मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 509, कुल 804 में से
संदर्भ में पढ़ें११ ] प्रथमाध्याये तृतीयपादः ४५५ यद्वा शाक्यादिशास्त्राणां स्मृतिशास्त्रत्ववारणात् । वेदशाखासमानत्वमाशङ्क्येह निवार्यते ॥ ५१४ शाक्यादयोऽपि ह्येवं वदन्त्येव । यथा ‘उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवेयं धर्मनित्यता’ इति । ततश्च वेदवन्नित्यास्तेऽपि चेदागमा मताः । चोदनालक्षणो धर्मस्तदुक्तोऽपि प्रसज्यते ॥ ५१५ कामं न प्रविशेद् ग्रामं वारितो दण्डपाणिभिः । स्पष्टं महापथेनेव संप्रति प्रविविक्षति ॥ ५१६ एवमेतानि चत्वार्यपि विचारस्थानान्येकमार्गपतितानि कल्पसूत्रविचारेणैव गतप्रायाणि भविष्यन्तीति मन्वानेन तदुपन्यासमात्रमेव क्रियते । का गतिः कल्पसूत्राणामित्यस्मिन् संशये सति । प्रयोगशास्त्रतां तावत् प्राह स्म त्यक्तसंशयम् ॥ ५१७ वेदत्वं कल्पसूत्राणां न मोक्तव्यं मनागपि । यदि वा वेदतुल्यत्वं स्वतन्त्राणां प्रतीयताम् ॥ ५१८ वेदेनैवाभ्यनुज्ञाता धर्मे तेषां प्रमाणता । वेदत्वमेव वा सिद्धं संवादादिप्रमाणकम् ॥ ५१९ ननु च पौरुषेयत्वादेषामेतदुभयमप्यनुपपन्नम् । नैतेषां पौरुषेयत्वं भविष्यति हि वेदवत् । माशकादिसमाख्या हि प्रोक्तत्वात्काठकादिवत् ॥ ५२० यथैव काठादिप्रोक्ताः शाखाः काठकादिसमाख्ययाऽभिधीयन्त इत्यकृत्रिमाः१ स्थापिताः तथैव वेदसमाम्नातमाशकादिसमाख्यातग्रन्थनित्यतापि प्रत्येत्तव्या । यथा सामसूक्तानामिदमस्याऽऽर्षमिदमस्येति सत्यामपि तन्निमित्तायां समाख्यायां न नित्यत्वप्रतिघातः । एवं प्रख्यातर्षिप्रणीकल्पसूत्रग्रन्थानामपि । तथा हि— न तावदृषिः कश्चित्स्मर्यते कल्पसूत्रकृत् । कर्तृत्वं यदृषीणां तु तत्सर्वं मन्त्रकृत्समम् ॥ ५२१ यथा शैशवं भवति, शिशुर्वा अङ्गि॒रसो मन्त्रकृतां मन्त्रकृदासीदित्यत्र मन्त्रकृच्छब्दः प्रयोक्तरि प्रयुक्तः । एवं तस्य तस्य कल्पस्य, सूत्रस्य वा प्रयोक्तार- स्तत्कारित्वेन व्यपदेक्ष्यन्ते । ब्रह्मयज्ञविधाने च ‘एवं विद्वान् स्वाध्यायमधीयीत’ इत्युक्त्वा तत्प्रपञ्चे ‘यदृचोऽधीते, यद्यजूंषि, यत्सामानि, यद् ब्राह्मणानि १. क. त्यकृत्रिमास्थापिता ।