मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 549, कुल 804 में से
संदर्भ में पढ़ें१९ ] प्रथमाध्याये तृतीयपादः ४९५ लिङ्गभावात् = लिङ्ग अर्थात् चिह्न न होने से च = एवं, नित्यस्य = नित्य अधिकारी का। आशय यह है कि होलाकादि कर्मों के अधिकारी कर्ता का नियमित पृथक् रूप में निर्धारित होने योग्य चिह्न न होने से होलाकादि देश-विशेष से आबद्ध कर्म नहीं है ॥१८॥ आख्या हि देशसंयोगात् ॥१९॥ शा० भा०—अथ कस्मान्न समाख्यया नियमः। ये दाक्षिणात्या इति समाख्याताः ते आह्लौनैबुकादीन् करिष्यन्ति। य उदीच्या इति१ समाख्याताः ते उद्वृषभयज्ञादीन्, ये प्राच्या इति, ते होलाकादीन्। यथा राजा राजसूये- नेति। नैतदेवम्। देशसंयोगादाख्या भवति। दक्षिणदेशान्निर्गतः प्राक्षु वोदक्षु वाऽवस्थित२ आह्लौनैकबुकादीन् करोत्येव। उदीच्याश्च३ देशान्तर उद्वृषभ- यज्ञादीन्, प्राच्याश्च होलाकादीन्। अन्यदेशश्च देशान्तरगतो न नियोगतः परपदार्थान्४ करोति। तस्मान्न५ व्यवस्था। 'राजा राजसूयेनेति तु नियता जातिः ॥ १९ ॥ इति आशङ्कानिरासः । भा० वि०—आख्या हि देशसंयोगादित्यपि सूत्रं शङ्कोत्तरत्वेन व्याख्यातुं शङ्कामाह—अथ कस्मादिति। प्राच्यादिसमाख्यया कर्तृनियमं विवृणोति— ये दाक्षिणात्या इतीति। ननु प्रागादिदेशसंयोगस्य प्राच्यादिशब्दप्रवृत्तिनिमित्तस्याभावेनासमाख्या- भावेऽपि देशान्तरगतानां होलाकाद्यनुष्ठानदर्शनात् देशान्तरादागत्य तद्देशनि- वासिनां च सत्यामपि प्राच्यादिसमाख्यायामनुष्ठानादर्शनात् कथं समाख्याया नियम इत्याशङ्क्य—नेयं समाख्या देशसंयोगनिमित्ता, किंतु जात्यादिनिमित्तेत्यभि- प्रायेणाह—यथा राजेति। एतद् दूषयति—नैतदेवमिति। सर्वप्राच्यादिसमा- ख्यातपुरुषव्यक्तिवर्तिनो तत्समाख्येयभ्यश्च व्यावृतस्य जात्यादेरदर्शनान्न तन्नि- मित्तेयं समाख्या किंतु देशसंयोगनिमित्तैवेत्यर्थः। ततः किंमत आह—दक्षिणा- द्देशादित्यादिना। देशसंयोगाभावेन तन्निमित्तसमाख्याभावेऽपि अनुष्ठानवत्स- त्यामपि समाख्यायामनुष्ठानमाह—अन्यदेशजश्चेति। तस्मान्न समाख्याधीना १. ब. इति त उद्वृषम। २. शिष्टाश्च पौर्णमास्याख्ये काले आह्लौनैबुकसंज्ञकान् स्वस्वकुलोचितान् देवविशेषेभ्यः क्षीरदध्यादिसमर्पणोदिकान् धर्मविशेषान् भानुवारादिकालविशेषे समाचरन्ति इति कालनिर्णये माधवः। ३. ब. उदीच्यश्चोद्वृषम। ४. ब. नियोगतः पदार्थान्। ५. ब. तस्मादन्यवस्था।