भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 566, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 566

५१२ मीमांसादर्शनम् [ सू० अथापि व्यवहारनित्यतान्यायेन पौरुषेयव्याकरणपरम्पराऽनादिः कल्प्येत, तथाऽपि ‘उक्तं तु शब्दपूर्वत्वम्’ (१-१-२९) इत्यस्य न्यायस्य स्थितत्वात्। अनेक- पुरुषकृतमपि सव्याकरणं वेदालम्बनत्वं न प्रतिपद्यते । न च व्याकरणत्वाख्या जातिः काचिद्व्यवस्थिता । अनित्ये वाक्यसंघाते सा जातिः क्वाऽवतिष्ठताम् ॥ ७१४ पातञ्जलभाष्यानुसारेणाशङ्का-निरासौ अथ ‘लक्ष्यलक्षणे व्याकरणम्’ (प. आ.) इति सत्यपि लक्षणांशकृत्रिमत्वे लक्ष्यांशेन नित्येन विधिरुपपत्स्यत इति । तदनुपपन्नम् । कुतः— अत्यन्तभिन्नरूपत्वाल्लक्ष्याणां लक्षणादिना । नैकमालम्बनं किंचिद्विधेरस्तीत्युदाहृतम् ॥ ७१५ ननु वेद¹ एव व्याकरणनित्यत्वं दृश्यते । यथाऽऽह—‘तस्मादेषा व्याकृता वागुद्यत’ (तै. सं. ६.४.७) इति । नैतदस्ति । व्याकृता सम्प्रदायेन वाणी नित्यैव वैदिकी । अनूदितोच्यमानेयं कर्मस्वाध्यायकालयोः ॥ ७१६ अव्याकृताया हि लौकिक्या वाचः शिष्याचार्यसम्बन्धेन स्वरवर्णमात्रा- क्रमैरविप्लुत रूपैर्निरूपिताकारैरेव वैदिकी व्याकृतेत्युच्यते। तस्माच्च मन्त्रब्राह्मणा- त्मिकायाः कर्मसु, ज्ञाने, प्रयोगे च धर्मोऽस्त्येव । यदपि च एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवति (म. भा. ६.१.८४) इति । तदपि स्वाध्यायप्रशंसाशेषभूतमेव । “अहरहः स्वाध्यायमधीयीत” इत्यत्र ‘अप्येकामृचम्, यजुः, साम वा’ इत्येतदवश्यकर्तव्यतानियमार्थमुक्तम् । योऽपि मन्त्रं समस्तं हि न धीयीताप्यशक्तितः । तस्य शास्त्रान्वितः शब्द एकोऽपि स्वर्गकामधुक् ॥ ७१७ शास्त्रान्वित इति च यथास्वाध्यायमनुगत इत्यर्थः । सम्यक्प्रयुक्त इति चोपनयनोपसदनगुरुशुश्रूषादर्भपवित्रपाणित्वादीतिकर्तव्यतोपपन्नतवाश्रयेणोक्तम् । यदपि च “तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै², म्लेच्छो ह वा एष यदपशब्दः” इति, तत्संप्रदायागतवैदिकशब्दविनाशप्रतिषेधार्थमेव । वैदिकाच्चा- पेतत्वाल्लौकिकस्यापशब्दत्वं संभवति । १. क. वेदे । २. क. “नापभाषितवा” इति ।