मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 506, कुल 804 में से
संदर्भ में पढ़ें४५२ मीमांसादर्शनम् [ सू० प्रसिद्धि बलवान् है । म्लेच्छ का अर्थ अपभ्रंश, प्राकृत आदि भाषा का व्यवहार करने वाला व्यक्ति होता है । ‘चोदितम्’ म्लेच्छों के द्वारा अर्थ विशेष में प्रयुक्त अर्थात् व्यवहृत शब्द समूह ‘तु’ किन्तु, ‘प्रतीयेत’ प्रतीत होता है अर्थात् उस अर्थ के वाचक रूप में अवगत होता है ‘अविरोधात् प्रमाणेन’ प्रमाण के साथ विरोध नहीं है । इन विशेष शब्दों का आर्यों ने विशेष अर्थ में व्यवहार नहीं किया है, अतः इन शब्दों का म्लेच्छों ने जिस अर्थ में प्रयोग किया है, उन शब्दों का वही अर्थ ग्रहण करना उचित है, क्योंकि म्लेच्छों का व्यवहार आर्यों के व्यवहार का विरोधी नहीं है ॥ १० ॥ अथ षष्ठं कल्पसूत्राधिकरणम् [६] प्रयोगशास्त्रमिति चेत् ॥ ११ ॥ पू० शा० भा०—इह कल्पसूत्राण्युदाहरणम् । मशकम्, हास्तिकम्, कौण्डिन्यक- मित्येवं लक्षणकानि किं प्रमाणमप्रमाणं वेति सन्दिग्धानि । किं प्राप्तम् ? प्रयोगस्य शास्त्रं प्रमाणमेवं जातीयकमिति ब्रूमः । सत्यवाचामेतानि वचनानि । कथमवगम्यते । वैदिकैरेषां संवादो भवति । य एव हि वेदे ग्रहास्त एवेह, या एव वेदे इष्टकास्ता एवेह । तस्मात्सत्यवाच आचार्याः । आचार्यवचः प्रमाणमिति च श्रुतिः१ । प्रत्यक्षतः प्रामाण्यमनवगतमिति यद्युच्येत ? प्रमाणान्तरेण वचनेनावगतमिति२ न दोषः । वेदवाक्यैश्चैषां तुल्य आदरः । तस्मात् प्रमाणम् ॥ ११ ॥ इति पूर्वपक्षः । भा० वि०—एवं तावत्स्मृत्यधिकरणसिद्धस्यौत्सर्गिकस्याचारप्रामाण्यस्यार्य- प्रसिद्धिविरोधे म्लेच्छप्रयोगरूपम् आचारेऽपवादम्, तदविरोधे चोत्सर्गस्थिति- मभिधायेदानीं स्मृतीनामपि वेदव्यतिरिक्तविद्यास्थानरूपाणामौत्सर्गिकं श्रुति- मूलत्वेन प्रामाण्यं स्मृत्यधिकरणसिद्धमेवानेनाक्षिप्य समाधीयत इति सङ्गतिः । न चाशब्दमूलत्वेन स्मृत्यधिकणे पूर्वपक्षप्रदर्शनात् । सिद्धान्ते च शब्दानुमान- कथनात् कल्पसूत्राणां च प्रत्यक्षवेदमूलत्वात् कथं समस्तविद्यास्थानविषयत्वं स्मृत्यधिकरणन्यायस्येति वाच्यम्, स्मृतीनामपि कासाञ्चिद् उपनयनादिविषयाणां प्रत्यक्षश्रुतिमूलत्वदर्शनात् कल्पसूत्राणामपि नानाशाखाङ्गोपाङ्गोपसङ्ग्राहिणां सर्वेषामेव प्रत्यक्षमूलत्वासम्भवात्, स्वल्पभूयस्त्वेन च विशेषोपपत्तेरिति मन्तव्यम् । १. ब. च श्रुतिप्रत्यक्षतः । २. ब. वचनेन वावगत ।