मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 517, कुल 804 में से
संदर्भ में पढ़ें११ ] प्रथमाध्याये तृतीयपादः ४६३ व्याख्यातुमाकृतिवाच्युपपदासम्भवं तावत्प्रपञ्चयति—न तावदिति । व्यक्तिवाच्युपपदा- सम्भवं प्रपञ्चयति—व्यक्तिवाचि त्विति । एतदेवोपपादयति—न हीति । नन्वनन्तभेदा- नामपि पुरुषव्यक्तीनां शुक्लो होतेतिवदेकेन केनचिद् गुणेनैष्टव्यो विविक्ते इतिवद्वा कया- चिदेकया क्रिययोपलक्षितानामेकमभिधानमवकल्पिष्यत इत्याशङ्क्याह—एतेनेति । आचा- रानुरूपविशेषणानुपपत्तिरेतच्छब्देन परामृष्टा । गुणस्य क्रियाया वा विशेषरूपेणानेक- पुरुषव्यक्त्युपलक्षणशक्त्यसम्भवाज्जातिग्रहणम् । एतदेवोपपादयति-न हीति । ननु व्यक्त्या- कृतिवाच्युपपदासम्भवेऽप्यर्थान्तरवाचि किञ्चिद्भविष्यतीत्याशङ्क्याह-व्यक्तीति । उक्तेऽर्थे न तस्याकृतिवचनतेति भाष्यं योजयति — एतदेवेति । विधानपरामर्शिनस्तच्छब्दात्परा षष्ठी विधानविशेषणार्थोपपदव्यतिरेकजनितेत्याशयः। विधानविशेषणार्थस्योपपदस्य व्यक्त्याकृतिवचनत्वासम्भवेनोपपादनार्थं—न चेति भाष्यम् । हि शब्दार्थे च शब्दमङ्गीकृत्य व्याचष्टे—न हीति । व्यक्तिवाचित्वनिराकरणेऽनु- ष्ठातृविशेषाणां यदेकं सामान्यं साधारणमुपलक्षणं न तन्निमित्तानुष्ठातृविशेषाणां वाच- कोऽस्तीति तस्योपलक्षणार्थत्वेन सर्वेषां शब्द इति शब्दव्यतिरेकजनितषष्ठ्यङ्गीकरणेन योज्यम् । नञ्वर्जितपाठान्तरमाकृतिवाच्युपपदासम्भवादयुक्तमाशङ्क्योपन्यासपूर्वकं व्याचष्टे-केषाञ्चि- त्विति । स्वर्गकामो यजेतेत्याख्यातोपात्तभावनावक्षिप्तकर्तृविशेषणोपादेयार्थे स्वर्गकामपदे पुंल्लिङ्गनिर्देशात्स्त्रिया नाधिकार इति पूर्वपक्षं कृत्वा, कर्तृविशेषणत्वेनाप्यन्वितस्य स्वर्ग- कामस्य विध्यन्यथानुपपत्त्या प्राधान्यावगतेरुद्देश्यत्वाद्विशेषणाविवक्षेति षष्ठे सिद्धान्तयितुम्, यथा विशेषणाविवक्षाभिप्रायेण जातिशब्दः प्रयुक्त इति । नैव वयं ब्रूमो जातिवचन इह शब्दोऽधिकारक इति । किं तर्हि । स्वर्गकामशब्देनोभावपि स्त्रीपुंसावधिक्रियेते इत्यविवक्षितं पुंल्लिङ्गमिति भाष्ये वक्ष्यते । तथात्रापि विशेषणाविवक्षाभिप्रायेणाकृतिशब्दः प्रयुक्त इत्यर्थः । अस्मिंश्च पाठे ननु दिग्देशपरिच्छिन्नकर्तृविशेषमात्रवर्त्त्यवान्तरजातिवाच्ये च तर्ह्युपपदं कल्पयिष्यत इत्याशङ्कानिराकरणार्थत्वेन न चेति भाष्यं स्वार्थंचशब्दकं योज्यम् । पूर्वस्मिन्नेव पाठे वैयाकरणगन्धिनो मीमांसकस्य व्याख्यानं दूषयितुमुपन्यस्यति— कश्चित्पुनरिति । शब्दान्तरानाख्येयार्थत्वेनाख्यातशब्दमनेन भाष्येणोपवर्णयन्नेवमाहेत्यन्वयः । किमाहेत्यपेक्षिते भावइति तदीयो ग्रन्थः पठितः । तस्यार्थो भावाख्यो यो लिङ्गाद्यर्थः । सोऽतो लिङ्गादिशब्दजनिताद्भानादन्येन शब्दान्तरजनितेन ज्ञानेनानाख्येयः । तृतीयान्त- मन्यदित्यव्ययम् । भावादिशब्दैराख्यातदर्शनाच्छब्दान्तरानाख्येयत्वानुपपत्तिमाराङ्क्य स्वधर्मेण पूर्वापरीभावेन कालत्रयासंसृष्टत्वेन लिङ्गसम्बन्धायोग्यत्वेन च शब्दान्तरेण— नाख्यायत इत्युक्तम् । यद्वा शब्दान्तरानाख्येयत्वकारणम् —स्वधर्मेणेत्यनेनोक्तम् । शब्दान्तरेण ह्याख्याय- मानोऽर्थः सामान्यरूपेण विशेषरूपेण व्याख्यायते । न च लिङ्गाद्यर्थस्य सामान्यरूपता,