मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 507, कुल 804 में से
संदर्भ में पढ़ें११ ] प्रथमाध्याये तृतीयपादः ४५३ विषयमाह—इहेति । कल्पसूत्रशब्दो विद्यास्थानमात्रपरः । अत्र१ च कल्पशब्द प्रयोगकल्पनात् कल्प इति बोधायनमशकादिप्रणीतग्रन्थविषयः । सूत्रशब्दस्तु प्रयोगसूचनात् सूत्रमिति व्युत्पत्त्या संज्ञापरिभाषादिभिः व्याख्यानापेक्षाश्वलाय- नादिग्रन्थविषयः । तत्रापौरुषेयत्वपौरुषेयत्वाभ्यां संशयमाह—किं प्रमाणमिति । किं वेदमूलत्वेन विना स्वयमेव वेदतया वेदतुल्यतया वा प्रमाणम् किं वा स्वातन्त्र्येण न प्रमाणम् ? किन्तु श्रुतिमूलतयेति विमर्शार्थः, विचारप्रयोजनं त्वधीतवेदविस्मरणप्रायश्चित्तवान् कल्पसूत्रादिविस्मरणेऽपि प्रायश्चित्त-प्राप्तिः, सूत्रं व्याकुर्वाणः पूर्वपक्षयति—प्रयोगस्येति । यस्मादेवं जातीयकं कल्पादिरूपं प्रयोगस्य धर्मानुष्ठानस्य शास्त्रं शासकम्, तस्मात् स्वयमेव प्रमाणमित्यर्थः । पौरुषेयवाक्य- स्यातीन्द्रियधर्मानुष्ठापकत्वाभावेन प्रयोगशास्त्रत्वादेवापौरुषेयत्वनिश्चयादिति भावः । कल्पादीनां स्वयं प्रमाणत्वे हेत्वन्तरमाह—सत्यवाचामिति । न गुणवद्वक्तृकत्वं सत्यवादिवचनत्वम्, किन्तु संवादिवचनत्वमभिप्रेतम् । एतदेव प्रश्नपूर्वकमुप- पादयति—कथमित्यादिना । कल्पादीनां वैदिकार्थविषयत्वेन वेदसंवादित्वमत आह—य एवेति । कल्पादीनां वेदेनैकार्थ्यं फलितमाह—तस्मादिति । आचार्याः मशकप्रभृतयः । ननु कल्पादीनाम् "अग्निमीले पुरोहितम्" इत्यादीनामिव रूपदर्शनमात्रेणा- पौरुषेयत्वानवगमात् कथं संवादित्वेन प्रामाण्यमत आह—आचार्यवचनमिति । आचार्यैः मशकादिभिः प्रोच्यमानमाचार्यवचनमित्युच्यते । एतदेव विवृणोति— प्रत्यक्षत इति । इतश्चानपेक्षमैतेषां प्रामाण्यमित्याह—वेदवाक्यैश्चेति । यादृशो हि मन्त्रब्राह्मणयोः अध्येतॄणामादरः अनध्यायपरिवर्जनादिरूपः, तादृश एव कल्पसूत्रेष्वित्यर्थः । उक्तहेतुसिद्धमनपेक्ष्य प्रामाण्यमुपसंहरति—तस्मादिति ॥११॥ षष्ठं कल्पसूत्राधिकरणं त० वा०—कल्पसूत्राण्युदाहृत्य संप्रत्येतद्विचायंते । किमेतेषां स्वतन्त्राणां प्रामाण्यं वेदवद्द्भवेत् ॥ ५०१ किं वा वेदत्वमेवैषां मन्त्रब्राह्मणवन्मतम् । वैदिकार्थप्रबन्धाद्धि नैतेषां स्मृतितुल्यता ॥ ५०२ कल्पसूत्रयोर्भेदवर्णनम् आह—के पुनः कल्पाः ? कानि सूत्राणीति ? उच्यते—सिद्धरूपः प्रयोगो यैः कर्मणामनुगम्यते ॥ ५०३ १. कल्पानां सूत्राणाञ्च भेदो वार्तिके प्रतिपादितः । यथा सिद्धरूपः प्रयोगो यैः कर्मणा- मनुगम्यते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते—इति । तदेवात्र व्याख्यात्रा निर्दिश्यते ।