मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 553, कुल 804 में से
संदर्भ में पढ़ें२१ ] प्रथमाध्याये तृतीयपादः ४१९ न स्यात् = होगा नहीं, देशान्तरेषु = अन्य देश में, इति चेत् = यदि यह कहा जाय ॥ २० ॥ स्याद्योगाख्या हि माथुरवत् ॥२१॥ शा० भा०—देशसंयोगनिमित्तायामप्याख्यायां देशान्निर्गतस्य तदाख्या न विरुद्धा । यत एषा योगाख्या, योगमात्रापेक्षा, न भूतवर्तमानभविष्यत्सम्बन्धा- पेक्षा । यतो दृश्यते मथुरांमभिप्रस्थितो माथुर¹ इति मथुरायां वसन् मथुराया निर्गतश्च² । यस्य त्वतोऽन्यतमः³ सम्बन्धो नास्ति न स माथुरः। तस्मान्न समाख्यया व्यवस्था ॥ २१ ॥ आ० नि० । भा० वि०—परिहरति—इति, स्यादिति प्रतिज्ञां व्याचष्टे—यत इति । देशसंयोगविशेषव्यभिचारेऽपि तत्संयोगमात्रस्याव्यभिचारेण समाख्यानिमित्तत्व- संभवे प्राच्यत्वादिजातिकल्पना न युक्तेत्यर्थः, माथुरवदिति दृष्टान्तं व्याचष्टे— यतो दृश्यत इति । मथुरांमभिप्रस्थित इति तूदाहरणं यद्यपि दूतादिविषयं न च प्राग्देशमभिप्रस्थितो दूतः प्राच्यो होलाकाद्यधिकरोति तथाप्येवमपि प्रत्ययोप- पत्तिरित्यतावन्मात्रप्रदर्शनायोदाहृतम् । नन्वेवं देशसंयोगमात्रनिमित्ता समाख्या होलाकाद्यधिकारं विशिष्यात्तत्राह— यस्य त्विति । चिरनिर्गतपुरुषपुत्रादीनां देशसंयोगमात्रस्याप्यभावे समाख्यादर्शनात् न तन्निमित्ताप समाख्येत्यर्थः । समाख्यायां नियतनिमित्ताभावे फलितमाह— तस्मादिति । श्यामलत्वादिकर्तृविशेषणवाच्युपपदासम्भवेऽपि कर्माङ्गभूतदेशविशेषण- वाचिनः संभवात्तद्युक्ता श्रुतिरनुमेयेति शङ्कते इति ॥ २१ ॥ त० वा०—अभिधीयते— संबन्धैर्बहुभिर्देशमाख्या हि प्रवर्तते । निवासभवजातत्वतदागमनहेतुभिः ॥ ६७७ 'सोऽस्य निवासः' 'तत्र भवः,' 'तत्र जातः' 'तत आगतः' इत्येवमादिनिमित्त- परित्यागेन न कदाचित्प्राच्यादिसमाख्या वर्तते । न चैषा देशसंयोगं व्यभिचरति । न चैनामाचारोऽनुवर्तते, तन्निवासिनामपि केषांचिदनाचरणाच्चिरनिर्गतपुत्र- पौत्रादीनां च देशान्तरेष्वप्याचरणादिति न समाख्यया नियतविधिसिद्धिः । १. ब. माथुरः मथुरायां । २. ब. निर्गतः यस्य । ३. ब. त्वन्यतमः।