भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 550, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 550

४९६ मीमांसादर्शनम् [ सू० कर्तृव्यवस्थेति निगमयति-तस्मादिति । राजादिषु तु नियता राजत्वादिजाति- रनुभवसिद्धेति विशेषमाह-राजेति ॥ १९ ॥ त० वा०- इदानीं तु यदाचारमत्यन्तमनुवर्तते । तत्प्राच्यादिसमाख्याख्यमुपन्यस्तं विशेषणम् ॥ ६७१ सर्वे हि देशाचाराः प्राच्यदाक्षिणात्यादिसमाख्यातैः पुरुषैः क्रियन्ते, समा- ख्यावर्जितेषु च नोपलभ्यन्ते । तस्मात्समाख्याविशिष्टविध्यनुमानात्तत्संयुक्तप्रमाण- पक्ष एव ज्यायानिति । तत्र समाधिः - आख्या हि देशसंयोगाद्यस्मात्कर्तृषु वर्तते । आचाराणामतः प्राप्तो विधिर्देशविशेषणः ॥ ६७२ देशश्च दिग्विशिष्टः स्याद्दिग्रूपं चानवस्थितम् । न च तद्देशसंबन्धादनाचारोऽनुवर्तते ॥ ६७३ निर्गतेष्वपि दृष्टत्वात्तद्गतेष्वप्यदर्शनात् । समाख्यायास्तावन्न देशादन्यन्निमित्तमस्ति । तद्विशिष्टविधिविहिताश्च-आचाराः केवलमेव तद्देशसंबन्धमनुवर्तेरन् । उभयथाऽपि तु व्यभिचारान्न देशनिमित्तसमा- ख्याविशिष्टविधानकल्पा घटते ॥ १९ ॥ न्या० सु० - अथेत्यादिभाष्येनेदमपि सूत्रं पदोत्तरत्वेन व्याख्यातम् । प्राच्यादिसमाख्या- कर्तृविशेषणत्वेनाशङ्किता तत्र संस्थादिवत्समाख्याया अपि व्यभिचारदर्शनात्केनचिद्विशे- षेणोपन्यास इत्याशङ्कयाह - इदानीमिति । ननु देशान्तरादागत्य प्राग्देशे वसतां प्राच्यत्वे सत्यपि होलाकाद्यनुष्ठानादर्शनात्प्राग्देशाच्च निर्गत्य देशान्तरे वसतां प्राच्यत्वाभावेऽप्यनुष्ठा- नदर्शनात्कथं समाख्याया अप्यत्यन्तानुवृत्तिरित्याशङ्क्याह - सर्वे हीति । नेयं देशनिमित्ता समाख्या, किं तु जात्यादिनिमित्ता, अभिमानमात्रनिमित्ता वेत्युत्तरसूत्रे वक्ष्यमाणोऽभि- प्रायः । एतदेव पूर्वपक्षिणो विशेषणमभिमतमिति सूचयितुमत्रैवार्थे अनुमानव्यवस्थापनादिति पूर्वपक्षसूत्रं योजयति - तस्मादिति । सूत्रव्याख्यानार्थं नैतदेवमिति भाष्यं व्याचष्टे - तत्रेति । सर्वप्राच्यादिसमाख्यात- पुरुषव्यक्तिवर्त्तिनस्तदसमाख्येभ्यश्च व्यावृत्तस्य जात्यादेरदर्शनान्निर्मूलस्य चाभि- मानस्यायोगादित्याशयः । देशविशेषणत्वे को दोष इत्यपेक्षायां 'नैतदेवमिति भाष्येण सूचितं तावद्दोषमाह - देशश्चेति । ननु दिग्रूपानवस्थानेऽपि विन्ध्यापेक्षया निरूढोदीच्यादिदेश- व्यवस्थादर्शनान्न देशविषणत्वेऽपि कश्चिद्दोष इत्याशङ्कानिराकरणार्थं दक्षिणादित्यादिभाष्यं व्याचष्टे - न चेति । देशविशेषणत्वाभिधानाभिप्रायविवरणपूर्वकं श्लोकं व्याचष्टे - समाख्यायास्तावदिति । उभयशब्दोऽन्वयव्यतिरेकाभिप्रायः ॥ १९ ॥

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 550, कुल 804 में से · BharatKosha