मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 541, कुल 804 में से
संदर्भ में पढ़ें१६ ] प्रथमाध्याये तृतीयपादः ४८७ नन्वस्तु ब्राह्मणत्वाद्याकृतिवाचित्वमुपपद्येति तत्राह-न चेति । सर्वेषा- मनुष्ठातृणामिति । अनुष्ठातृणामेव तेषां च सर्वेषामित्यर्थः ब्राह्मणत्वादीनां चातथाभावादिति भावः । अधिकारवाच्युपपदाभावे फलितमाह-तस्मादिति । विधेरिति । निरुपपदविध्यनुमानादित्यर्थः, यद्येवं सर्वधर्मत्वं कथं तर्हि व्यवस्थाया अनुष्ठानमिति चोदयति-कुत इति । परिहरति-पदार्था इति । सर्वधर्मतायां प्रमाणसद्भावाद् व्यवस्थितौ तदभावाच्चालस्यं भ्रान्तिर्वानुष्ठानव्यवस्थाकारण- मित्यर्थः । ननु कथं व्यवस्थितौ प्रमाणभावः ? शिखाकल्पादिवदाचारादिव्यवस्थायापि व्यवस्थितमूलश्रुत्यनुमानादित्युकमनुवदति-अथेति ।। १६ ।। सिद्धान्तः त० वा०--अपि वा सर्वधर्मः स्यादित्यत्रोत्तरमुच्यते । तन्न्यायत्वाद्विधानस्य शक्तगात्राधिकारिणः ॥ ६५२ इह स्मृतीराचारांश्चोपलभ्य मूलश्रुतिष्वनुमीयमानासु कारणानुविधायिकार्य- न्यायेनावश्यमुप लभ्यमानकार्यानुरूपकारणानुमानैर्भवितव्यमिति, भावनानाम- विशेषव्यवच्छिन्नयागदानहोमोपवासादिधात्वर्थविशेषस्वर्गादिफलकारकेतिकर्तव्य - ताविषयस्तावदनुमातव्याः । एवं वर्जनीयेष्वपि देहेन्द्रियमनोद्वारव्यवहारेषु प्रतिषेध्य- क्रियाकारकं नरकाद्यनिष्टफलप्रतिषेधक शब्दानुमानमवश्यंभावि । तावता च योग्यत्वमात्रविषयत्वान्न दिग्देशपरिच्छिन्न कर्तृविशेषाधिकारनियतप्रतिपत्तिलाभः । कुतः--त्रिधैव ज्ञायते कर्ता विशेषेण प्रतिक्रियम् । योग्यत्वाप्रतिषिद्धत्वविशेषोपपदान्वयैः ॥ ६५३ तदिह विहितानुष्ठानयोग्यता तावत्समस्तार्यावर्तनिवासिवर्णाश्रमाणा मन्धव- धिरजडमूकादिवर्जमविशिष्टा । वर्जनीययोग्यत्वमपि यथोपलभ्यमानं द्वित्रिचतुर्वर्णा- श्रममात्रसम्बद्धं वा तदभ्यधिकदर्शनानुमितसमस्तम्लेच्छादिविषयं वा विज्ञायते । न त्वत्रोपपदं किञ्चिद्यथाचारानुसारि यत् । अनुमीयेत देशस्थदृष्टकर्तृविशेषणम् ॥ ६५४ येऽपि च प्रतिषिध्येरन्देशान्तरनिवासिनः । तद्वाच्यपि पदं किञ्चिदनुमातुं न शक्यते ॥ ६५५ योग्यत्वेनाविशेषप्रवृत्तोऽप्यधिकारः केनचित्कर्तृविशेषणपदेन राजा राजसूयेन, वैश्यो वैश्यस्तोमेनेत्यादिवद्विशेष्येत । न चात्र दृश्यमानाचरितृवाचि किंचिदेक- मनेकं सम्भावयितुं शक्यम् ।