मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 521, कुल 804 में से
संदर्भ में पढ़ें१२ ] प्रथमाध्याये तृतीयपादः ४६७ भा० वि०—तत्र वेदव्यतिरिक्तविद्यास्थानानामनपेक्षत्वेन वेदत्वं वेदवत् प्रामाण्यं वा न युक्तमिति नञर्थमाह—नैतदेवमिति । तत्र हेतुमवतार्य व्याचष्टे— असन्नियमादित्यादिना । संशब्दस्सम्यगर्थः नियमशब्दो निबन्धनार्थ इत्यर्थः । असम्यङ्निबन्धत्वे हेतुमाह—स्वराभावादिति । स्वराभाव उपलक्षणार्थः । अलौकिकानां चतुष्षष्टिप्रपाठकादिनियतस्वरविशेषवत्, पदानाम्, तदर्थविशेषाणाम्, प्रयोजनविशेषाणां च कल्पादिष्वभावादित्यर्थः । न च प्रयोगशास्त्रत्वेनापौरुषेयतया वेदत्वं वेदरूपाभावाच्च वेदविहितार्थानुवादित्वोपपत्तेश्च प्रयोगशास्त्रत्वासम्प्रतिपत्तेः इति भावः ॥ १२ ॥ त० वा०—एवं प्राप्ते वदामोऽत्र तत्रासन्नियमादिति¹ । असन्निबन्धनं ह्येतत्पूर्वोक्तं सर्वमीक्ष्यते ॥ ५६५ इहैका परमार्थेन बुद्धिरर्थेषु जायते । अन्या भ्रान्तिरजाताऽपि त्वन्या जाताऽपि दुष्यति ५६६ परेण सह केषांचिद्वाकोवाक्यानि जल्पताम् । उक्तयः प्रातिभासिक्यो जायन्ते परवाक्यतः ॥ ५६७ स्वसंवेद्यं च सिद्धान्तमात्मीयमपि जानताम् । छायां तथाऽपि रक्षन्तो जल्पन्ति प्रतिशब्दकैः ॥ ५६८ यथा मीमांसकत्रस्ताः शाक्यवैशेषिकादयः । नित्य एवाऽऽगमोऽस्माकमित्याहुः शून्यचेतनम् ॥ ५६९ प्रद्वेषाद्वेदपूर्वत्वमनिच्छन्त कथंचन । तन्मात्रेऽपि च भूयिष्ठामिच्छन्तः सत्यवादिताम् ॥ ५७० भूयसां वेदबाह्यत्वाद् बुद्धादिवचसाममी । अहिंसाद्यप्यतत्पूर्वमित्याहुस्तर्कमानिनः ॥ ५७१ ततश्च पौरुषेयत्वादप्रामाण्यमतीन्द्रिये । प्रागुक्तैर्वेदनित्यत्वं वागाभासैर्विमोह्यते ॥ ५७२ यादृशतादृशमीमांसकैरप्यतीन्द्रियविषयपुरुषवचनप्रामाण्यनिराकरणादपौरुषेय- त्वाध्यवसायनिराकृतकारणदोषशङ्कनिरपवादप्रामाण्यसिद्धि प्रतिहन्तुमशक्यां मन्यमाना निरुत्तरीभूता बालानुकरणवाक्यसदृशैः स्ववाक्यैर्व्यवलिख्यमानहृदयाः सन्तोऽपि प्रक्षीणकुहेतुवचनजालाः कन्यावरणार्थिगतमूर्खवरगोत्रप्रश्नोत्तरवत् । १. ब. न असन्नियमात् ।