मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 538, कुल 804 में से
संदर्भ में पढ़ें४८४ मीमांसादर्शनम् [ सू० यथा च जातिं-तद्द्भेदकुलधर्मा व्यवस्थिताः । तथैव देशधर्मादिव्यवस्थाऽपि भविष्यति ॥ ६४४ यदि स्यात्सर्वगामित्वं विधानप्रतिषेधयोः । आचारोऽपि तथैव स्याद् व्यवस्थाहेत्वसम्भवात् ॥ ६४५ सर्वविषयशास्त्रप्रणीतो ह्याचारः सर्वदेशगतशक्तिमत्पुरुषैरग्निहोत्रवदेवा- नुष्ठीयेत । यस्तु तं विनियोगेन कुरुते तद् व्यवस्थितम् । तेन नूनं श्रुतिः काऽपि तेषामेवं विधायिका ॥ ६४६ अन्यथानुपपत्त्या च श्रुतिरत्र प्रतीयते । तन्मात्रानुपपत्त्या च सा तत्रैवाऽवधार्यते ॥ ६४७ यस्मादयं देशाचारः, अयं वा गृह्यादिग्रन्थोऽन्यथा नोपपद्यते, यदि श्रुति- मूलकत्वं नास्तीत्यनयोपपत्त्या मूलकल्पना । तस्माद् व्यवस्थितविषयैव साऽध्यव- सातव्या । तथा चोक्तम्-( यदि च हेतुरवतिष्ठेत निर्देशादिति १-२-३० ) । यद्यन्नकरणं हेतुः शूर्पहोमे विधीयते । तन्मात्रगतमेवासौ दृष्टान्तमपि कल्पयेत् ॥ ६४८ यदन्नकरणं शूर्पं तेन तेनैव हूयते । ततश्चातिप्रसङ्गः स्यान्न दर्विपिठरादिषु ॥ ६४९ एवं व्यवस्थितान् दृष्ट्वा देशाचारान् समन्ततः । तन्मात्रविषया युक्ता तन्मूलश्रुतिकल्पना ॥ ६५० अनुमानव्यवस्थानाद्देशादिनियमादतः । तत्संयुक्तं प्रमाणं स्याद्यद्वाक्यमनुमीयते ॥ १५ ॥ ६५१ भा० प्र० -- धर्मसूत्र और गृह्यसूत्र एवं देशाचार के विषय में प्रामाण्य के निर्णय की दृष्टि से इस अधिकरण की अवतरणा की गयी है—इसको देशाचारों में श्रुतिकल्पना- धिकरण या होलाकाधिकरण कहा जा जाता है । सामवेदी गौतम धर्मसूत्र एवं गोभिल- गृह्यसूत्र, बह्वृच=ऋग्वेदी वशिष्ठस्मृति, वाजसनेयी=शुक्ल यजुर्वेदी आपस्तम्ब और बौधायनप्रणीत स्मृति के अनुसार अपना आचार-व्यवहार करते हैं । इसी प्रकार पूर्व देशों में रहने वाले होलाका=होली करते हैं, दाक्षिणात्य के आचार के अनुसार आह्ली- नैवुक=करञ्ज, अर्क आदिवृक्षरूप स्थावर देवता की पूजा करते हैं । करञ्जादिपूजनात्मक- माह्लीनैवुकमिति । (मीमांसाकौस्तुभ १।३।१५) “स्वस्वकुलागतं करञ्जादिस्थावरदेवता पूजनमाह्लीनैवुकशब्देनोच्यते" 'मीमांसान्यायमालाविस्तरे' । आचार्य उदयन ने कहा