भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 510, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 510

४५६ मीमांसादर्शनम् [ सू० यदितिहासपुराणानि, यत्कल्पान्' इति तज्जप्यमानत्वेन विधानादार्षत्वमेव विज्ञायते । पुरुषकृतानां जपनिमित्तधर्महेतुत्वेन नित्यविधिविषयत्वासम्भवात् । अरुणपराशरशाखाब्राह्मणस्य च कल्परूपत्वात्सर्वयाज्ञिकैश्च स्वशाखाधीतव्यति- रिक्तकल्पसूत्रकारोपन्यस्तपक्षतुल्यबलत्वाध्यवसानात्कल्पजमन्त्राणां चेतरसमाम्ना- याधीतवत्क्रतुविनियोगाश्रयणात् तुल्यत्वम् । आर्षेयवचनं नित्यपर्यायत्वेन गम्यते । आर्षेयत्वप्रसिद्धिश्च कल्पसूत्रेष्ववस्थिता ॥ ५२२ उक्तेऽर्थे सूत्रकारवचनम् लाटद्राह्मायणसूत्रकाराभ्यामपि च दृढकल्पप्रामाण्यापेक्षयेदं माशकमपेक्ष्य 'तत्प्रत्यक्षविहितं चाऽऽर्षंकल्पेन तत्रानुमानं न विद्यते' इति ब्राह्मणविहितादप्यार्ष- कल्पविहितगरीयस्त्वमङ्गीकृत्योक्तम् । उक्तार्थदार्थ्याय कात्यायनवचनोपन्यासः कात्यायनेन च कृतासामविशेषलक्षणसूत्रप्रणयनप्रक्रमेऽभिहितं यज्ञविषय- ब्राह्मणगतस्तोत्रविधिवाक्यशेषे यथा 'माशकमुपलक्षणं तत्प्रामाण्यात्करिष्यते, न तन्निरपेक्षशुद्धब्राह्मणप्रामाण्यादि'ति । तथा च प्रायणीयाग्निष्टोमसाम्नि यज्ञायज्ञीयेन सह वैकल्पिकं जराबोधीयमग्निष्टोमसाम कार्यमिति पञ्चविंश- ब्राह्मणेऽभिहितमपि, माशकानुवृत्त्या कात्यायनेनाऽऽर्भवोयगायत्रतृतीयत्वेन जरासादिति लक्षितम्। आर्भवगीयगायत्रीगतगायत्रानन्तरसाम्नो हि तेन समिति संज्ञा कृता । तस्माच्च परत्वेन पदैकदेशप्रयोगेण जराबोधीयमुक्तं ठेशब्देन च ज्योतिष्टोमकाग्निष्टोमसामसंज्ञाभूतेन यज्ञायज्ञीयमेवाग्निष्टोमसामत्वेन नियतम् । यदि च कल्पाद् ब्राह्मणमतिरिक्तं कात्यायनोऽमंस्यत, ततः प्रत्यक्षब्राह्मणदृष्टं विकल्पमेवावक्ष्यत् । बहुवेदगतन्यायविवेकज्ञो यदब्रवीत् । कात्यायनो न तद्वाच्यमन्याय्यमिति मादृशैः ॥ ५२३ आचार्यवचनानां च प्रामाण्यं श्रूयते श्रुतौ । अङ्गानां च प्रणेतार आचार्या ऋषयो मताः ॥ ५२४ यथा च सर्वशाखानां संवादात्तुल्यकल्पता । तथैव कल्पसूत्राणामिति प्रामाण्यतुल्यता ॥ ५२५ यान्यप्यप्रत्ययितपुरुषवचनानि प्रमाणान्तरसङ्गतार्थानि भवन्ति, तान्यपि सत्यत्वेनावधार्यन्ते, किमङ्ग पुनः सत्यवाचां वचनानि ? सत्यवाचां च वाक्यानि वैदिकैः सङ्गतानि च । ज्ञातसत्यानि तान्येवं कोऽन्यथा कल्पयिष्यति ॥ ५२६