भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 511, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 511

११ ] प्रथमाध्याये तृतीयपादः ४५७ अपि च—वेदादृतेऽपि कुर्वन्ति कल्पैः कर्माणि याज्ञिकाः । न तु कल्पैर्विना केचिन्मन्त्रब्राह्मणमात्रकात् ॥ ५२७ तुल्यं च साम्प्रदायिकम्, स्वाध्यायाध्ययनविधिवचनं प्राग्दर्शितम् कल्पग्रहणात् । अथ वा संप्रदातॄणामध्येतॄणां च यादृशः । मन्त्रब्राह्मणयोर्यत्नः कल्पसूत्रेषु तादृशः ॥ ५२८ १अनुयोगेषु वेदानां घटिकामार्गवृत्तिषु । न कल्पसूत्रहीनानां लभ्यते कृत्स्नवेदता ॥ ५२९ तस्मात्कर्मप्रयोगाणां शास्त्रमेतदतिस्फुटम् । वेदो वा वेदतुल्यं वा कल्पसूत्राद्यसंशयम् ॥ ५३० एतेन धर्मशास्त्राणामङ्गानां चापि वेदता२ । तत्तुल्यताऽपि वा वाच्या सर्वेषां सर्वहेतुभिः ॥ ५३१ धर्मशास्त्रपदं येषु सर्वकालं प्रयुज्यते । प्रयोगशास्त्रतां तेषां वेदज्ञः को हरिष्यति ॥ ५३२ अपि चाङ्गानि वेदाश्च धर्मशास्त्रं च तुल्यवत् । विद्यास्थानानि गण्यन्ते सर्वदा वेदवादिभिः ॥ ५३३ किं च—कर्मणां ब्राह्मणोक्तानां यथा मन्त्राः प्रकाशकाः । अष्टकापार्वणादीनां दृश्यन्ते ते तथैव हि ॥ ५३४ तथाऽवकीर्णियागादि कृच्छ्रचान्द्रायणादि वा । वेदमन्त्रप्रकाश्यं तत्स्यात् कथमवैदिकम् ॥ ५३५ सिद्धवद्विशिखत्वादि यच्च मन्त्रैरनूद्यते । चौलोपनयनप्राप्तं तत्स्यात्कथमवैदिकम् ॥ ५३६ एवं च वेदमूलत्वं किमेषामनुमीयते । संभवत्येव वेदत्वे नित्यत्वे चापि तत्समे ॥ ५३७ वेदं हि कल्पयित्वेभ्यः पुनस्तस्यापि नित्यता । वक्तव्यैव वरं तेन सा तेष्वेवावधारिता ॥ ५३८ १. वेदकौशलजिज्ञासार्थं तत्तद्वेदभागचिह्नलेख्यनि घटिकायां कुम्भाख्यायां निक्षिप्य तत्तद्वेदभागपरीक्षाकाले ताभ्याकृष्य आकृष्टलेख्यचिह्नितं पठन्त्यध्येतारो न पुञ्जत इति घटिकामार्गवर्तिनोऽनुयोगाः इति । २. (क) देवता ( अयं प्रामादिकः पाठः )