मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 540, कुल 804 में से
संदर्भ में पढ़ें४८६ मीमांसादर्शनम् [ सू० आदि सम्बद्ध, स्यात् = होगा । क्योंकि, देश विशेष से आबद्ध शिष्टाचार के द्वारा ही उसके मूलभूत श्रुतिरूप प्रमाण का अनुमान होता है, इस लिए वह प्रमाण स्वरूप श्रुति भी देश सम्बद्ध ही होगी अर्थात् विशेष-विशेष आचार उस विशेष देश के लिए ही कर्तव्य होगा, अन्यत्र के लिए नहीं ॥ १५ ॥ अपि वा सर्वधर्मः स्यात् तन्न्यायत्वाद्विधानस्य ॥१६॥ सि० शा० भा०—अपि वेति पक्षव्यावृत्तिः । एवंजातीयकः सर्वधर्मः स्यात् । कुतः ? तन्न्यायत्वाद् विधानस्य । विधीयतेऽनेनेति विधानं शब्दः । सोऽनु मीयते स्मृत्या । न च तस्याकृतिवचनता न्याय्या, न च व्यक्तिवचनता । न च सर्वेषामनुष्ठातृणां यदेकं सामान्यम्, तस्य वाचकः कश्चिच्छब्दोऽस्ति, योऽनु- मीयते । तस्मात् सर्वधर्मता विधेर्न्याय्या । कुतः ? पदार्था कर्तव्या इति प्रमाणमस्ति, व्यवस्थायां तु न किञ्चित्प्रमाणमस्ति ॥ १६ ॥ अथ¹ यदुक्तं यथा शिखाकल्पो व्यवतिष्ठत² इति । भा० वि०—एवं छन्दोगवह्वृचादिपरिगृहीतगौतमवसिष्ठादिस्मृतिविहितानां तान् प्रत्येव धर्मत्वं प्राच्याद्यनुष्ठीयमानहोलाकाद्याचाराणां तान्प्रत्येवेति व्यवस्थितत्वे धर्माणां प्राप्ते सिद्धान्तमाह—अपि वेति । व्यवस्थितत्वपक्ष- व्यावृत्त्यर्थमाह—अपि वेति । होलाकादिः सर्वधर्मः स्यादिति सिद्धान्तप्रतिज्ञां विवृणोति—एवं जातीयक इति । ननु व्यवस्थितलिङ्गदर्शनेन तथाविधलिङ्गानुमानात् तदधीनं धर्मत्वमपि व्यवस्थितमेव न्याय्यमिति शङ्कते—कुत इति । व्यवस्थितलिङ्गदर्शनेन ह्यनु- मीयमाना श्रुतिर्व्यवस्थितकर्तृविशेषणवाच्युपपद्युक्तैवानुमातव्या, न च तत्संभव- तीति वक्तुं सूत्रावयवमवतारयति—तन्न्यायत्वादिति । तस्य सर्वधर्मत्वस्य न्यायो यस्मिन् विधान इति व्यधिकरणबहुव्रीहिः, तन्न्यायत्वं विधानस्य दर्शयितुं विधानशब्दार्थं तावदाह—विधीयत इति । विधीयतेऽनुष्ठीयतेऽंशत्रय- विशिष्टा भावनानेनेति वाच्यं विधानशब्दार्थ इत्यर्थः । ततः किमित्याशङ्क्य तन्न्यायत्वं दर्शयति—सोऽनुमीयत इति । स्मृत्याचारेण वेत्यर्थः, तथापि कथं सर्वधर्मत्वसाधकन्यायोपेतत्वं विधानस्येत्याशङ्क्य असति कर्तृविशेषोपादने विधिनेव सर्वधर्मत्वसिद्धेः विशेषणस्य चाकृत्यादिरूपस्यासंभवादित्याह—न तस्येति । विधानान्तर्गततया प्रकृतस्योपपदस्य तस्येति परामर्शः, व्यक्तिवचनत्वे त्वेकपुरुषव्यक्त्यधिकारमेव होलाकादीति व्यक्त्यन्तरस्याननुष्ठानप्रसङ्ग इति भावः । १. ब. अथ यथा शिखा । २. क. व्यवतिष्ठते ।