मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 560, कुल 804 में से
संदर्भ में पढ़ें५०६ मीमांसादर्शनम् [ सू० सिद्धिः । इदानीं शब्देषु न व्यवस्था स्यात् इति सूत्रावयवं व्याकुर्वन् पूर्वपक्ष- माह—सर्वेति—ब्रूम इति । गोगाव्यादयस्सर्व एवानादयः शब्दाः । न तु कश्चिदनादिः, इतरे अपभ्रं शा इति तेषु व्यवस्था संभवतीत्यर्थः । अत्र प्रमाणं पृच्छति—कुत इति । अर्थापत्ति प्रमाणमाह—प्रत्ययादिति । एतद्विवृणोति— प्रतीयत इति । प्रयोगप्रत्ययान्यथानुपपत्त्या गाव्यादीनामपि सास्नादिमतार्थेन सहाभिसम्बन्धो अनादिरवगम्यत इति भावः । ननु गाव्यादिशब्दानामशक्तिजत्वेनाभ्रंशत्वेऽपि सादृश्यात् स्वप्रकृतिभूत- गोशब्दोपस्थापनद्वारेणान्यथायुपपन्नमर्थप्रत्यायकत्वमत आह—तस्मादिति । अगृहीतगोशब्दानामपीदानीं गाव्यादिभ्योऽर्थप्रत्ययदर्शनादेषामेव पूर्वमप्यर्थेन सम्बन्ध आसीदिति निश्चीयत इत्यर्थः । अवध्यस्मरणादप्यनादिरेषां सम्बन्ध इत्याह—ततश्चेत्यादिना । सम्बन्धकर्तुः सम्बन्धग्रन्थे निराकृतत्वाच्चानादिरय- मित्याह—कर्ता चेति । अर्थसम्बन्धस्यानादित्वे फलितमाह—तस्मादिति । अस्तु सर्वेषां साधुत्वम्, ततः किमित्याशङ्क्य पूर्वपक्षप्रयोजनमाह—सर्वैरिति । यस्मात्सर्वे साधयन्त्यर्थम् तस्मात्सर्वैर्भाषितव्यमिति सम्बन्धः । ननु सर्वेषां दृष्टार्थप्रत्ययसाधनत्वाविशेषेऽप्यदृष्टार्थो गोशब्दप्रयोगनियमो भविष्यतीत्यत आह - अर्थयेति । अर्थप्रतिपत्तिप्रयोजनायेत्यर्थः । कुतो न धर्मा- येत्याशङ्क्य प्रयोगोत्पत्त्यशास्त्रत्वादिति सूत्रावयवं योजयति—न ह्येषाामिति । प्रयोगोपपत्तेर्गवादिशब्दोच्चारणनियमस्याशास्त्रत्वाच्छास्त्राविषयत्वादिति सूत्रार्थः । न च व्याकरणविषयतया शास्त्रविषयत्वमाशङ्कनीयं धर्मार्थस्य साधुप्रयोगनिय- मस्य, प्रयोगस्य वा साधुस्वरूपनियमस्य निष्प्रमाणकत्वेन तद्विषयव्याकरणस्यापि निर्मूलतया प्रामाण्यासम्भवेन साधव एव प्रयोक्तव्या इति प्रयोगनियमस्य गवादय एव साधव इति साधुस्वरूपनियमस्य चाशास्त्रीयत्वादिति भावः, नियमस्या- शास्त्रीयत्वे फलितमाह—तस्मादिति । एक एव साधुरितरेऽपभ्रं शा इति व्यव- स्थायां सत्यामप्ययमेवैक इति न नियन्तुं शक्यमिति सूचयितुं—क्वचिदित्य्यु- क्तम् ॥ २४ ॥ अथाष्टमं व्याकरणाधिकरणम् त० वा०—एकस्मात्पदात्प्रयोगानात्वदर्शनादनेकार्थप्रतिभाने सति विकल्प- दोषभयादनेकादृष्टशक्तिकल्पनाप्रसङ्गाच्च गौणमुख्यविभागमाश्रित्य व्यवस्थित- शास्त्रप्रयोगबलेनाव्यवस्थिते लौकिकप्रयोगबाधाद् यववराहादिशब्दानामर्थनिर्णयः प्रतिपादितः। एवं पुनरेकस्मिन् गवादावर्थे गोगाव्यादयो बहवः शब्दाः प्रयुज्यन्ते, तत्र वृद्धव्यवहारावगतप्रतिशब्दसमवायिवाचकशक्तिभेदोपपत्तेः शास्त्रस्थसर्वशब्द- प्रयोगाणां च लौकिकशब्दैरविरोधात् पदपूर्वकत्वाच्च वाक्यात्मकशास्त्रव्यापार- सिद्धेर्न पदगतसाधुसाधुत्वप्रतिपादने व्यापारो भवति, इतरेतराश्रयत्वप्रसङ्गात् ।