मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 542, कुल 804 में से
संदर्भ में पढ़ेंकुतः—सर्वं नामपदं तावद्व्यक्त्याकृतिनिबन्धनम् । यद्यदेवानुमीयेत नैकार्थमपि तद्भवेत् ॥ ६५६ न तावत्प्राच्यत्वदाक्षिणात्यत्वादिजातिः प्रतीच्योदीच्यादिव्यक्तिव्यावृत्ता सर्वप्राच्यादिव्यक्तिष्वनुगता काचिदुपपद्यते । यद्वचनमुपपदं होलाकाद्यधिकारं विशिष्यात् । यास्तु मनुष्यत्व-ब्राह्मणत्वादिजातयः तेषु विद्यन्ते, ताः सर्वदेशवासि- व्यक्तिष्वविशिष्टा इति, नाऽऽचारानुरूपविशेषणसमर्थत्वेन ज्ञायन्ते । व्यक्तिवाचि तु यन्नाम तदेकत्रैव वर्तते । देवदत्तादिवत्तेन न सिध्येत् कर्तृनैकता ॥ ६५७ न ह्यनन्तभेदानां प्राच्यादिपुरुषव्यक्तीनां व्यस्तसमस्तानां सम्बन्धानुभवा- सम्भवादेकमभिधानमवकल्पते । एतेन गुणक्रियाजातिविशिष्टपुरुषव्यक्तिवचनत्वं प्रत्युक्तम् । न हि काश्चिदपि गुणक्रियाजातिव्यक्तयः प्रतिदेशव्यवस्थितपुरुषव्यक्त्युपलक्षणयोग्याः संभाव्यन्ते । सर्वत्र तत्रापि व्यावृत्त्यविशेषात्१ । व्यक्त्याकृतिविनिर्मुक्तः पदार्थो न च विद्यते । यमाश्रित्य प्रवृत्तं स्यादधिकारिविशेषणम् ॥ ६५८ कस्यचिन्मतस्योपन्यासः एतदेव प्रतिपादयन् भाष्यकार आह । शक्तमात्रपुरुषाधिकारप्रवृत्तविधान- विशेषणं येनोपपदेनानुमीयमानेन क्रियते ‘न तस्याऽऽकृतिवचनता न्याय्या, न व्यक्तिवचनते’ति । न ह्येते होलाकाद्याः कांचिदाकृतिमनुविधीयन्ते, न व्यक्तिम् । न हि यावत्सु पुरुषेष्वेतेऽवस्थिताः तावतामेकेनापि व्यपदेशेनोपसंग्रहः संभवति । केषांचित्तस्याऽऽकृतिवचनता न्याय्या, न व्यक्तिवचनतेति ग्रन्थस्तेषामभिप्रायः । यथैव ‘जातिं तु बादरायणोऽविशेषात् ६-१-८’ इति सूत्रकारः स्वर्गकामपदं यौगिकमप्युद्दिश्यमानपुंस्त्वविशेषणासंभवात्फलार्थिमात्रमनुष्यजातिविषयोपपत्तेश्च सामर्थ्याक्षिप्तजातिमात्राधिकारं वक्ष्यति । तथेहापि फलार्थित्वकर्तृशक्त्यावबोधनात् । देशधर्मेषु सर्वेषु नरजातेरधिक्रिया ॥ ६५९ कश्चित्पुनराख्यातशब्दार्थमुपवर्णयन्निमं ग्रन्थपाठं दूषयित्वा, अपूर्वमेव समर्थ- यमानः सूत्रगतयावच्छ्रुतविधानशब्दजनितभ्रान्तिर्विधिभावनयोश्च भेदमपश्यन्तु- १ क. व्यावृत्तेरिति पाठः ॥