मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 516, कुल 804 में से
संदर्भ में पढ़ें४६२ मीमांसादर्शनम् [ सू० सिद्धेर्नैराकाङ्क्ष्यं वक्तुं यावता विना नैराकाङ्क्ष्यं न भवति तावद्दर्शयति-इहेति । भावना च नाम विशेषणव्यवच्छिन्नो यागादिधात्वर्थविशेषश्च स्वर्गादिफलं च द्रव्यदेवतादि- कारकं च यावद्दृष्टेतिकर्त्तव्यता च । तद्विधायको विधिश्च श्रुतिष्वनुमीयमानास्वनुमीयत इत्यन्वयः। अवश्यमित्येतावतामनुमाने कारणत्वमुक्तम् । तदेव कुत इत्यपेक्षायाम्- कारणानुविधायीत्युक्तम् । कारणात्तथाविधत्वं विना कार्यंतथाविधत्वानुपपत्तिः । कार्यानु- रूपकारणानुमाने हेतुरित्यर्थः । निषेधे कियता नैराकाङ्क्ष्यमित्यपेक्षायामाह-एवमिति । नन्वेतावत्यनुमितेऽपि निरधिकारयोर्विधिनिषेधयोरप्रवृत्तेरधिकारिविशेषोपादानं विना नैराकाङ्क्ष्यं न सम्भवतीत्याशङ्क्याह-तावता चेति । अशक्यविधानानुपपत्तेरसामर्थ्य- व्यावृत्त्यवगमाच्छक्तमात्रस्य कर्तृत्ववधारणात्कर्तृत्वस्य चाधिकारं विनानुपपत्तेः । कर्तृ- विशेषेणैवाधिकारिविशेषावधारणसिद्धेनं होलादौ दिग्देशपरिच्छिन्नस्यैव कर्तृविशेषस्या- धिकार इति नियता प्रतिपत्तिर्लभ्यत इत्यर्थः । ननु शक्तस्यापि विधिमन्त्रेणाप्रवृत्तेस्तस्य चात्राचारकल्पकत्वात्तदानुरूप्येण दिग्देश- परिच्छिन्नकर्तृविशेषविषयत्वप्रतीतेः कथं तन्निराकरणमित्यभिप्रायेण पृच्छति-कुत इति । उत्तरमाह-त्रिधैवेति । स्वर्गकामो यजेतेत्यविशेषश्रवणेऽप्यग्निविद्यारहितत्वेनायोग्यस्य शूद्रादेः कर्तृत्वासम्भवाद्योग्यत्वेन त्रैवर्णिकः कर्ता विशेषरूपेण ज्ञायते 'पतितषण्ढयोर्द्वि- जातिकर्मभ्यो हानिर्'ति निषेधात्तद्वर्जितो प्रतिषिद्धत्वेन ज्ञायते । 'राजा राजसूयेन यजेतेति विशेषापादकत्वे येन क्षत्रियः कर्त्ता विशेषरूपेण ज्ञायते । न त्विहैषां मध्ये किं- चिद्दिग्देशपरिच्छिन्नकर्तृविशेषज्ञानकारणमस्तीत्याशयः । यत्र योग्यत्वस्य तावदविशिष्टत्वान्न दिग्देशपरिच्छिन्नकर्तृविशेषज्ञानकारणतास्तीत्याह-तद्विहेति । श्रावयेच्चतुरो वर्णानित्यादि- श्रुतिपर्यालोचनया शूद्राणामपि वैदिकमन्त्ररहितेषु स्मृत्याचारप्राप्तेषु कर्मस्वधिकारोऽस्तीति, समस्तशब्देनोक्तम् । सर्वधर्मबहिष्कृतत्वस्मृत्या म्लेच्छानां धर्मानधिकारावगादायंवर्त्त- निवासिग्रहणम् । निषेधाधिकारे त्वविशेषात्सर्वाधिकारोपपत्तेराचारकल्प्यत्वाद्द्विधेयस्या चारस्य यावद्भिर्वर्णैराश्रमभिर्म्लेंच्छादिभिर्वानुष्ठानं दृश्यते, तावतां तस्मिन्नाचारेऽधिकार इति प्रतिपादनायानवक्लृप्तिरुक्ता । अप्रतिषिद्धत्वस्य कर्तृविशेषज्ञानकारणत्वं पूर्वोपन्यस्तमप्युपपदनिराकरणाधीननिराकर- णत्वादुपेक्ष्योपपदं तावन्निराकरोति-न त्वत्रेति । यथा चात्र यः कर्तृविशेषः कल्पः, तद्वाचकत्वेन तदनुसारि यदुपपदमनुमीयते, तन्न सम्भवतीत्यर्थं । प्राच्याद्युपपदशङ्का- निराकरणार्थम्-देशश्रेत्युक्तम् । गृह्यादौ त्वाचारशब्दपाठोपलक्षणार्थमङ्गीकृत्य नात्र गृह्य- गौतमीयादौ यथापाठम्, छन्दोगादिकर्तृविशेषानुसाय्युंपपदं किंचिदुपात्तं यत् तन्मूलभूतायां श्रुतावनुमीयेतेति योज्यम् । प्रतिषेध्यवाच्युपपदासम्भवेनाप्रतिषिद्धत्वमपि कर्तृविशेषज्ञान- कारणं नेह सम्भवतीत्याह-येऽपि चेति । आचारानुरूपकर्तृविशेषवाच्युपपदासम्भवं न तस्याकृतिवचनतेति भाष्योक्तेन मार्गेणो- पपादयितुमुपक्रमते-योग्यत्वेनेति । प्रश्नपूर्वकमुपपादयति-कुत इति । श्लोकं