भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 559, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 559

२४ ] प्रथमाध्याये तृतीयपादः ५०५ आदि में कोई देश विशेष सम्बद्ध विधान श्रुति में नहीं है। अतः होलाक आदि देश विशेष में ही अनुष्ठेय नहीं है ॥२३॥ अथाऽष्टमं व्याकरणाधिकरणम् ॥ [८] प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात् ॥२४॥ पू० शा० भा०---गौर्गावी¹ गोणी गोपोतलिका इत्येवमादय. शब्दा उदाहरणम् । गोशब्दो² यथा सास्नादिमति³ प्रमाणम्, किं यथा गाव्यादयोऽपि उत नेति सन्देहः। किमत्रैकः शब्दोऽविच्छिन्नपारम्पर्योऽर्थाभिधायी,⁴ इतरेऽपभ्रंशाः, उत सर्वेऽनादय. । सर्व इति ब्रूमः। कुत. ? प्रत्ययात् । प्रतीयते हि गाव्यादिभ्यः सास्नादिमानर्थः । तस्मादितो वर्षशतेऽप्यस्यार्थस्य सम्बन्ध आसीदेव, ततः⁵ ततश्च⁶ परतरेणेत्य- नादिता । कर्ता चास्य सम्बन्धस्य नास्तीति व्यवस्थितमेव⁷। तस्मात्सर्वे साधवः, सर्वैर्भाषितव्यम् । सर्वे हि साधयन्त्यर्थम् । यथा⁸ हस्तः करः पाणिरिति । अर्थाय ह्येते उच्चार्यन्ते⁹, नादृष्टाय । न ह्येषामुच्चारणे शास्त्रमस्ति । तस्मान्न व्यवति- ष्ठेत कश्चिदेक एव साधुः । इतरेऽसाधव इति ॥ २४ ॥ इति पूर्वपक्षः ॥ भा० वि०-अत्र स्मृत्याचारयोः प्रामाण्ये सिद्धे तदन्तर्गताया व्याकरण- स्मृतेरपि सामान्यतः स्मृत्यधिकरणसिद्धमपि श्रुतिमूलतया प्रामाण्यं होलाकाधि- करणप्रङ्गेनैवानन्तर्याध्वसाधुशब्दनिष्ठैकगुणजात्यादिवाचकोपपद्युक्तश्रुत्यनुमाना- सम्भवेन निर्मूलतयाक्षिप्य समाधीयत इति सङ्गतिः विषयमधिकरणस्य दर्शयति- गौरित्यदिना । संशयमाह--किमत्रेति । गोगाव्यादिषु मध्य एक एव गोशब्दोऽ- विच्छिन्नपारम्पर्योऽर्थाभिधाने त्वनादिप्रयुक्तः, इतरे गाव्यादयो गवादिसाधुशब्दो- च्चिवारयिषायां तदसामर्थ्यजनिता उतानादय एव सर्व इत्यर्थः । एतदुक्तं भवति- यदि समूलतया व्याकरणस्य प्रामाण्यात् तदनुगतानामेव गोशब्दादीनना- मनादिवाचकत्वम्, तदा त एव साधवः । अथ निर्मूलतया व्याकरणस्याप्रा- माण्यात् तदनुगमविशेषाभावात् सर्व एव गोगाव्यादिशब्दा अनादयः तदा सर्व एवैते साधव इति सदसन्मूलत्वाभ्यां व्याकरणप्रामाण्याप्रामाण्यसन्देहादेव साध्व- साधुत्वसन्देहो युक्त इति । प्रयोजनं तु विचारस्य पुरुषार्थेषु लौकिकं व्यवहारेषु ऋत्वङ्गभूतेषु च व्रीह्यादिपदार्थविषयव्यवहारेषु साधुभिरेव भाषितव्यमितिनियम- १. गौरित्यस्य शब्दस्य गावी, गोणी, गोता, गोपोतलिकेत्येवमादयोऽपभ्रंशा महाभाष्ये पस्पशाह्निके निर्दिष्टाः १-१-१ । २. ब. यथा गोशब्दःसास्नादि । ३. ब. मतः प्रमाणं । ४. ब..र्थामिध.ने । ५. ब. ततश्च । ६. ब. ततःपर । ७. ब. जै० सू० १-१-५ इत्यत्र । ८. ब. एतन्नास्ति वाक्यम् । ९. न धर्माय ।