मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 565, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः ५११ निबध्यन्ते 'धर्मं व्याख्यास्यामः (वे. द. १ १-१'), यज्ञं व्याख्यास्यामः (आप० परि० सू. १-१) इत्येवमादिभिः । इह पुनरत्यन्तकष्टं व्याकरणं प्रणयता सूत्रकारेण धर्मार्थकाममोक्षाणां न कस्यचित्प्रयोजनत्वमाश्रितम् । न च सर्वप्रधाने वस्तुन्य- नादरो युक्तः । सुज्ञातत्वं पुनरीदृशम्, येनाद्यापि विवदन्ते । धर्मश्च फलसंबद्धं कर्म यागादि वर्ण्यते । न च व्याकरणे किंचित्तादृक्कर्मोपदिश्यते ॥ ७०९ धर्मत्वं यच्च विज्ञान-शास्त्रपूर्वप्रयोगयोः । यथेष्टं वर्णितं तच्च न शास्त्रसदृशं मतम् ॥ ७१० शास्त्रार्थो हि निरूपितरूपो भवति । इह च ज्ञानधर्मत्वमुपन्यस्य, अधर्मप्रस- ङ्गभीतेन शास्त्रपूर्वप्रयोगेऽभ्युदय इति वार्तिककारेणोक्तम् । भाष्यकार आह— अथ वा पुनरस्तु ज्ञाने धर्मः (पस्पशाह्निक. १-१-१) इति । न चैवमनियमेन धर्मत्वावधारणं युक्तम् १ । संबद्धयोश्च धर्मत्वं यदेकस्यावधार्यते । तदेतरत्तदर्थत्वान्न धर्मत्वेन गम्यते ॥ ७११ ज्ञानप्रयोगयोरन्योन्यतरस्यानुनिष्पादितत्वेन उपसंहारः तदिह यदि तावज्ज्ञानमेव धर्मत्वेनावधारितम्, ततो लोकप्रसिद्धस्यैव प्रयोगस्य ज्ञानात्तु निष्पादितत्वेन सत्यामप्युपकारनिवृत्तौ वाजिनादिवत्प्रयोजकत्वाभावः । शास्त्रपूर्वकप्रयोगपक्षे तु ज्ञानस्य तदङ्गत्वेन निराकाङ्क्षभूतत्वात् । असत्यां प्रयो- जनान्तराकाङ्क्षायां यद्यपि कांचित्फले श्रुतिर्भवेत् साऽपि 'द्रव्यसंस्कारकर्म' २ ४-३-१ इत्यनेन न्यायेनऽर्थवादतया ज्ञायते । न हि समानाध्वनोः परस्मिन्फलवति ज्ञाते पूर्वस्यापि फलवत्ता ज्ञायत इति वर्णितमेतत् "योऽश्वमेधेन यजते य उ चैनमेवं वेद" इति । किं च—आदिमत्त्वाच्च धर्मत्वं नैव ज्ञातप्रयोगयोः । न हि व्याकरणापेक्षा वर्तते वैदिकी श्रुतिः ॥ ७१२ यन्नाम ज्ञानं नित्येन वेदेनैव क्रियते, तत्र तत्पूर्वकप्रयोगविधानं फलायोप- पद्यते । व्याकरणज्ञानं तु पौरुषेयम्, ग्रन्थाधीनत्वान्मन्त्रार्थवादगतानित्यसंयोगपरि- हारन्यायेनानादिवेदविषयत्वेन नावधार्यते । व्यवहारनित्यतया कण्ठस्थनित्यतया वेदस्य नित्यत्वनिरासः न च व्याकरणं नित्यं कथंचिदवगम्यते । कर्तृस्मृतिद्रढिम्ना हि नित्यपक्षनिराक्रिया ॥ ७१३ १. क. उक्तम् । २. क. कर्मस्वित्यनेन ।