मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 564, कुल 804 में से
संदर्भ में पढ़ें५१० मीमांसादर्शनम् [ सू० वक्ता तु१ भाषणे सर्वो गुणभूतो विधीयते । न तस्य नियमापूर्वसंस्कार्यत्वनिरूपणम् ॥ ७०१ न प्रधानपदं चात्र विद्यते स्वर्गकामवत् । न च षष्ठ्युक्तसम्बन्धात्स्वामित्वेन प्रधानतः२ ॥ ७०२ यत्तु दिङ्नियमापूर्वं भोजनादिषु कल्पितम् । पुरुषार्थक्रियाद्वारं तदर्थं तत्प्रतीयते ॥ ७०३ न चेहोच्चारणमुच्चारयित्रर्थम्, येन भोजनादिसमत्वं प्रतिद्येत । स्वरूपेण पुनर्भङ्गित्वाद् बुद्धिवदेवासंस्कार्यम् । एवं चावेदमूलत्वान्न धर्मनियमार्थता । युक्ता शब्दस्मृतेर्वक्तुं न चास्याः शाखता स्वयम् ॥ ७०४ तदुक्तं 'प्रयोगशास्त्रमिति चेन्नासन्नियमात्' इति । वेदवत् स्वातन्त्र्येण प्रामाण्यनिरासः नहि व्याकरणादीनां वेदत्वेन स्वतन्त्रता । पुरुषाधीनवृत्तेश्च सापेक्षस्याप्रमाणता ॥ ७०५ सर्वत्र हि 'पौरुषेयाद्वचनादेवमयं पुरुषो वेदेति प्रत्ययः' तेन कर्त्रभिप्रायप्रका- शनमात्रोपयुक्तत्वाद्द्व्याकरणेनैव शब्दगतसाध्वसाधुविभागः प्रतीयते । न च स्मृत्यन्तरं किंचिद् दृष्टं तत्कार्यगोचरम् । दृढं श्रुत्यनुमानं स्याद्येनोपनयनादिवत् ॥ ७०६ व्याकरणस्मृतेः धर्मशास्त्रैस्तुल्यत्वम् प्रायेण मनु-गौतम-वसिष्ठादिप्रणीताः समानेष्वर्थेषु धर्मसंहिता वर्तन्ते । तेनाविगानात्ताभ्य एव श्रुतयः स्वनुमानाः । न च व्याकरणस्य ताभिः समा- नार्थत्वम् । सूत्र-वार्त्तिक-भाष्यकाराणां प्रयोजनविगानेनाप्रामाण्यम् परस्परेण चाऽऽचार्या विगीतवचनाः स्थिताः । सूत्रवार्तिकभाष्येषु किं तत्राध्यवसीयताम् ॥ ७०७ न तावत्सूत्रकारेण किंचिदुक्तं प्रयोजनम् । कथं चैतावति ग्रन्थे स्यात्प्रयोजनविस्मृतिः ॥ ७०८ येष्वपि तद्ग्रन्थेषु विस्रष्टान्यादित एवाऽऽरभ्य प्रयोजनानि ज्ञायन्ते । न चैषां श्रवण-ग्रहण-धारणेपु महान्खेदस्तेष्वपि जिज्ञासूत्साहार्थं पूर्वं प्रयोजनान्येव १. क. कुभाषणे । २. क. प्रधानता ।