त्वविशेषात्सर्वाधिकारोपपत्तेराचारकल्प्यत्वाद्द्विधेयस्या चारस्य यावद्भिर्वर्णैराश्रमभिर्म्लेंच्छादिभिर्वानुष्ठानं दृश्यते, तावतां तस्मिन्नाचारेऽधिकार इति प्रतिपादनायानवक्लृप्तिरुक्ता । अप्रतिषिद्धत्वस्य कर्तृविशेषज्ञानकारणत्वं पूर्वोपन्यस्तमप्युपपदनिराकरणाधीननिराकर- णत्वादुपेक्ष्योपपदं तावन्निराकरोति-न त्वत्रेति । यथा चात्र यः कर्तृविशेषः कल्पः, तद्वाचकत्वेन तदनुसारि यदुपपदमनुमीयते, तन्न सम्भवतीत्यर्थं । प्राच्याद्युपपदशङ्का- निराकरणार्थम्-देशश्रेत्युक्तम् । गृह्यादौ त्वाचारशब्दपाठोपलक्षणार्थमङ्गीकृत्य नात्र गृह्य- गौतमीयादौ यथापाठम्, छन्दोगादिकर्तृविशेषानुसाय्युंपपदं किंचिदुपात्तं यत् तन्मूलभूतायां श्रुतावनुमीयेतेति योज्यम् । प्रतिषेध्यवाच्युपपदासम्भवेनाप्रतिषिद्धत्वमपि कर्तृविशेषज्ञान- कारणं नेह सम्भवतीत्याह-येऽपि चेति । आचारानुरूपकर्तृविशेषवाच्युपपदासम्भवं न तस्याकृतिवचनतेति भाष्योक्तेन मार्गेणो- पपादयितुमुपक्रमते-योग्यत्वेनेति । प्रश्नपूर्वकमुपपादयति-कुत इति । श्लोकं
११ ] प्रथमाध्याये तृतीयपादः ४६३ व्याख्यातुमाकृतिवाच्युपपदासम्भवं तावत्प्रपञ्चयति—न तावदिति । व्यक्तिवाच्युपपदा- सम्भवं प्रपञ्चयति—व्यक्तिवाचि त्विति । एतदेवोपपादयति—न हीति । नन्वनन्तभेदा- नामपि पुरुषव्यक्तीनां शुक्लो होतेतिवदेकेन केनचिद् गुणेनैष्टव्यो विविक्ते इतिवद्वा कया- चिदेकया क्रिययोपलक्षितानामेकमभिधानमवकल्पिष्यत इत्याशङ्क्याह—एतेनेति । आचा- रानुरूपविशेषणानुपपत्तिरेतच्छब्देन परामृष्टा । गुणस्य क्रियाया वा विशेषरूपेणानेक- पुरुषव्यक्त्युपलक्षणशक्त्यसम्भवाज्जातिग्रहणम् । एतदेवोपपादयति-न हीति । ननु व्यक्त्या- कृतिवाच्युपपदासम्भवेऽप्यर्थान्तरवाचि किञ्चिद्भविष्यतीत्याशङ्क्याह-व्यक्तीति । उक्तेऽर्थे न तस्याकृतिवचनतेति भाष्यं योजयति — एतदेवेति । विधानपरामर्शिनस्तच्छब्दात्परा षष्ठी विधानविशेषणार्थोपपदव्यतिरेकजनितेत्याशयः। विधानविशेषणार्थस्योपपदस्य व्यक्त्याकृतिवचनत्वासम्भवेनोपपादनार्थं—न चेति भाष्यम् । हि शब्दार्थे च शब्दमङ्गीकृत्य व्याचष्टे—न हीति । व्यक्तिवाचित्वनिराकरणेऽनु- ष्ठातृविशेषाणां यदेकं सामान्यं साधारणमुपलक्षणं न तन्निमित्तानुष्ठातृविशेषाणां वाच- कोऽस्तीति तस्योपलक्षणार्थत्वेन सर्वेषां शब्द इति शब्दव्यतिरेकजनितषष्ठ्यङ्गीकरणेन योज्यम् । नञ्वर्जितपाठान्तरमाकृतिवाच्युपपदासम्भवादयुक्तमाशङ्क्योपन्यासपूर्वकं व्याचष्टे-केषाञ्चि- त्विति । स्वर्गकामो यजेतेत्याख्यातोपात्तभावनावक्षिप्तकर्तृविशेषणोपादेयार्थे स्वर्गकामपदे पुंल्लिङ्गनिर्देशात्स्त्रिया नाधिकार इति पूर्वपक्षं कृत्वा, कर्तृविशेषणत्वेनाप्यन्वितस्य स्वर्ग- कामस्य विध्यन्यथानुपपत्त्या प्राधान्यावगतेरुद्देश्यत्वाद्विशेषणाविवक्षेति षष्ठे सिद्धान्तयितुम्, यथा विशेषणाविवक्षाभिप्रायेण जातिशब्दः प्रयुक्त इति । नैव वयं ब्रूमो जातिवचन इह शब्दोऽधिकारक इति । किं तर्हि । स्वर्गकामशब्देनोभावपि स्त्रीपुंसावधिक्रियेते इत्यविवक्षितं पुंल्लिङ्गमिति भाष्ये वक्ष्यते । तथात्रापि विशेषणाविवक्षाभिप्रायेणाकृतिशब्दः प्रयुक्त इत्यर्थः । अस्मिंश्च पाठे ननु दिग्देशपरिच्छिन्नकर्तृविशेषमात्रवर्त्त्यवान्तरजातिवाच्ये च तर्ह्युपपदं कल्पयिष्यत इत्याशङ्कानिराकरणार्थत्वेन न चेति भाष्यं स्वार्थंचशब्दकं योज्यम् । पूर्वस्मिन्नेव पाठे वैयाकरणगन्धिनो मीमांसकस्य व्याख्यानं दूषयितुमुपन्यस्यति— कश्चित्पुनरिति । शब्दान्तरानाख्येयार्थत्वेनाख्यातशब्दमनेन भाष्येणोपवर्णयन्नेवमाहेत्यन्वयः । किमाहेत्यपेक्षिते भावइति तदीयो ग्रन्थः पठितः । तस्यार्थो भावाख्यो यो लिङ्गाद्यर्थः । सोऽतो लिङ्गादिशब्दजनिताद्भानादन्येन शब्दान्तरजनितेन ज्ञानेनानाख्येयः । तृतीयान्त- मन्यदित्यव्ययम् । भावादिशब्दैराख्यातदर्शनाच्छब्दान्तरानाख्येयत्वानुपपत्तिमाराङ्क्य स्वधर्मेण पूर्वापरीभावेन कालत्रयासंसृष्टत्वेन लिङ्गसम्बन्धायोग्यत्वेन च शब्दान्तरेण— नाख्यायत इत्युक्तम् । यद्वा शब्दान्तरानाख्येयत्वकारणम् —स्वधर्मेणेत्यनेनोक्तम् । शब्दान्तरेण ह्याख्याय- मानोऽर्थः सामान्यरूपेण विशेषरूपेण व्याख्यायते । न च लिङ्गाद्यर्थस्य सामान्यरूपता,
४६४ मीमांसादर्शनम् [ सू० विशेषरूपता वा स्वधर्मः। तस्याप्यपदेश्यत्वेनानुवृत्तिव्यावृत्तिप्रत्ययगोचरत्वाभावादित्याशयः। यथा कारकं क्रियायां व्याप्रीयमाणत्वरूपेण स्वधर्मेण द्वितीयादिविभक्तितोऽन्येन शब्देन नाख्यायते, यथा भावोऽनाख्यातादन्येन शब्देन स्वधर्मेणाख्यायत इति दृष्टान्तार्थः। नन्वा- कृतिवचनत्वस्यात्र न्याय्यत्वाभिधानात्तस्याश्च सत्त्वरूपत्वेन शब्दान्तरैराख्यातुं शक्यत्वान्नेदं भाष्यं शब्दान्तराख्येयत्वनिराकरणसमर्थमित्याशङ्क्येममित्युक्तम्। ननु पूर्वपाठेऽप्युक्तेन प्रकारेणोपपदस्याव्यक्ताकृतिवाचित्व-निराकरणप्रतीतेराख्यातार्थोपवर्णन-सामर्थ्यमित्या - शङ्क्य-सूत्रेत्युक्तम्। सूत्रगतस्याख्यातावाचिनो विधानशब्दस्य यावच्छ्रु तस्य स्वसम्बन्ध्यु- पपदप्रतिपादनानपेक्षस्य व्याख्येयत्वेन प्रकृतत्वान्न तस्य विधायकस्याख्यातस्य कर्तृविशेष- व्यवस्थापकव्यक्ताकृतिवचनता न्याय्या। न चान्योऽपि कश्चिच्छब्द; सर्वेषामनुष्ठातॄणां व्यवस्थापकस्य सामान्यस्य वाचकोऽस्तीति भाष्यार्थभ्रान्तिर्जयित इत्यर्थः। सूत्रगतेन यावच्छ्रु- तेन विधानशब्देन जनिता भ्रान्तिर्यस्येति विग्रहः। नन्वेवमपि विधायकाख्यातार्थस्य विधेः शब्दान्तरानाख्येयत्वं वाच्यं न भावशब्दाभिधेयाया भावनाया इत्याशङ्क्य- विधीत्युक्तम्। ननु भावार्थाधिकरणे 'यज्याद्यर्थंश्चातोऽवगम्यते, भावयेदिति चेति' भाष्ये विध्यर्थाति- रिक्तभावनाब्युत्पादनादभेदाङ्गीकरणं न युक्तमित्याशङ्क्योभयेत्युक्तम्। क्रियारूपत्वे भावनाया धात्वर्थादभेदापत्तेः कार्यरूपता वाच्या। ततश्च कार्यरूपाद्विधेर्विलक्षणं कीदृशं तस्याः स्वरूपमिति निरूपणीयमित्येवंरूपात्पर्यनुयोगः तेन भावार्थाधिकरणसिद्धान्तो नाशित इत्यर्थः। नन्वेवं सति को लिङाद्यर्थ इति पृष्टे कीदृशमुत्तरं देयमित्याशङ्क्याह- तेनेति। आख्यातशब्दो लिङाद्यभिप्रायः। भावनाशब्दो विध्यभिप्रायः तं प्रति कुर्या- च्छब्द उत्तरं दास्यत इत्यन्वयः। यथा कः पिक इति पृष्टे कोकिल इत्युत्तरं दीयते। तथा को विधिरिति पृष्टे कुर्यादित्यत्तरं देयमित्यर्थः। ननु करोतेः क्रियासामान्यवाचि- त्वात् तदर्थस्य शब्दान्तराख्येयत्वं प्रसज्येतेत्यांशङ्क्य लिङादीत्युक्तम्। करोत्युच्चारणं तर्हि किमर्थमित्याशङ्क्य-केवलेत्युक्तम्। ननु धात्वन्तरेण प्रत्ययानुग्रहसिद्धेः करोतिनियमः किमर्थं इत्याशङ्क्य-सर्वेत्युक्तम्। सर्वविधिष्व्यासङ्गार्थः करोतिप्रयोग इत्याशयः। शब्दान्तरानाख्येयत्वे कोपपत्तिरित्यपेक्षायां भाष्योक्तामेवोपपत्तिमाह-सर्वश्चेति। अत्रैव भाष्यं योजयति-तदेव चेति। किलेत्यपारमार्थिकत्वं द्योतितम्। विधानेत्यादिना भाष्यस्य सामर्थ्यं दर्शितम्। व्यक्ताकृतिवचनत्वाभावमुपपादयति-कुर्यादिति। करोतीति कार्यतामात्रं प्रपद्यतेऽ- ङ्गीकरोति, न तु विधेः सामान्यरूपतां, व्यक्तिरूपतां वाऽवगच्छतीत्यर्थः। विध्यतिरिक्त- भावनावादिमते तस्या अपि विधायकाख्यातात्कार्यंतया च प्रतीतेः, सिद्धरूपत्वाभावेनानु- वृत्तिव्यावृत्तिप्रत्ययगोचरत्वासम्भवात्सामान्यविशेषरूपत्वप्रतीत्यसम्भवं दर्शयितुम्-भावनाया वेत्युक्तम्। दूषयति-तदिदमिति। तदिदमन्यार्थमेव सदन्यस्मिन्नेवार्थे योजितमित्यन्वयः। किमर्थमित्यपेक्षायाम् भाष्यकारेत्युक्तम्। अयमेवाभिप्रायः कस्माद्भाष्यकृतोऽभिप्रेतो न
११ ] प्रथमाध्याये तृतीयपादः ४६५ भवतीत्याशङ्क्य — असम्बद्धत्वानुपपत्तिकत्वाभ्यामित्युक्तम् । कथं तर्ह्यत्र योजितमित्य- पेक्षिते—श्रुतीत्युक्तम् । यथा ‘चत्वारि शृङ्गेति मन्त्रो विषुवति होतुर्राज्ये विनियोगादा- दित्यरूपेणाग्नेः स्तुत्यर्थोऽन्यत्रापि विनियोगादादित्यरूपेणाग्नेः स्तुत्यर्थोऽन्यत्रापि विनियोगा- द्यज्ञमात्रस्तुत्यर्थः । वैयाकरणैर्नामाख्यातोपसर्गनिपाताः शब्दा ब्रह्मणः चत्वारि शृङ्गेति । भूतमविष्य- द्वर्त्तमानकालवाचिनः प्रत्यया उदात्तानुदात्तस्वरिता वा स्वरास्त्रयः पादाः । वर्ण-नादा- त्मकौ शब्दौ । प्रकृति-प्रत्ययौ च द्वे शीर्षे । नामिक्यो विभक्तयः सप्त हस्ताः । उरः कण्ठशिराश्च नाभ्युरःकण्ठेषु वा त्रिधा बद्धः स्वर्गादिसाधनकर्मविधानद्वारेण वर्षणाद् वृषभः शब्दात्मकत्वाद्रोरवीति सर्वंगतत्वान्महत्सर्वव्यवहारसाधनत्वादेव मनुष्यैरुच्चार्यमाणत्वा- न्मर्त्यानाविवेशेति नियोगानपेक्षेण श्रुतिसामान्यमात्रेण शब्दप्रतिपादनरूपेऽर्थे योजित इति दृष्टान्तार्थः । कथं पूर्वोक्तस्यार्थस्य भाष्यकारानभिप्रेतत्वमित्याशङ्कयाह — देशेति । परव्याख्या- नस्यासम्बद्धत्वम्, निरुपपत्तिकत्वं च पूर्वोक्तमुपपादयितुं विवृणोति—यदि त्विति । न प्रकृतेन सूत्रव्याख्यानेन सम्बध्यते । नापि सर्वधर्मत्वोपपत्ति प्रत्युपयुज्यत इत्यसम्बद्धत्वाद् द्वेधा व्याख्यातम् । तत्रासम्बद्धत्वं तावदुपपादयति—तथा हीति । एतदेव विवृणोति—यदि नामेति । निरुपपत्तिकत्वं त्वन्यानाख्येयार्थत्वमुक्त्वा, स्वयमेव च लिङाद्यर्थस्य पर्यायान्तरैराख्या- नात्स्पष्टीकृतमित्याह—अनाख्येयत्वमिति । एतदेव विवृणोति — विधीति । विध्युपदेश- शब्दयोः पर्यायत्वेऽपि कर्त्तव्यताशब्दस्य विधिविषयत्वरूपाभिधायित्वाद्भावनाशब्दस्य च पुंव्यापाराभिधायित्वादत्यन्ताविद्यमानपर्यायत्वारोपाभिधानमतीव स्थापितमित्युपहासः । ननु नानेन ग्रन्थेन भावनाख्यस्य विध्याख्यातार्थस्य व्यक्त्याकृतिरूपेणानभिधानात्सर्वं- धर्मत्वं साध्यते, किं त्वनेन दृष्टान्तेन कर्तुराख्यातार्थत्वेन व्यक्त्याकृतिरूपेणानभिधानाद्व्य- क्त्याकृतिद्वारकर्तृव्यवस्थाशङ्कानिरासेन सर्वधर्मत्वसिद्धयर्थमन्यानाख्येयत्वोपपत्तिमिशेण व्यक्त्याकृतिवाचित्वदिनिराकरणं नासम्बद्धमित्याशङ्कयाह — यद्यपि तावदिति । व्यक्त्या- कृतिरूपेण कर्तुराख्यातवाच्यत्वेऽपि कृदन्तयजमानपदोपात्तकर्तृवदुपपदं विना व्यवस्था- नुपपत्तेः । कर्त्रधिकरणे चाख्यातवाचित्वनिराकरणात्कर्तृव्यक्त्याकृतिवाचित्वनिराकरण- मनुपयोगीति भावः । ननु माभूत कर्तृव्यक्त्याकृतिवाचित्वस्य व्यवस्थानापादकत्वान्निरासः किं तु स्वरूपमात्रा- भिधाने विशेषाभावेन सर्वधर्मत्वसिद्धयर्थमित्याशङ्कयाह—यदि चेति । ननु राजसूयादीना- मप्याख्यातवशात्सर्वधर्मत्वं प्राप्नोति च किन्तूपपदं विशेषणापोदितम् । इह त्वपवादा- भावात्तत्सिद्धिरित्याशङ्कते—अथेति । एवमप्यपवादनिरासं विना सर्वधर्मत्वासिद्धेराख्या- तार्थनिरूपणं व्यर्थमिति परिहरति—एवं तत्रापीति । अतोऽस्मदीयमेव पाठद्वये व्याख्यानं युक्तमित्युपसंहरति —तच्चेति । ३०
४६६ मीमांसादर्शनम् [ सू० उत्तरसूत्रसङ्गत्यर्थमपि उपपदनिरासार्थंतयैवायं ग्रन्थो व्याख्येय इत्याह—तद्यथा चेति । तन्न्यायत्वादिति सूत्रावयवव्याख्यानाथं तस्मादिति भाष्यम् । सर्वधर्मत्वस्यैव साध्य- त्वाद्धेतुत्वानुपपत्तेरयुक्तमाशङ्क्य सर्वधर्मत्वसाधकसर्वाधिकारन्यायत्वादित्येवं व्याचक्षाणः सर्वधर्मत्वप्रतिज्ञायां योजयति--तस्मादिति ॥ ११ ॥ मा० प्र०—कल्पसूत्र आदि स्वतः प्रमाण है या नहीं अर्थात् ये भी अपौरुषेय हैं, या नहीं ? यज्ञ की पद्धतियाँ यज्ञों के प्रयोग-कौशल बोधक कल्पित करने वाले शास्त्र कल्प कहे जाते हैं। संज्ञा और परिभाषा के द्वारा यज्ञों के प्रयोग के सूचक-सूत्र कहे जाते हैं,—कल्प और सूत्र कल्पसूत्र है । यह सत्य है कि श्रौतसूत्र, गृह्यसूत्र और धर्मसूत्र को कल्पसूत्र कहा जाता है, किन्तु, प्रकृत में श्रौतसूत्र के अर्थ में कल्पसूत्र कहा गया है। जिस ग्रन्थ में प्रत्यक्ष वेद विधि से बोधित यज्ञ आदि कर्मों की परिपाटी उपदिष्ट होती है—उसको श्रौतसूत्र कहा जाता है । जिसमें अप्रत्यक्ष वेदविधि बोधित अर्थात् वेदमन्त्र आदि के द्वारा अनुमित विधियों के द्वारा बोधित संस्कार आदि कर्मों के प्रयोगों का विवरण रहता है—उसको गृह्यसूत्र कहा जाता है, इससे भिन्न क्रियाप्रतिपादक शास्त्र धर्मसूत्र है। इसी विवरण के अनुसार श्रौतसूत्रों में कथित कर्मों को श्रौत कर्म और इनसे भिन्न कर्मों को स्मार्त्त कर्म कहा जाता है। कात्यायन, आश्वलायन, शट्चायन आदि कल्पसूत्र हैं, इनका वेद के समान ही स्वतन्त्र रूप में प्रमाण है, क्योंकि, वेद को देखे विना ही याज्ञिक केवल कल्पसूत्रों की सहायता से यज्ञादि कर्मों का सम्पादन करते हैं। किन्तु, कल्पसूत्रों को छोड़कर केवल मन्त्र एवं ब्राह्मण के द्वारा यज्ञकर्मों का सम्पादन नहीं किया जा सकता है। 'षडङ्गमेके' इस प्रसिद्धि के अनुसार कल्पसूत्र को वेद कहा जाता है। इसीलिए कल्पसूत्र प्रयोग शास्त्र मी वेद के समान अपौरुषेय एवं अपौरुषेय होने से स्वतन्त्ररूप में प्रमाण है । 'प्रयोगशास्त्रम्'—कल्पसूत्र आदि यज्ञप्रयोग शास्त्र स्वतन्त्र रूप में ही प्रमाण अर्थात् अपौरुषेय हैं, 'इति चेत्'—यदि यह कहा जाय । कतिपय व्यक्ति पूर्वपक्ष कर सकते हैं कि कल्पसूत्र आदि यज्ञप्रयोग शास्त्र अपौरुषेय हैं। यह पूर्वपक्ष है ॥ ११ ॥ नासन्नियमात् १ ॥ १२ ॥ सि० शा० भा०—नैतदेवम् । असन्नियमात् । नैतत्सम्यङ्निबन्धनम् । स्वराभा- वात् ॥ १२ ॥ सिद्धान्तः ॥ १. क. संनियमादिति ।
१२ ] प्रथमाध्याये तृतीयपादः ४६७ भा० वि०—तत्र वेदव्यतिरिक्तविद्यास्थानानामनपेक्षत्वेन वेदत्वं वेदवत् प्रामाण्यं वा न युक्तमिति नञर्थमाह—नैतदेवमिति । तत्र हेतुमवतार्य व्याचष्टे— असन्नियमादित्यादिना । संशब्दस्सम्यगर्थः नियमशब्दो निबन्धनार्थ इत्यर्थः । असम्यङ्निबन्धत्वे हेतुमाह—स्वराभावादिति । स्वराभाव उपलक्षणार्थः । अलौकिकानां चतुष्षष्टिप्रपाठकादिनियतस्वरविशेषवत्, पदानाम्, तदर्थविशेषाणाम्, प्रयोजनविशेषाणां च कल्पादिष्वभावादित्यर्थः । न च प्रयोगशास्त्रत्वेनापौरुषेयतया वेदत्वं वेदरूपाभावाच्च वेदविहितार्थानुवादित्वोपपत्तेश्च प्रयोगशास्त्रत्वासम्प्रतिपत्तेः इति भावः ॥ १२ ॥ त० वा०—एवं प्राप्ते वदामोऽत्र तत्रासन्नियमादिति¹ । असन्निबन्धनं ह्येतत्पूर्वोक्तं सर्वमीक्ष्यते ॥ ५६५ इहैका परमार्थेन बुद्धिरर्थेषु जायते । अन्या भ्रान्तिरजाताऽपि त्वन्या जाताऽपि दुष्यति ५६६ परेण सह केषांचिद्वाकोवाक्यानि जल्पताम् । उक्तयः प्रातिभासिक्यो जायन्ते परवाक्यतः ॥ ५६७ स्वसंवेद्यं च सिद्धान्तमात्मीयमपि जानताम् । छायां तथाऽपि रक्षन्तो जल्पन्ति प्रतिशब्दकैः ॥ ५६८ यथा मीमांसकत्रस्ताः शाक्यवैशेषिकादयः । नित्य एवाऽऽगमोऽस्माकमित्याहुः शून्यचेतनम् ॥ ५६९ प्रद्वेषाद्वेदपूर्वत्वमनिच्छन्त कथंचन । तन्मात्रेऽपि च भूयिष्ठामिच्छन्तः सत्यवादिताम् ॥ ५७० भूयसां वेदबाह्यत्वाद् बुद्धादिवचसाममी । अहिंसाद्यप्यतत्पूर्वमित्याहुस्तर्कमानिनः ॥ ५७१ ततश्च पौरुषेयत्वादप्रामाण्यमतीन्द्रिये । प्रागुक्तैर्वेदनित्यत्वं वागाभासैर्विमोह्यते ॥ ५७२ यादृशतादृशमीमांसकैरप्यतीन्द्रियविषयपुरुषवचनप्रामाण्यनिराकरणादपौरुषेय- त्वाध्यवसायनिराकृतकारणदोषशङ्कनिरपवादप्रामाण्यसिद्धि प्रतिहन्तुमशक्यां मन्यमाना निरुत्तरीभूता बालानुकरणवाक्यसदृशैः स्ववाक्यैर्व्यवलिख्यमानहृदयाः सन्तोऽपि प्रक्षीणकुहेतुवचनजालाः कन्यावरणार्थिगतमूर्खवरगोत्रप्रश्नोत्तरवत् । १. ब. न असन्नियमात् ।