मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
२४ ] प्रथमाध्याये तृतीयपादः ५०५ आदि में कोई देश विशेष सम्बद्ध विधान श्रुति में नहीं है। अतः होलाक आदि देश विशेष में ही अनुष्ठेय नहीं है ॥२३॥ अथाऽष्टमं व्याकरणाधिकरणम् ॥ [८] प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात् ॥२४॥ पू० शा० भा०---गौर्गावी¹ गोणी गोपोतलिका इत्येवमादय. शब्दा उदाहरणम् । गोशब्दो² यथा सास्नादिमति³ प्रमाणम्, किं यथा गाव्यादयोऽपि उत नेति सन्देहः। किमत्रैकः शब्दोऽविच्छिन्नपारम्पर्योऽर्थाभिधायी,⁴ इतरेऽपभ्रंशाः, उत सर्वेऽनादय. । सर्व इति ब्रूमः। कुत. ? प्रत्ययात् । प्रतीयते हि गाव्यादिभ्यः सास्नादिमानर्थः । तस्मादितो वर्षशतेऽप्यस्यार्थस्य सम्बन्ध आसीदेव, ततः⁵ ततश्च⁶ परतरेणेत्य- नादिता । कर्ता चास्य सम्बन्धस्य नास्तीति व्यवस्थितमेव⁷। तस्मात्सर्वे साधवः, सर्वैर्भाषितव्यम् । सर्वे हि साधयन्त्यर्थम् । यथा⁸ हस्तः करः पाणिरिति । अर्थाय ह्येते उच्चार्यन्ते⁹, नादृष्टाय । न ह्येषामुच्चारणे शास्त्रमस्ति । तस्मान्न व्यवति- ष्ठेत कश्चिदेक एव साधुः । इतरेऽसाधव इति ॥ २४ ॥ इति पूर्वपक्षः ॥ भा० वि०-अत्र स्मृत्याचारयोः प्रामाण्ये सिद्धे तदन्तर्गताया व्याकरण- स्मृतेरपि सामान्यतः स्मृत्यधिकरणसिद्धमपि श्रुतिमूलतया प्रामाण्यं होलाकाधि- करणप्रङ्गेनैवानन्तर्याध्वसाधुशब्दनिष्ठैकगुणजात्यादिवाचकोपपद्युक्तश्रुत्यनुमाना- सम्भवेन निर्मूलतयाक्षिप्य समाधीयत इति सङ्गतिः विषयमधिकरणस्य दर्शयति- गौरित्यदिना । संशयमाह--किमत्रेति । गोगाव्यादिषु मध्य एक एव गोशब्दोऽ- विच्छिन्नपारम्पर्योऽर्थाभिधाने त्वनादिप्रयुक्तः, इतरे गाव्यादयो गवादिसाधुशब्दो- च्चिवारयिषायां तदसामर्थ्यजनिता उतानादय एव सर्व इत्यर्थः । एतदुक्तं भवति- यदि समूलतया व्याकरणस्य प्रामाण्यात् तदनुगतानामेव गोशब्दादीनना- मनादिवाचकत्वम्, तदा त एव साधवः । अथ निर्मूलतया व्याकरणस्याप्रा- माण्यात् तदनुगमविशेषाभावात् सर्व एव गोगाव्यादिशब्दा अनादयः तदा सर्व एवैते साधव इति सदसन्मूलत्वाभ्यां व्याकरणप्रामाण्याप्रामाण्यसन्देहादेव साध्व- साधुत्वसन्देहो युक्त इति । प्रयोजनं तु विचारस्य पुरुषार्थेषु लौकिकं व्यवहारेषु ऋत्वङ्गभूतेषु च व्रीह्यादिपदार्थविषयव्यवहारेषु साधुभिरेव भाषितव्यमितिनियम- १. गौरित्यस्य शब्दस्य गावी, गोणी, गोता, गोपोतलिकेत्येवमादयोऽपभ्रंशा महाभाष्ये पस्पशाह्निके निर्दिष्टाः १-१-१ । २. ब. यथा गोशब्दःसास्नादि । ३. ब. मतः प्रमाणं । ४. ब..र्थामिध.ने । ५. ब. ततश्च । ६. ब. ततःपर । ७. ब. जै० सू० १-१-५ इत्यत्र । ८. ब. एतन्नास्ति वाक्यम् । ९. न धर्माय ।
५०६ मीमांसादर्शनम् [ सू० सिद्धिः । इदानीं शब्देषु न व्यवस्था स्यात् इति सूत्रावयवं व्याकुर्वन् पूर्वपक्ष- माह—सर्वेति—ब्रूम इति । गोगाव्यादयस्सर्व एवानादयः शब्दाः । न तु कश्चिदनादिः, इतरे अपभ्रं शा इति तेषु व्यवस्था संभवतीत्यर्थः । अत्र प्रमाणं पृच्छति—कुत इति । अर्थापत्ति प्रमाणमाह—प्रत्ययादिति । एतद्विवृणोति— प्रतीयत इति । प्रयोगप्रत्ययान्यथानुपपत्त्या गाव्यादीनामपि सास्नादिमतार्थेन सहाभिसम्बन्धो अनादिरवगम्यत इति भावः । ननु गाव्यादिशब्दानामशक्तिजत्वेनाभ्रंशत्वेऽपि सादृश्यात् स्वप्रकृतिभूत- गोशब्दोपस्थापनद्वारेणान्यथायुपपन्नमर्थप्रत्यायकत्वमत आह—तस्मादिति । अगृहीतगोशब्दानामपीदानीं गाव्यादिभ्योऽर्थप्रत्ययदर्शनादेषामेव पूर्वमप्यर्थेन सम्बन्ध आसीदिति निश्चीयत इत्यर्थः । अवध्यस्मरणादप्यनादिरेषां सम्बन्ध इत्याह—ततश्चेत्यादिना । सम्बन्धकर्तुः सम्बन्धग्रन्थे निराकृतत्वाच्चानादिरय- मित्याह—कर्ता चेति । अर्थसम्बन्धस्यानादित्वे फलितमाह—तस्मादिति । अस्तु सर्वेषां साधुत्वम्, ततः किमित्याशङ्क्य पूर्वपक्षप्रयोजनमाह—सर्वैरिति । यस्मात्सर्वे साधयन्त्यर्थम् तस्मात्सर्वैर्भाषितव्यमिति सम्बन्धः । ननु सर्वेषां दृष्टार्थप्रत्ययसाधनत्वाविशेषेऽप्यदृष्टार्थो गोशब्दप्रयोगनियमो भविष्यतीत्यत आह - अर्थयेति । अर्थप्रतिपत्तिप्रयोजनायेत्यर्थः । कुतो न धर्मा- येत्याशङ्क्य प्रयोगोत्पत्त्यशास्त्रत्वादिति सूत्रावयवं योजयति—न ह्येषाामिति । प्रयोगोपपत्तेर्गवादिशब्दोच्चारणनियमस्याशास्त्रत्वाच्छास्त्राविषयत्वादिति सूत्रार्थः । न च व्याकरणविषयतया शास्त्रविषयत्वमाशङ्कनीयं धर्मार्थस्य साधुप्रयोगनिय- मस्य, प्रयोगस्य वा साधुस्वरूपनियमस्य निष्प्रमाणकत्वेन तद्विषयव्याकरणस्यापि निर्मूलतया प्रामाण्यासम्भवेन साधव एव प्रयोक्तव्या इति प्रयोगनियमस्य गवादय एव साधव इति साधुस्वरूपनियमस्य चाशास्त्रीयत्वादिति भावः, नियमस्या- शास्त्रीयत्वे फलितमाह—तस्मादिति । एक एव साधुरितरेऽपभ्रं शा इति व्यव- स्थायां सत्यामप्ययमेवैक इति न नियन्तुं शक्यमिति सूचयितुं—क्वचिदित्य्यु- क्तम् ॥ २४ ॥ अथाष्टमं व्याकरणाधिकरणम् त० वा०—एकस्मात्पदात्प्रयोगानात्वदर्शनादनेकार्थप्रतिभाने सति विकल्प- दोषभयादनेकादृष्टशक्तिकल्पनाप्रसङ्गाच्च गौणमुख्यविभागमाश्रित्य व्यवस्थित- शास्त्रप्रयोगबलेनाव्यवस्थिते लौकिकप्रयोगबाधाद् यववराहादिशब्दानामर्थनिर्णयः प्रतिपादितः। एवं पुनरेकस्मिन् गवादावर्थे गोगाव्यादयो बहवः शब्दाः प्रयुज्यन्ते, तत्र वृद्धव्यवहारावगतप्रतिशब्दसमवायिवाचकशक्तिभेदोपपत्तेः शास्त्रस्थसर्वशब्द- प्रयोगाणां च लौकिकशब्दैरविरोधात् पदपूर्वकत्वाच्च वाक्यात्मकशास्त्रव्यापार- सिद्धेर्न पदगतसाधुसाधुत्वप्रतिपादने व्यापारो भवति, इतरेतराश्रयत्वप्रसङ्गात् ।
२४ ] प्रथमाध्याये तृतीयपादः ५०७ तथा हि—लोकप्रसिद्धशब्दार्थवशं शास्त्रं प्रवर्तते । अतो न लौकिकेष्वस्मात्साध्वसाधुत्वनिर्णयः ॥ ६८३ वाक्यार्थेषु हि श्रुतिस्मृत्याचारविरोधदर्शनाद्वलाबलामानुपूर्व्येणावधृतम् इह न तु, विपरीतक्रमत्वात् । लोकादेवाधिगन्तव्या शब्दानां साध्वसाधुता । वाचकावाचकत्वेन सा च नित्यं व्यवस्थिता ॥ ६८४ ध्वनिमात्राप्रसाधूनि वर्णा वा केवलात्मनाम् । संघातॊऽर्थानपेक्षो वा मातृकाद्युपदेशवत् ॥ ६८५ तेन भेरीशङ्खादिशब्दा गकारकादयः प्रत्येकम्, तद्वर्गा वाऽनर्थकत्वादपशब्दा इति लोकव्यवहारादेवार्थं न साधयन्तीत्यसाधवो गम्यन्ते । गाव्यादयः पुनर्ग- वादिवदेव साधयन्त्यर्थम्, तेभ्योऽपि वा शीघ्रतरं प्रसिद्धतरत्वादर्थप्रतीतिमुत्पाद- यन्तीति, सत्यप्येकविषयानेकशब्दत्वे हस्तकरपाण्यादिशब्दवदर्थसाधनत्वात्साधुत्वे- नावधार्यन्ते । ततश्चावाचकत्वेन यद्यसाधुत्वमुच्यते । तस्य लोकविरुद्धत्वान्न ग्राह्यत्वं प्रतीयते ॥ ६८६ अदृष्टविषया चेत्स्यादेतेषां साध्वसाधुता । वेदवाक्यैरनिर्दिष्टा न साऽस्त्यन्यप्रमाणिका ॥ ६८७ प्रत्यक्षेण तावदुभयत्राप्यविशेषेण वर्णाः शुद्धाः प्रतीयन्ते । न तद्गते, तत्स- मुदायगते वा साधुत्वासाधुत्वे । न वाऽनुभूतसम्बन्धादनुमीयेते । तन्निराकर- णाच्च तत्पूर्वकपुरुषवचननिराक्रियाऽपि सिद्धा । वेदवचनं पुनर्वस्तुस्वरूप-तद्गत- गुणदोषान्वाख्यानपरं विधिप्रतिषेधानपेक्षं नैव किंचित्प्रमाणत्वेन संभवति । साधुत्वासाधुत्वयोरनुष्ठानात्मकत्वाद्विधिप्रतिषेधविषयत्वम् । अभिधानकरणभूत- योर्विधेयत्वसंभव इति चेत् ? न । प्रतिशब्दमनन्तविधिप्रतिषेधवाक्यानुमानकल्पनानुपपत्तेः । यो हि प्रतिपदं पाठं साधूनां नाध्यवस्यति । विधिवाक्यानि तावन्ति स कथं प्रतिपत्स्यते ॥ ६८८ अपशब्दाश्च शब्देभ्यो भूयस्त्वेन व्यवस्थिताः । न कलञ्जादिवत्तेषां प्रतिषेध्यत्वसंभवः ॥ ६८९ व्रीह्यादीनि हि कलञ्जादीनि च नियतजातिगुणादिरूपेण परिज्ञायमानप- रिमाणत्वाद्विधिप्रतिषेधगोचरीभवन्ति१ न तु गवादिगाव्यादीनां जातिरूपेण, व्यक्तिरूपेण वा विधिप्रतिषेधावुपपद्येते । १. पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः । वा० रा० कि० का० सर्गं १७ । श्लो० ३७ । अभिधाभावनेति मु० पु० पा०
५०८ मीमांसादर्शनम् [ सू० न तावत्साध्वसाधुत्वे जातिगुणाद्यात्मकसामान्यरूपेण सर्वव्यक्त्यनुगते विज्ञा- येते, यदालम्बनो द्वावेव विधिप्रतिषेधावनुमीयेयातां-साधुभिर्भाषित, नासाधु- भिरिति । अविभक्ता हि शब्दत्वजातिः शब्दापशब्दयोः । न त्ववान्तरसामान्ये केचिद्गर्गद्वयस्थिते ॥ ६९० तेन यद्येकैका व्यक्तिर्विधीयेत, प्रतिषेध्येत वा ततो यावत्पदं वाक्यान्य- नुभिमानस्त्रैलोक्यपूरणादप्यधिकानि स्मृतिमूलभूतानि वेदवाक्यान्यनुमिमीते । न च तावतां कोटिशतभागोऽप्याम्नातुं शक्यते । न चानाम्नातस्य स्मृतिमूलत्वम् । नित्यानुमेयश्रुतिमूलप्रतिषेधात् । न च वाचकत्वावाचकत्वनिबन्धनौ विधिप्रतिषेधौ संभवत-सर्वेषां वाच- कत्वात् । वाचकैर्भाषितव्यं हि प्राप्तत्वान्न विधीयते । अवाचकनिषेधश्च नाऽप्राप्तेरवकल्पते ॥ ६९१ न ह्युदकं पिबेदग्निं न पिवेदिति च विधिप्रतिषेधौ संभवतः । अवश्यं च व्याकरणस्मृतिमूलभूतसाधुविधिश्रुतिः असाधुप्रतिषेधश्रुतिः उभयं वा संयोग- पृथक्त्वात् कल्पनीयम् । त्रिष्वपि च पक्षेषु साध्वनुशासनमात्रमेव सौकर्यादाश्रितम् । यदि ह्यपशब्दप्रतिषेधमूलं व्याकरणम्, ततस्तेषां बहुत्वादव्यवस्थितरूपत्वाच्च न स्वरूपमवगन्तुं शक्यत इति 'पञ्च पञ्चनखा भक्ष्या' इति स्मृतिन्यायेनानुगतविपरीत- भाषणप्रतिषेधोऽर्थापत्तिसिद्धः स्मर्यते । साधुविधिपक्षे तु त एव स्मर्त्तव्या । उभय- पक्षे तु तदनुगमादेवेतरसिद्धेः प्रतिषेधविषयज्ञानोपपत्तिः । स एष व्याकरणस्य न पक्षत्रयेऽप्येकानुगमनिवन्धनत्वात्कथंचित्संक्षेपोऽवकल्पते । ननु प्रतिशब्दं विधि- प्रतिषेधावकॢप्तिः, अनन्तवाक्यपाठासंभवात् । इष्टासंभवदर्शनार्थमेव होलाकाधि- करणेऽभिहितम् । न तस्याऽऽकृतिवचनता न्याय्या, न व्यक्तिवचनतेति । तस्माद- संभवन्मूलत्वादपस्मृतिः । अथ प्राप्तश्च योऽर्थः स्यान्न स शास्त्रस्य गोचरः । सिद्धः शब्दप्रयोगश्च लोकादेवार्थलक्षणः ॥ ६९२ कात्यायनवार्तिकावलम्बनेन शङ्का अथार्थलक्षणत्वेऽपि शास्त्रेण धर्माय प्रयोगनियममात्रप्रायोगोत्पत्तिशास्त्रत्वं स्यादिति । तदनुपपन्नम् । नियमा१विषयासंभवात् । यस्य ह्यनियता प्राप्तिस्तच्छास्त्रेण नियम्यते । नित्यप्राप्तप्रयोगस्तु न शब्दो नियमास्पदम् ॥ ६९३ १. क. (टिप्पण्यां) प्रयोगनियमेति पाठः ।
२४ ] प्रथमाध्याये तृतीयपादः ५०९ यस्याप्यत्यन्तमप्राप्तिस्ततोऽन्यो न नियम्यते । तव चात्यन्तमप्राप्तिर्गव्यादेः प्राप्तता मम ॥ ६९४ तेन पक्षद्वयेऽपि नियमानुपपत्तिः । कीदृशश्चात्र नियमः कल्प्येत - किं साधुभिरेव भाषितव्यम्, उत साधुभि- र्भाषितव्यमेवेति । यदि साधुभिरेवेति नासाधोरप्रसङ्गतः । नियतं भाषितव्यं चेन्मौने दोषः प्रसज्यते ॥ ६९५ यदि ह्येकार्थाः साध्वसाधवो विकल्पेन प्राप्नुयुः ततः साधुनियमावकाशः स्यात् । तन्मते तु पुनः-- अत्यन्तावाचकत्वात्तु नैवासाधुः प्रसज्यते । यन्नि१वृत्तिफलः साधोनियमोऽत्रार्थवान्भवेत् ॥ ६९६ अथ प्रमादाशक्ति२कृतप्रसङ्गनिवृत्तिनियमं प्रयुञ्जीत । तदसत् । न हि शास्त्रशतेनापि प्रमादाशक्तिकारितात् । निवर्त्यन्ते प्रयोक्तारः प्रयोगादिति दृश्यते ॥ ६९७ दृष्टोऽप्यशब्दानामर्थाभिधाने प्रयोग इति चेत् ? उच्यते - अन्योऽप्यक्षिनिकोचादेः प्रयोगोऽर्थेषु दृश्यते । तन्निवृत्तिफलः कश्चिन्नियमो न च दृश्यते ॥ ६९८ न च नियमानां प्रतिपक्षनिवृत्तिः प्रयोजनम् । परिसंख्याप्रयोजनत्वात् । न चायं परिसंख्याविषयो युज्यते । युगपत्प्राप्त्यभावात् । न वा दृष्टार्थतैवास्य प्रयोगस्योपपद्यते । न हि दृष्टनिराकाङ्क्षाददृष्टमपि गम्यते ॥ ६९९ न हि तादृशेष्वदृष्टकल्पनायामर्थापत्तिः प्रभवति । परार्थत्वाच्च फलश्रुतेरर्थ- वादत्वम् । न चासति फले शक्यमपूर्वं कल्पयितुम् । नियमापूर्वस्य निरासः न चेदं नियमापूर्वमाश्रितं भवेति गम्यते । शब्दार्थश्रोतृतद्बुद्धिवक्तृच्चारणगोचरे ॥ ७०० शब्दस्य तावदत्यन्तपरार्थदृष्टार्थत्वान्नापूर्वेण कश्चिदुपकारः । सत्यपि चाभि- धानकर्मत्वेनार्थस्य प्राधान्ये, दृष्टार्थेषु लोकव्यवहारेषु विनाऽप्यपूर्वेणाङ्गभावाद- पूर्वोपकारानुपयोगः । श्रोतुः पुर्ननियमविधिसंस्पर्शानन्तर्गतत्वादेवासंस्कार्यत्वम् । बुद्धयोश्च क्षणिकत्वान्न कालान्तरावस्थाय्यपूर्वाधारत्वोपपत्तिः । १. क. यस्मिन्वृत्तिफलः । २. शक्तिभूत ।
सूत्र-वार्त्तिक-भाष्यकाराणां प्रयोजनविगानेनाप्रामाण्यम्
५१० मीमांसादर्शनम् [ सू० वक्ता तु१ भाषणे सर्वो गुणभूतो विधीयते । न तस्य नियमापूर्वसंस्कार्यत्वनिरूपणम् ॥ ७०१ न प्रधानपदं चात्र विद्यते स्वर्गकामवत् । न च षष्ठ्युक्तसम्बन्धात्स्वामित्वेन प्रधानतः२ ॥ ७०२ यत्तु दिङ्नियमापूर्वं भोजनादिषु कल्पितम् । पुरुषार्थक्रियाद्वारं तदर्थं तत्प्रतीयते ॥ ७०३ न चेहोच्चारणमुच्चारयित्रर्थम्, येन भोजनादिसमत्वं प्रतिद्येत । स्वरूपेण पुनर्भङ्गित्वाद् बुद्धिवदेवासंस्कार्यम् । एवं चावेदमूलत्वान्न धर्मनियमार्थता । युक्ता शब्दस्मृतेर्वक्तुं न चास्याः शाखता स्वयम् ॥ ७०४ तदुक्तं 'प्रयोगशास्त्रमिति चेन्नासन्नियमात्' इति । वेदवत् स्वातन्त्र्येण प्रामाण्यनिरासः नहि व्याकरणादीनां वेदत्वेन स्वतन्त्रता । पुरुषाधीनवृत्तेश्च सापेक्षस्याप्रमाणता ॥ ७०५ सर्वत्र हि 'पौरुषेयाद्वचनादेवमयं पुरुषो वेदेति प्रत्ययः' तेन कर्त्रभिप्रायप्रका- शनमात्रोपयुक्तत्वाद्द्व्याकरणेनैव शब्दगतसाध्वसाधुविभागः प्रतीयते । न च स्मृत्यन्तरं किंचिद् दृष्टं तत्कार्यगोचरम् । दृढं श्रुत्यनुमानं स्याद्येनोपनयनादिवत् ॥ ७०६ व्याकरणस्मृतेः धर्मशास्त्रैस्तुल्यत्वम् प्रायेण मनु-गौतम-वसिष्ठादिप्रणीताः समानेष्वर्थेषु धर्मसंहिता वर्तन्ते । तेनाविगानात्ताभ्य एव श्रुतयः स्वनुमानाः । न च व्याकरणस्य ताभिः समा- नार्थत्वम् । सूत्र-वार्त्तिक-भाष्यकाराणां प्रयोजनविगानेनाप्रामाण्यम् परस्परेण चाऽऽचार्या विगीतवचनाः स्थिताः । सूत्रवार्तिकभाष्येषु किं तत्राध्यवसीयताम् ॥ ७०७ न तावत्सूत्रकारेण किंचिदुक्तं प्रयोजनम् । कथं चैतावति ग्रन्थे स्यात्प्रयोजनविस्मृतिः ॥ ७०८ येष्वपि तद्ग्रन्थेषु विस्रष्टान्यादित एवाऽऽरभ्य प्रयोजनानि ज्ञायन्ते । न चैषां श्रवण-ग्रहण-धारणेपु महान्खेदस्तेष्वपि जिज्ञासूत्साहार्थं पूर्वं प्रयोजनान्येव १. क. कुभाषणे । २. क. प्रधानता ।
२४ ] प्रथमाध्याये तृतीयपादः ५११ निबध्यन्ते 'धर्मं व्याख्यास्यामः (वे. द. १ १-१'), यज्ञं व्याख्यास्यामः (आप० परि० सू. १-१) इत्येवमादिभिः । इह पुनरत्यन्तकष्टं व्याकरणं प्रणयता सूत्रकारेण धर्मार्थकाममोक्षाणां न कस्यचित्प्रयोजनत्वमाश्रितम् । न च सर्वप्रधाने वस्तुन्य- नादरो युक्तः । सुज्ञातत्वं पुनरीदृशम्, येनाद्यापि विवदन्ते । धर्मश्च फलसंबद्धं कर्म यागादि वर्ण्यते । न च व्याकरणे किंचित्तादृक्कर्मोपदिश्यते ॥ ७०९ धर्मत्वं यच्च विज्ञान-शास्त्रपूर्वप्रयोगयोः । यथेष्टं वर्णितं तच्च न शास्त्रसदृशं मतम् ॥ ७१० शास्त्रार्थो हि निरूपितरूपो भवति । इह च ज्ञानधर्मत्वमुपन्यस्य, अधर्मप्रस- ङ्गभीतेन शास्त्रपूर्वप्रयोगेऽभ्युदय इति वार्तिककारेणोक्तम् । भाष्यकार आह— अथ वा पुनरस्तु ज्ञाने धर्मः (पस्पशाह्निक. १-१-१) इति । न चैवमनियमेन धर्मत्वावधारणं युक्तम् १ । संबद्धयोश्च धर्मत्वं यदेकस्यावधार्यते । तदेतरत्तदर्थत्वान्न धर्मत्वेन गम्यते ॥ ७११ ज्ञानप्रयोगयोरन्योन्यतरस्यानुनिष्पादितत्वेन उपसंहारः तदिह यदि तावज्ज्ञानमेव धर्मत्वेनावधारितम्, ततो लोकप्रसिद्धस्यैव प्रयोगस्य ज्ञानात्तु निष्पादितत्वेन सत्यामप्युपकारनिवृत्तौ वाजिनादिवत्प्रयोजकत्वाभावः । शास्त्रपूर्वकप्रयोगपक्षे तु ज्ञानस्य तदङ्गत्वेन निराकाङ्क्षभूतत्वात् । असत्यां प्रयो- जनान्तराकाङ्क्षायां यद्यपि कांचित्फले श्रुतिर्भवेत् साऽपि 'द्रव्यसंस्कारकर्म' २ ४-३-१ इत्यनेन न्यायेनऽर्थवादतया ज्ञायते । न हि समानाध्वनोः परस्मिन्फलवति ज्ञाते पूर्वस्यापि फलवत्ता ज्ञायत इति वर्णितमेतत् "योऽश्वमेधेन यजते य उ चैनमेवं वेद" इति । किं च—आदिमत्त्वाच्च धर्मत्वं नैव ज्ञातप्रयोगयोः । न हि व्याकरणापेक्षा वर्तते वैदिकी श्रुतिः ॥ ७१२ यन्नाम ज्ञानं नित्येन वेदेनैव क्रियते, तत्र तत्पूर्वकप्रयोगविधानं फलायोप- पद्यते । व्याकरणज्ञानं तु पौरुषेयम्, ग्रन्थाधीनत्वान्मन्त्रार्थवादगतानित्यसंयोगपरि- हारन्यायेनानादिवेदविषयत्वेन नावधार्यते । व्यवहारनित्यतया कण्ठस्थनित्यतया वेदस्य नित्यत्वनिरासः न च व्याकरणं नित्यं कथंचिदवगम्यते । कर्तृस्मृतिद्रढिम्ना हि नित्यपक्षनिराक्रिया ॥ ७१३ १. क. उक्तम् । २. क. कर्मस्वित्यनेन ।
५१२ मीमांसादर्शनम् [ सू० अथापि व्यवहारनित्यतान्यायेन पौरुषेयव्याकरणपरम्पराऽनादिः कल्प्येत, तथाऽपि ‘उक्तं तु शब्दपूर्वत्वम्’ (१-१-२९) इत्यस्य न्यायस्य स्थितत्वात्। अनेक- पुरुषकृतमपि सव्याकरणं वेदालम्बनत्वं न प्रतिपद्यते । न च व्याकरणत्वाख्या जातिः काचिद्व्यवस्थिता । अनित्ये वाक्यसंघाते सा जातिः क्वाऽवतिष्ठताम् ॥ ७१४ पातञ्जलभाष्यानुसारेणाशङ्का-निरासौ अथ ‘लक्ष्यलक्षणे व्याकरणम्’ (प. आ.) इति सत्यपि लक्षणांशकृत्रिमत्वे लक्ष्यांशेन नित्येन विधिरुपपत्स्यत इति । तदनुपपन्नम् । कुतः— अत्यन्तभिन्नरूपत्वाल्लक्ष्याणां लक्षणादिना । नैकमालम्बनं किंचिद्विधेरस्तीत्युदाहृतम् ॥ ७१५ ननु वेद¹ एव व्याकरणनित्यत्वं दृश्यते । यथाऽऽह—‘तस्मादेषा व्याकृता वागुद्यत’ (तै. सं. ६.४.७) इति । नैतदस्ति । व्याकृता सम्प्रदायेन वाणी नित्यैव वैदिकी । अनूदितोच्यमानेयं कर्मस्वाध्यायकालयोः ॥ ७१६ अव्याकृताया हि लौकिक्या वाचः शिष्याचार्यसम्बन्धेन स्वरवर्णमात्रा- क्रमैरविप्लुत रूपैर्निरूपिताकारैरेव वैदिकी व्याकृतेत्युच्यते। तस्माच्च मन्त्रब्राह्मणा- त्मिकायाः कर्मसु, ज्ञाने, प्रयोगे च धर्मोऽस्त्येव । यदपि च एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवति (म. भा. ६.१.८४) इति । तदपि स्वाध्यायप्रशंसाशेषभूतमेव । “अहरहः स्वाध्यायमधीयीत” इत्यत्र ‘अप्येकामृचम्, यजुः, साम वा’ इत्येतदवश्यकर्तव्यतानियमार्थमुक्तम् । योऽपि मन्त्रं समस्तं हि न धीयीताप्यशक्तितः । तस्य शास्त्रान्वितः शब्द एकोऽपि स्वर्गकामधुक् ॥ ७१७ शास्त्रान्वित इति च यथास्वाध्यायमनुगत इत्यर्थः । सम्यक्प्रयुक्त इति चोपनयनोपसदनगुरुशुश्रूषादर्भपवित्रपाणित्वादीतिकर्तव्यतोपपन्नतवाश्रयेणोक्तम् । यदपि च “तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै², म्लेच्छो ह वा एष यदपशब्दः” इति, तत्संप्रदायागतवैदिकशब्दविनाशप्रतिषेधार्थमेव । वैदिकाच्चा- पेतत्वाल्लौकिकस्यापशब्दत्वं संभवति । १. क. वेदे । २. क. “नापभाषितवा” इति ।
२४ ] प्रथमाध्याये तृतीयपादः ५१३ सुज्ञानं च। न लौकिकादप्येतोऽपशब्दो नाम कश्चिदस्ति । गव्यादीनामपि शब्दानां श्रोत्रग्राह्यत्वेन शब्दशब्दवाच्यत्व-शब्दबुद्धिग्राह्यत्वशब्दत्वानुगम- दर्शनात् । अथाप्यवश्यं लौकिकादप्येतोऽपशब्द आश्रयणीयः । अथाऽपि “न म्लेच्छभाषां शिक्षेत” इत्येवमादिस्मृत्यनुसरणेन हिमवद्विन्ध्यान्तराल- कृष्णमृगसंचारणाद्युपलक्षितधर्माधिकृतार्यावर्तनिवासिव्यतिरिक्तबर्बरादिभाषागतस्य म्लेच्छितत्वसमानाधिकरणापशब्दत्वज्ञानात्तेन भाषणं प्रतिषिध्यते । युक्तं च तस्याशेषतदीयाचरणवत्परिहरणीयत्वम्, न त्वार्यावर्तनिवासिप्रयुक्तेषु गव्यादिषु म्लेच्छतिधात्वर्थानुगमः कश्चित् । येन तदनाचारितत्वेनापवृत्तवदपशब्दत्वं निरूप्यते । यदपि च "आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत्” इति तदप्यनूत्वादवैदिकशब्दविनाशम्लेच्छभाषाप्रयोगाश्रयमेव वेदितव्यम्, न तु व्याकरणानुगतव्यतिरिक्तशब्दप्रयोगविषयम् । तथा हि— कथं नामेदृशात्कार्यात्सर्व एवाऽऽहिताग्नयः । प्रवर्तेरन्कथं१ चान्यैर्न निन्द्येरन्नशिष्टवत् ॥ ७१८ प्रायेण हि शिष्टानां धर्माचारप्रणितचेतसां कश्चिदेव प्रमादादल्पोऽनाचारो भवति । गव्यादिशब्दप्रयोगेषु पुनर्न केषांचिदप्यनाचारबुद्धिः । न च कलञ्जा- दिभक्षणवद्विचिकित्सा,२ गर्हा वा दृश्यते न चाऽऽहिताग्निसहस्रेऽप्येकस्त्वदभि- मतसाधुशब्दैरेव व्यवहरमाणो दृश्यते । कल्पसूत्रकारादीनामपशब्दप्रयोगवर्णनम् कल्पसूत्रस्मृतिग्रन्थमीमांसागृह्यकारिणः । शिष्टा दृष्टाः प्रयुञ्जाना अपशब्दाननेकंशः ॥ ७१९ 'समानमितरच्छद्येनेन' इत्यादितकारान्तप्रथमान्तनपुंसकप्रयोगेषु मशकेन तत्र तत्र प्रयुक्तम्, 'समानमितरं ज्योतिष्टोमेन' 'समानमितरं गवा ऐकाहिकेन' इति सूत्रकारेणाप्यभिहितम् । “अहीने बहिष्पवमानैः सदसि स्तुवीरन्” इति कर्त्रभिप्रायक्रियाफलवर्जितेऽप्यृत्विक्कर्तृके स्तवने 'यजन्ति याजका' इतिवत्परस्मैपदे प्रयोक्तव्ये व्याकरणमनपेक्ष्याऽऽत्मनेपदं प्रयुक्तम् । तथाऽऽश्वलायनेन “प्रत्यसित्वा प्रायश्चित्तं जुहुयुः” इति समासेऽपि ल्यप्न प्रयुक्तः । आज्येनाक्षिणी आज्य इत्यसमासेऽपि प्रयुक्तः । १. क. प्रवर्त्येरन् । २. क. मक्षणवच्चिकित्सा । ३३
५१४ मीमांसादर्शनम् [ सू० तथा शिक्षायां नारदेन “प्रत्युषे ब्रह्म चिन्तयेत्" इति गाव्यादिशब्दतुल्य एव प्रयुक्तः । तथा मनुनाऽपि “ज्ञातारः सन्ति मेत्युक्त्वा" इत्यत्र सन्ति म इत्युक्तेति वक्तव्ये व्याकरणमनपेक्ष्यैव संहिता कृता । तथा मीमांसायामपि 'गव्यस्य च तदादिषु' इति गोविकारावयवविषयसाधु- प्रयोगयोग्यः शब्दोऽन्यत्रैव गवामयने प्रयुक्तः । तथा 'द्यावोस्तथेति चेत्' इति द्यावापृथिव्योरिति वक्तव्ये लक्षणहीनमेव बहु प्रयुक्तम् । तथा गृह्यकारेण मूर्धन्यभिघ्राणमिति वक्तव्ये मूर्धन्यभिजिघ्राणमित्यविषये जिघ्रादेशः प्रयुक्तः । कार्त्स्न्येऽपि व्याकरणस्य१ निरुक्ते हीनलक्षणाः प्रयोगा बहवो यद्वद् ब्राह्मणो ब्रवणादिति । संवत्सरं शाशयाना२ इत्येतन्मन्त्रगतमण्डूकविषय- ब्राह्मणशब्दनिर्वचने क्रियमाणे वचनशीलत्वनिमित्तां दर्शयता । ब्रुवो वचिरिति वच्यादेशमकृत्वैव ब्रवणादिति प्रयुक्तम् । इतिहासपुराणयोः अपशब्दप्रदर्शनम् अन्तो नास्त्यपशब्दानामितिहासपुराणयोः । तथोभाभ्यादिरूपाणां३ हस्तिशिक्षाधिकारिणाम् ॥ ७२० युगपदुभाभ्यां दन्ताभ्यां यः प्रहारः स उभाभ्य इति सर्वैः पालकार्यराजपुत्रा- दिभिर्व्याकरणानपेक्षमेव प्रयुक्तम् । वेदेऽपि अपशब्दप्रयोगदर्शनम् वेदेष्वपि प्रयोगास्ते भूयांसोऽध्येतृसंमताः । सामान्यं छान्दसं वाऽपि येषां नास्त्येव लक्षणम् ॥ ७२१ न हि ते सुप्तिङुपग्रहादिव्यत्ययेन ‘नापि कतिपयाधिकारदृष्टेन बहुलं छन्दसि' इत्यनेन सिध्यन्ति । तद्यथा ‘मध्यं आपस्य तिष्ठति नीचीन वारं वरुणः कबन्धम्' इति । न ह्यपामित्यस्य नित्यस्त्रीलिङ्गबहुवचनविषयव्यञ्जनान्तप्रातिपदिकपर- षष्ठ्यन्ताख्यानादापस्येत्येतद्रूपं लक्षणानुगतं दृश्यते । नापि द्वारशब्दस्य स्थाने लाटभाषातोऽन्यत्र वारशब्दः संभवति । तेनानारभ्य एवायम्, विषय- व्याप्त्यसंभवात् । शब्दानुगमरूपोऽर्थो यत्र व्याकरणं कृतम् । येऽपि व्याकरणस्यैव परे पारे प्रतिष्ठिताः ॥ ७२२ १ क. व्याकरणस्यापि । २ क. संवत्सरंशयाना । ३ क. तथोमाभ्यो द्विरूपाणां ।
सूत्र-वार्तिक-भाष्येषु दृश्यते चापशब्दनम् ॥ ७२३
२४ ] प्रथमाध्याये तृतीयपादः ५१५ व्याकरणसूत्र-वार्तिक-भाष्येषु अपशब्दवर्णनम् सुतरां तेऽपि गाव्यादितुल्यानेव प्रयुञ्जते । सूत्र-वार्तिक-भाष्येषु दृश्यते चापशब्दनम् ॥ ७२३ अश्वारूढाः कथं चाश्वान्विस्मरेयुः सचेतनाः । सूत्रे तावत् 'जनिकर्तुः प्रकृतिः' (पा० सू० १।४।३०) इत्यत्र हि द्वावपशब्दौ जनिशब्देन हि इक्शितपौ धातुनिर्देश इत्यनेन लक्षणेनान्वितो धातुरेव निर्दिश्यते । न च तस्य कर्तुः प्रकृतेरपादानसंज्ञेष्यते । जायमानस्य पुनरर्थस्य जनिशब्दो वाचक तया नैव लक्षणेनानुगतः । तेनायं दरिद्र इवाश्वशब्दो जनिमात्रवाचित्वा- त्तदर्थं प्रत्यसाधुरेव विज्ञायते । तथा 'तृजकाभ्यां कर्तरि' (पा० सू० २।२।१५) इति प्रतिषिद्धषष्ठीसमासप्रयोगाद् व्याकरणफलपरित्यागः । एवं 'तत्प्रयोजक.' (पा० सू० १।४।५५) इति प्रतिषिद्ध एव समासः । तथा वार्तिकेऽपि 'दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम्' इति । तथा 'आन्यभाव्यं तु कालशब्दव्यवायात्' इति । अत्र क्लेशेन समासं कल्पयित्वा, ततः समाससंज्ञा गुणवचनसंज्ञायां बाधितायां 'गुणवचनब्राह्मणादिभ्यः (पा० सू० ५।१।१२४) इति लक्षणेनासंसृष्ट एव ष्यञ्प्रयुक्तः । भाष्येऽप्यविरविक्न्यायेनेतिद्वन्द्वगर्भे तत्पुरुषे पूर्वसमासपूर्वपदस्थायाः सुपः 'सुपो धातुप्रातिपदिकयो' (पा० सू० २।४।७१) इति प्रत्यक्षोपदिष्टोऽपि लुङ् न कृतः । तथा 'अन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहारः' इति । 'अन्यथैवं कथम्' इत्यन्वाख्यातसाधुत्वोऽपि णमुलू न प्रयुक्तः । न चैषां निपातनैः साधुत्वसिद्धिः । कुतः-येषामनुगमो नास्ति ते सिध्येयुर्निपातनेः । अन्यथानुगतानां तु प्रयोगं बाधते स्मृतिः ॥ ७२४ स्मृत्याचारविरोधे हि स्मृतिरेव बलीयसी । प्रत्यक्ष प्रतिषेधाच्च जनिकर्त्रादिसाधुता ॥ ७२५ प्रत्यक्षश्रुतिविरोधे तु लक्षणरहितस्यापि प्रयोगादेव शिष्टाचारभूतादवय- वानुगमस्मृतिमनुमाय निपातनात्साधुत्वसिद्धिः । न च लक्षणशब्दानां स्वात्मनि क्रियाविरोधादात्मार्थत्वाभावाद्वा लक्षणानुपतिरनादरणीया । प्रदेशान्तरसिद्धेन लक्षणेनानुगम्यते । देशान्तरस्थितः शब्दो लक्ष्यभूतोऽन्यशब्दवत् ॥ ७२६ तथा च 'कृत्वं कस्मान्न भवति' वृद्धिरादैच् (पा० सू० १।१।१) इति । कोऽयं शब्दः' इत्यादिषु लक्षणानुगमादरः सर्वत्राऽऽश्रितः । यदि च लक्षणशब्देषु लक्षणं
५१६ मीमांसादर्शनम् [ सू० न प्रवर्तेत, ततः सर्वं व्याकरणमपशब्दैरेव निबद्धं स्यात् । अर्धवैशसदर्शनात्तु प्रमाणत्वहानिः । अथोच्येत यज्ञप्रयोगविषय एव साधुभाषणनियमः, न सूत्रकारव्याख्यानादि- क्रियास्विति । तदसत्, स्वर्गे लोके कामधुगिति फलवत्त्वोपन्यासात् । सारस्वतीष्टि- विधावाहिताग्निग्रहणार्थवत्त्वात्१ । इतरथा ह्याहिताग्निरेव यज्ञेष्वधिक्रियत इति, तद्गोचरेऽपशब्दप्रयोगे निष्प्रयोजनमेवाऽऽहिताग्निग्रहणं२ भवेत् । योऽपि च ज्योतिष्टोमप्रकरणे वाजसनेयिनां 'तस्माद् ब्राह्मणो न म्लेच्छेत्' इति प्रतिषेधः कर्माङ्गत्वेन ज्ञायते । सोऽपि गुरुसम्प्रदायक्रमागतमन्त्रप्रयोगविनाश- विषय एव, म्लेच्छभाषाप्रतिषेधार्थो वेति पूर्ववदेव नेतव्यः । यदपि च 'केषां शब्दानाम्' इति प्रश्नानन्तरं 'लौकिकानां वैदिकानां च'३ इति विवेककथनम्, तदपि बहूनां तावत्प्रत्यक्षप्रत्यभिज्ञानाल्लोकवेदयोरभेदे सति स्तोकप्रविभागापेक्षं नैवेदमत्यन्तभेदाश्रयसदृशमभिधीयमानं शोभते । न च लौकिकमध्ये गौरश्वः पुरुषो हस्तीत्येवमादयः सर्वे वेदसाधारणाः, वेदादेव वोद्धृत्य लोकेन प्रयुक्ता उदाहर्तुं न्याय्याः । य एव हि भाषायामित्येव स्मर्यन्ते, न च क्वचिदपि वेदे दृष्टपूर्वा इत्येवं संभावयितुं शक्यन्ते, त एवोदाहर्तव्याः । वैदिकोदाहरणेष्वपि च लोकप्रसिद्धा एव शमादय उदाहृताः । न च वाक्योदा- हरणेन लौकिकेभ्यो भिद्यन्ते । वाक्यानां व्याकरणेनान्वाख्यानात् । अतश्छान्द- सान्येव कानिचित् 'गृभ्णामि' 'दत्वायाथ' इत्येवमादीन्युदाहर्तुं योग्यानि । न 'शं नो देवी' इत्येवमादीनि४ । छान्दसोदाहरणं च कुतः ? 'सिद्धे' 'लोकत'५ इत्यनेन प्रत्यासन्नेनैव व्याहन्येत । यदि च लौकिकानामन्वाख्यानं क्रियेत, ततः सुतरां गव्यादय एवान्वाख्येयाः तेषां व्यवस्थितं लौकिकत्वम्, वेदेष्वप्रयोगात् । पुनरध्ये- तृभिर्वेदादेवोद्धृत्योद्धृत्य६ प्रयुक्ता इति शक्यं वक्तुम् । तथा च मनुनाऽप्युक्तम् । वेदशब्देभ्य एवाऽऽदौ पृथक् संस्था विनिर्ममे इति । दृश्यन्ते चाद्यत्वेऽपि श्रोत्रिया लौकिकेऽप्यर्थे विवक्षिते तद्रूपासमानार्थ- न्सकलमन्त्रानप्युदाहरन्तः,७ किमङ्ग पुनः पादान्पदानि वा । न चाऽऽश्रितप्रतिपद- १ क. विधिः । २ क. निःप्रयोजन । ३. म० भा० पस्प० । ४ क. रित्येव । ५. सिद्धे शब्दार्थसम्बन्धे, लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा लौकिक- वैदिकेषु इति महाभाष्यवार्तिके । ६ क. गवादयः पुनः । ७ क. हरतः ।
२४ ] प्रथमाध्याये तृतीयपादः ५१७ पाठानां वैदिकानां लक्षणेन कार्यम् । न चैषां गुरुमुखात्साधीयो लक्षणमस्ति ‘दृष्टानुविधित्वाच्छन्दसः’ इति स्वयमेव लक्षणस्याऽऽम्नानाधीनत्वेन मन्दप्रयोज- नत्वमुक्तम् । यथैव लोकसिद्धत्वात्कृष्यादेर्लक्षणं वृथा । तथैव वेदसिद्धानां शब्दानां लक्षणं वृथा ॥ ७२७ अन्यसिद्धैर्वेदरक्षादिप्रयोजन-निराकरणम् रक्षाद्यपि यदत्रोक्तमन्वाख्यानप्रयोजनम् । न तदप्यन्यतः सिद्धेरल्पसिद्धेस्ततोऽपि वा ॥ शिष्याचार्यसम्बन्धो हि महान्वेदरक्षाहेतुः, व्याकरणानधीयानस्यापि वेद- क्रमस्याध्ययनेनैव रक्ष्यमाणत्वात् । तद्विनाशेऽपि च विशिष्टतरदोषप्रसङ्गात् । उक्तं च— निराकाङ्क्षीभवेल्लक्ष्यं येन तन्नाम लक्षणम् । शतांशमात्रसिद्धौ तु तेन मन्दं प्रयोजनम् ॥ ७२८ समाम्नायप्रसिद्धेऽपि सामवेदेऽस्ति लक्षणम् । तद्युक्तं कृत्स्नसिद्धित्वात्कर्तव्यार्थेन चार्थवत् ॥ ७२९ औच्छिक्थ्ये हि सर्वाणि सामपर्वाणि यथाक्रमं लक्षणेनानुगतानि । ततश्च समस्तसामरूपसिद्धेर्निराकाङ्क्षत्वं भवति । ब्राह्मणविधिवशेन च, ऋगन्तरसंचार- णायां प्रस्तावादिपञ्चधाविभागेन लक्षणोपयोगः । पदानुगममात्रनिवृत्तव्यापारेण तु व्याकरणेन विशिष्टपदरचनात्मकवाक्यसंघातरूपाणामसंभवत्कर्तव्यपदवाक्यानां मन्दमिव रक्षितव्यं दृश्यते । लक्षयेद्यः समाम्नायात्पदवाक्यक्रमान् बहून् । स लक्षयेत्तरामल्पं प्रकृतिप्रत्ययक्रमम् ॥ ७३० वेदरक्षाया इहाध्यार्थिभिरेव सम्भवात् व्याकरणस्य नैष्फल्यम् किं च—यदि व्याकरणाद्रक्षां मन्वीरन्वेदवादिनः । वैयाकरणगेहेषु छिन्द्युस्ते वेदसंशयान् ॥ ७३१ कक्षावलम्बनं नित्यं को नाम करकं वहन् । तमनादृत्य शौचार्थमन्यतः कर्तुमर्हति ॥ ७३२ लोके यस्य यदर्थत्वमाप्ता वा यत्र ये मताः । तेन तेभ्यश्च तद्वस्तु यथावदवगम्यते ॥ ७३३ आयुर्वेदं चिकित्सासु प्रायेण विनियुज्यते । व्याधितत्त्वौषधज्ञानं वैद्येभ्यश्चोपलभ्यते ॥ ७३४
५१८ मीमांसादर्शनम् [ सू० न तु वेदाध्यायिनां कदाचिदप्यभियुक्ततरसहाध्यायिव्यतिरेकेण वेदवर्णपद- वाक्याज्ञानसन्देहविपर्ययव्यावृत्तौ व्याकरणम्, वैयाकरणा वोपयुज्यन्ते । सहाध्यायिभिरेवातो वेदः कात्स्न्येन रक्ष्यते । स्वराक्षरविनष्टोऽपि द्वेषादन्यैर्न मृष्यते ॥ ७३५ तस्मात्प्रीतैरुपायैर्द्विष्टैः कारुणिकादिभिः । न विनाशयितुं वेदो लभ्यते तेन रक्ष्यते ॥ ७३६ तस्माद्वेदरक्षार्थं तावन्नाध्येयं व्याकरणम् । काव्यप्रयोगनियमोत्पत्त्यशास्त्रत्वाच्च व्याकरणस्य वैयर्थ्यम् लोके तु सर्वभाषाभिरर्था व्याकरणादृते । सिध्यन्ति व्यवहारेण काव्यादिष्वप्यसंशयम् ॥ ७३७ यदि तु संव्यवहारवाक्येष्वनुपयुज्यमानमपि काव्यनाटकलक्षणप्राकृतव्याकरण- द्विपदी-रासकादिलक्षणन्यायेन संस्कृतकाव्योपयोगार्थं व्याकरणमाश्रीयेत १ तथाऽपि काव्यप्रयोगनियमोत्पत्त्यशास्त्रत्वाद्यथेष्टभाषाभिः प्रबन्धकरणसम्भवाच्छब्देषु न व्यवस्था स्यादित्युरुच्यते । काव्यशोभास्वपि त्वेतन्नैवातीवोपयुज्यते । वैयाकरणदोषाद्धि कष्टाञ्शब्दान्प्रयुञ्जते ॥ ७३८ न च लक्षणमस्तीति प्रयोक्तव्यमलौकिकम् । लोकसिद्धप्रयोगे तु लक्षणं स्यादनर्थकम् ॥ ७३९ तेन लोकेऽपि न कदाचिद् व्याकरणेन शब्दरक्षा । ऊहस्याप्यन्यतस्सिद्धत्वाद् व्याकरणस्यानुपयोगः ऊहार्थमपि शब्दानां न व्याकरणमर्थवत् । ऊहस्याप्यन्यतः सिद्धेरूह्यानूह्यविभागवत् ॥ ७४० तथा च—मुख्यदृष्टार्थतास्वार्थसमवेतार्थतादिभिः । प्रयुक्ताः प्रकृतौ मन्त्रा गताः कार्यातिदेशतः ॥ ७४१ विकारेऽथ निषिद्धोहाः कार्यापिन्नेषु पञ्चधा । अर्थान्तरेष्वपूर्वार्थद्वारेणोहं व्रजन्ति नः ॥ ७४२ एतावत्यन्यतो यस्य विना व्याकरणान्मतिः । जायेत स कथं तत्र पदं योग्यं न लप्स्यते ॥ ७४३ १ क. माश्रियेत ।
२४ ] प्रथमाध्याये तृतीयपादः ५१९ वेद एव हि सर्वेषामादर्शः सर्वदा स्थितः । शब्दानां तत उद्धृत्य प्रयोगः सम्भविष्यति ॥ ७४४ अथ वा योऽपि गव्यादिर्लोकेिनार्थे प्रयुज्यते । सोऽप्यर्थद्वारतः प्राप्तप्रयोगः केन वार्यते ॥ ७४५ देवतापदानि तावत्—'विधिशब्दस्य मन्त्रत्वे भावः स्यात्' १०-४-२३ इत्येतेन न्यायेन सर्वानिव साध्वसाधुत्वसम्मतानपर्यायानपरित्यज्य विधिगतप्रयोगानु- सरणेनैव तद्वाक्यशेष-वाक्यान्तराधिगतार्थाभिधानरूपेण प्रयुज्यन्ते, तेषु ह्यस्त्येव कर्माभिधानार्थमेव प्रयोगोत्पत्तिशास्त्रत्वम् । यानि तु द्रव्य-तद्गुणादिपदानि सन्निहितार्थपर्यवस्थापितसमस्तरूपाणि प्रयोगवचनगोचरमिच्छन्ति, तेष्वसन्निहि- तार्थपदन्निवृत्तिन्यूनसाकाङ्क्षमन्त्रवाक्यनिराकाङ्क्षीकरणाय स्मृतेऽप्यर्थे प्रयुज्य- मानेषु प्रयोगोत्पत्त्यशास्त्रत्वान्न व्यवस्था स्यादित्युच्यते । प्रकृतौ हि मन्त्राणां प्रयोगोत्पत्तिः शास्त्रवती । विकृतौ—पुनरर्थवशाद्भवन्ती न व्याकरणानुगते- ष्वेवावतिष्ठते । व्याकरणस्याप्यसम्भाव्यमानमूलशास्त्रस्य कृतकाविधायकेष्ट्युप- संख्यानाद्यावापोद्वापसूत्रप्रत्याख्यानानवस्थितप्रमाणत्वस्य यथारुचिविकल्पितप्रकृति- प्रत्ययपरिमाणादिदोषग्रस्तस्य निश्चितस्मर्यमाणपाणिन्यादिमतसापेक्षस्य नैवानादि- यज्ञगतशब्दप्रयोगनियमोत्पत्तिशास्त्रत्वमवकल्पते । तेनोहे कर्मकर्माङ्गवाक्यार्थज्ञानकौशलैः । लोकवेदप्रयोगाच्च सिद्धे व्याकरणेन किम् ७४६ मन्त्रेषु व्याकरणेनोहकरणमशक्यमित्यत्र प्रमाणोपन्यासः अपि च व्याकरणेनोहकरणमशक्यमेवेति मन्वानैष्टीकाकारैरप्युक्तम्— अङ्गानि ज्ञातिनामान्युपमा चेन्द्रियाणि च । एतानि नोहं गच्छन्ति अध्रिगौ१ विषमं हि तत् ॥ इति । ७४७ प्रयोजनवत्वे प्रमाणत्वेनोपन्यस्तस्यागमस्य निरासः आगमो यस्तु निर्दिष्टः प्रयोजनविवक्षया । कर्मणां नोच्यते तत्र किं वेदाध्ययनं फलम् ॥ ७४८ सर्वस्य हि ह्यनुष्ठातव्यस्याऽऽगमो मूलत्वेनाऽऽख्यायते, न प्रयोजनत्वेन । अथैतेनैव युक्तं स्यादागमोक्तं प्रयोजनम् । तदप्यसदनाम्नानान्निष्कारणतयाऽपि च ॥ ७४९ १. दैव्याः शमितार आरमध्वमित्यादिः पशुविशसनप्रैषमन्त्रोऽध्रिगुशब्दवत्त्वेनाध्रिगुरि- त्युच्यते ।
५२० मीमांसादर्शनम् [ सू० निष्कारणषडङ्गवेदाध्ययनोपन्यासेन हि सुतरां व्याकरणस्य निष्प्रयोजनत्व- मुक्तम् । आगमो वेदवाक्याच्च नान्यः कश्चन विद्यते । कथं चाऽऽदिमतां सिध्येद्वेदेनाऽनादिना विधिः ॥ ७५० तस्मात् 'स्वाध्यायोऽध्येतव्यः' इत्येतत्केवलवेदाध्ययनविधानं शतपथादिषु दृष्टम्, उपपन्नं च, निःस्यार्थालम्बनत्वात् । व्याकरणाद्यङ्गाध्ययनविधानं पुनर्न कस्यांचिच्छाखायां श्रूयते । न चाऽऽदिमदर्थविषयं सदनादित्वाधीनं वेदत्वम्, प्रमाणत्वं वा लभते । न चं वेदाङ्गभावोऽपि कश्चिद् व्याकरणं प्रति । तादर्थ्यनियवाभावाद् बुद्धादिवचनेष्विव ॥ ७५१ श्रुतिलिङ्गादिभिस्तावत्तादर्थ्यं नास्य गम्यते । अकृत्रिमस्य वा कश्चित्कृत्रिमोऽवयवः कथम् ॥ ७५२ आगमस्य श्रुत्याद्यङ्गताबोधकप्रमाणपरत्वेन व्याख्यानम् तस्मादवयवविषयमेवैतदेदं वर्णयितव्यम् । षडङ्गो वेद इत्युक्तं श्रुतिलिङ्गाद्यपेक्षया । तैः षड्भिः प्रविभक्तः सन् स हि कर्मविबोधनः ॥ ७५३ ननु बाह्याङ्गानपेक्षत्वे वेदस्वरुपान्तर्गतश्रुत्याद्यपेक्षया विशेषणमनर्थकं प्रसज्यते । तथा हि—सम्भवव्यभिचाराभ्यां स्याद्विशेषणसम्भवः । श्रुत्याद्यव्यभिचारात्तु तैरङ्गैः किं विशेष्यते ॥ ७५४ उच्यते—यस्तानि प्रविभक्तानि हेतुरूपफलैः पृथक् । ज्ञात्वाऽधीते स एवाऽस्य विधेरर्थं करोति नः ॥ ७५५ अधिगन्तव्य इत्येतदध्येय इति चोच्यते । तेन श्रुत्यादिमान्वेद्यो वेदितव्यो विधेरतः ॥ ७५६ ध्यायतेरेव वा रूपं ध्येय इत्येतदाश्रितम् । श्रुत्यार्पितस्वार्थः स ध्यातव्यः सदा द्विजैः ॥ ७५७ ततश्च मीमांसाद्वारा वेदार्थानुचिन्तनविधिरेवायमिति ज्ञायते, न व्याकरणा- ध्ययनविधिः । वेदागमशिक्षाद्यङ्गपरत्वेन द्वितीयं व्याख्यानम् वेदे व्याकरणাদীनि सन्त्येवाभ्यन्तराणि नः । भवेद्वा तदभिप्राया षडङ्गाध्ययनस्मृतिः ॥ ७५८
२४ ] प्रथमाध्याये तृतीयपादः '२१ 'तद्दध्नो दधित्त्वम्' इत्येवमादीनि हि वैदिकार्थवादान्तर्गतान्येव हि निरुक्त- व्याकरणादीनि । तैः सह विधायको वेदोऽध्येतव्य इति स्मृत्यर्थो भवेत् । प्रातिशाख्यपरत्वेन तृतीयं व्याख्यानम् प्रातिशाख्यानि वा यानि स्वाध्यायवदधीयते । गृह्यमाणतदर्थत्वादङ्गत्त्वं तेषु वा स्थितम् ॥ ७५९ व्याकरणस्य प्रयोगशास्त्रत्वमाशंकानिरासौ यानि हि वेदव्यापारपराण्येव, तेषु लिङ्गेन शक्यमङ्गत्त्वमध्यवसातुम् । नतु कतिपयस्पृष्टवेदवाक्योदाहरणच्छद्ममात्रेषु पाणिनिप्रभृतिप्रणीतेषु प्रातिशाख्यानीव प्रयोगशास्त्राणीति चेत् । ने । तेषां पदस्वरूपेष्वेव व्यापारात् । पाणिनीयादिषु हि वेदस्वरूपवर्जितानि पदान्येव संस्कृत्य संस्कृत्योत्सृज्यन्ते । प्रातिशाख्यैः पुनर्वेदसंहिताध्ययनानुगतस्वरसन्धिप्रयत्नविवृतिपूर्वाङ्गपराङ्गाद्यनुसरणाद्भेदाङ्गत्व- माविष्कृतम् । पूर्वोक्तेनानुसंधानमागमस्य च नास्ति ते । आगमोऽध्ययनप्रायः प्राक्च शब्दानुशासनम् ॥ ७६० ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येय' इति विहिते ज्ञाने धर्मः, शास्त्रपूर्वप्रयोगेऽभ्युदय इति च व्याहताभिधानम् । व्याकरणस्य शब्दापशब्दज्ञानं प्रयोजनमित्यस्य निरासः यदपि च शब्दापशब्दज्ञानलाघवं प्रयोजनत्वेनोपदिष्टम्, तत् निराकृतप्रयोज- नान्तरस्य लाघवमात्रमेवावशिष्यते - इति सत्यमेवोक्तम् । गौरवस्यैवोपचारेण लाघवकथनमिति उपहासकथनम् यदि वा गौरवस्यैव लघुत्वमुपचर्यते । विपर्ययापदेशेन शूर कातरशब्दवत् ॥ ७६१ लोकप्रसिद्धानामेव शब्दानामत्यन्तविषमधातुग्गणोणादिसूत्रादिभिरलौकिक- संज्ञा-परिभाषानिबद्धप्रक्रियैरनवस्थितस्थापनाक्षेपसिद्धान्तविचारैः क्लेशेनान्तं गत्वा यथावस्थितानुवादमात्रमेव क्रियते । तत्रापि चोदाहरणव्यतिरिक्तेषु कस्य- चिदेव लक्षणयोजनसामर्थ्यं दृश्यते । तेनात्यन्तगुरुः सन्नयमुपायस्तुत्यर्थमेव लघु- रित्युपचरितः । भर्तृहरिणा वाक्यपदीयेऽभिहितस्यार्थस्य निरासः यदपि केनचिदुक्तम्- तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥ इति । ७६२ तद्रूपरसगन्धस्पर्शेष्वपि वक्तव्यमासीत् । १ म. भा. पस्पशाह्निके ।
५२२ मीमांसादर्शनम् [ सू० को हि प्रत्यक्षगम्येऽर्थे शास्त्रतत्त्वावधारणम् । शास्त्रलोकस्वभावज्ञ ईदृशं वक्तुमर्हति ॥ ७६३ अत एवं श्लोकस्योत्तरार्धं वक्तव्यम् । तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रियादृते ॥ इति । ७६४ न ह्यत्र कश्चिद्विप्रतिपद्यते, बधिरैश्चैवमदृष्टत्वात् । पञ्चमस्यासन्देहप्रयोजनस्य निरासः असन्देहश्च वेदार्थे यदप्युक्तं प्रयोजनम् । तदप्यसद्यतो नास्मात्पदवाक्यार्थनिर्णयौ ॥ ७६५ यतः पदार्थसन्देहास्तावद्बहवो वृद्धव्यवहारादेव निवर्तन्ते । शेषाश्च निगम- निरुक्त-कल्पसूत्र-तर्काभियुक्तेभ्यः सर्वेषामर्थप्रतिपादनपरत्वात् । व्याकरणेन पुनर- तन्त्रीकृत्यार्थं पदस्वरूपमात्रेऽन्वाख्यायमाने दूरादपेतमेवार्थज्ञानम् । तथा हि— धातुभ्यः कल्पिते नाम्नि क्रियायोगोऽनुगम्यते । न चाभिधानवेलायां तत्प्रतीतिर्मनागपि ॥ ७६६ ‘गमेर्डो’ ( उ० सू० २३५ ) इत्येतद्व्युत्पत्त्यनुसारी हि गन्तृमात्रमेव गोशब्द- वाच्यमध्यस्येत् । जातिशब्दश्चायं वृद्धव्यवहारेऽवस्थितः । यत्र प्रसिद्धस्त- त्रान्वाख्यातव्यः । तथा च— कुशलोदारशब्दादेर्यवित्यनुगमस्थितः । न तावत्येव शब्दार्थप्रसिद्धिर्व्यवतिष्ठते ॥ ७६७ अश्वकर्णादिकर्णादौ समासानुगमे सति । अपेतावयवार्थोऽर्थो दृश्यते वृत्तशब्दवत् ॥ ७६८ एवं राजन्यशब्दादेरयतत्त्वाद्यनादरः । व्याक्रियाविपरीतोऽपि स्थितो लोकप्रसिद्धितः ॥ ७६९ वेदविरुद्धार्थे व्याकरणस्याप्रामाण्यमिति प्रतिपादनम् तथा वेदविरुद्धेऽर्थे दृष्टं शब्दानुशासनम् । तत्तथा यदि गृह्येत वेदाङ्गत्वं विरुध्यते ॥ ७७० ‘कलेर्ढक्’ (पा० सू० ४-२-८-) ‘वामदेवाड्ड्यौ’ (पा० सू० ४-२-९) इति कलिवामदेवदृष्टसामाभिधानप्रतिपत्तिर्व्याकरणस्य भवति । वेदे तु ‘ततो वसु वामं समभवत्, तस्माद्द्वात्रदेवत्यम्’ । ‘यदकालयत्, तत्कालेयस्य कालेयत्वम्’ इत्याद्यर्थव्युत्पत्तिदर्शनं व्याकरणानुसारिणीं प्रतिपत्तिं बाधंत ।
२४ ] प्रथमाध्याये तृतीयपादः ५२३ तथा कल्पसूत्रकारैः कृष्णंशंवासः । कृष्णवलक्षे अजिने इत्येवमादिषु कृष्ण- दशादिविवरणाश्रयणाद्व्याकरणशतेनाप्यनवगता अर्था वेदार्थवित्परम्पराप्राप्ता वेदवाक्यपौर्वापर्यावगतयूपादिशब्दार्थाश्च व्याख्यायन्ते । यथा चैवमादिषु व्याकर- णानपेक्षाणामेव निःसंशयार्थप्रतिपत्तिः तथा स्थूलपृषत्यादिशब्दार्थेष्वपि व्याख्यातृ- परम्परैव निर्णयक्षमेति, न व्याकरणमपेक्षितव्यम् । वाक्यार्थनिर्णयेऽपि व्याकरणस्यानुपयोगवर्णनम् किं च-वाक्यार्थेषु च सन्देहा जायन्ते ये सहस्रशः । नेषां व्याकरणात्कश्चित्पूर्वपक्षोऽपि गम्यते ॥ ७७१ यदि वेदार्थसंदेहप्रयोजनं व्याकरणं भवेत् ततः किमर्थवादा स्वतन्त्राः कञ्चिदर्थं प्रतिपादयन्ति, अथ विधिशेषभूताः ? तथा किमूर्गवरोधनमौदुम्बरत्वस्य फलम्, उत प्रशंसार्थमुपात्तमिति । तथा हेतुविधि-हेत्वर्थवाद-मन्त्रप्रयोगदृष्टा- दृष्टार्थत्वादिषु, ग्रहै कत्वविवक्षादिषु च सन्देहानपनयेत् । अथैवमादिषु मीमांसा- सिद्धत्वाद्याकरणेऽनुपन्यासः ततः कल्पसूत्रकारवचनसिद्धकतिपयस्थूलपृषत्याद्यर्थ- निर्णयप्रयोजनता सुतरां नाऽऽश्रयणीया । व्याख्यानादेव सन्देहनिवृत्तेः नहि संदेहादवेद इति निरूपणम् अपि च--लक्षणोत्थेऽपि सन्देहे व्याख्यानादेव निर्णयः । वेदशब्देष्वपि व्याख्या नैव दण्डैर्निवार्यते ॥ ७७२ 'व्याख्यानतो विशेषप्रतिपत्तिः'१ इत्यनयैव परिभाषया न हि सन्देहादलक्षण- मितिवन्न हि सन्देहादवेद इत्यपि शक्यं वक्तुम् । न चागृहीतशब्दार्थैः कैश्चिद् व्याकरणाश्रयात् । व्याख्यातुं शक्यते वेदो यतः स्यात्तेन निश्चयः ॥ ७७३ यथैवावस्थितो वेदस्तथा व्याख्याऽपि सर्वदा । स्वरादर्थनिश्चय इत्यस्य निरासः अतः स्थूलपृषत्यादिव्याख्या व्याकरणादृते ॥ ७७४ न च लोके प्रयुक्तानां पदानां दृश्यते स्वरः । व्यवहाराद्वहिर्भूतात्स्वरान्नातोऽर्थनिश्चयः ॥ ७७५ वृद्धव्यवहाराधीनं शब्दार्थविधारणम् । तत्र च समासान्तोदात्तत्व-पूर्वपद- प्रकृतिस्वरत्वादिप्रयोगविभागाभावान्न तत्कृतार्थविशेषव्यवस्था । १. महाभाष्य ( प्रत्याहाराह्निके लण्सूत्रे )
५२४ मीमांसादर्शनम् [ सू० यत्र त्वस्ति स्वरज्ञानं वेदवाक्येष्वविश्रुतम् । तत्र नैव पदार्थानामवधारणसंभवः ॥ ७७६ तत्रापि निर्णयो यः स्यादर्थप्रकरणादिभिः । तत्र तैरेव सिद्धत्वान्न स्वरस्याभिधां गता ॥ ७७७ तेनादृष्टार्थ एवायं स्वरपाठोऽवगम्यते । सर्वदा ब्रह्मयज्ञाङ्गद्रव्ययज्ञजपेषु च ॥ ७७८ व्याकरणानुगमोऽपि चास्य यदि नाम कथंचित्तदुपयोगार्थ एव भवेत् । न तु लौकिकप्रयोगार्थः, अत्यन्ताप्रयुक्तत्वात् । न च व्याकरणोक्तेन स्वरेणार्थस्य निर्णयः । शब्दानुशासनं ह्येतद् दृष्टं नाऽर्थानुशासनम् ॥ ७७९ तस्मादसन्देहार्थमपि नाध्येयं व्याकरणम् । न ह्येतदर्थनिश्चयाङ्गभूतस्वर- विशेषप्रयोगोत्पत्तिशास्त्रम् । आनुषङ्गिकाणां त्रयोदशानां प्रयोजनानां निरासः यान्यपि च 'इमानि भूयः शब्दानुशासनस्य प्रयोजनानि' इत्येवमुपन्यस्तानि । तेषामपि कानिचित्प्रयोजनत्वयोग्यान्येव न संभवन्ति । कानिचित्प्रयोनाभासानि । कानिचिदप्रमाणकानि । अपि च—अर्थवत्त्वं न चेज्जातं मुख्यैर्यस्य प्रयोजनैः । तस्यानुषङ्गिकेष्वाशा कुशकाशावलम्बिनी ॥ ७८० तत्र यस्तावत् तेऽसुरा इत्याद्यसुरपुराकल्पार्थवादप्रक्रमेऽपशब्दप्रतिषेधः प्रयो- जनत्वेनोपन्यस्तः, स यथावस्थितस्तथोक्तं प्राक् । दुष्टः शब्दः इत्यत्रापि बहुजन- प्रसिद्धशिक्षाकारपठितमन्त्रपदोद्धारेण शब्दपदं प्रक्षिपता स्वपक्षानुरागो दर्शितः । दुष्टमन्त्रप्रयोगे त्विष्यत एव यजमानस्य प्रत्यवायः, 'यदृचोता जहाति, वाग्वि तद्यजमानं जहाति' इत्येवमादिभिः सर्वर्त्विक्प्रयोज्यमन्त्रविनाशेषु यजमा- नगामिदोषदर्शनात् । तथा 'इन्द्रशत्रुर्वर्धस्व' इति मन्त्रप्रयोगविनाशदोष एवोदाहृतः । यत्तु निरुक्ते 'यदधीतमविज्ञातं निगदेनैव शब्द्यते' १ । इत्युक्तम्, तदस्माभिः प्रथमसूत्र एवाऽथशब्दं व्याचक्षाणैः स्नानस्मृतिक्रमकारणत्वे- नोपवर्णितम् 'अनतिक्रामन्तो वेदमर्थवन्तं सन्तममनर्थकमवकल्पयेम, २ दृष्टो हि तस्यार्थः कर्मावबोधनम्' इति । ततश्चाव्याख्यातेन वेदेनार्थप्रकाशनाकरणात् 'न तज्ज्वलति कर्हिचित्' इति । सत्यमेवैतत् । न तु व्याकरणस्य तत्रोपयोगः । कर्मप्रयोगोत्पत्तिं प्रत्यशास्त्रत्वात् । शब्दशास्त्रमेतदिति चेत् ? तेष्वपि पूर्वोक्तेन १ क. शक्यते । २ क. मनर्थकं कल्पयेम ।