मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 567, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः ५१३ सुज्ञानं च। न लौकिकादप्येतोऽपशब्दो नाम कश्चिदस्ति । गव्यादीनामपि शब्दानां श्रोत्रग्राह्यत्वेन शब्दशब्दवाच्यत्व-शब्दबुद्धिग्राह्यत्वशब्दत्वानुगम- दर्शनात् । अथाप्यवश्यं लौकिकादप्येतोऽपशब्द आश्रयणीयः । अथाऽपि “न म्लेच्छभाषां शिक्षेत” इत्येवमादिस्मृत्यनुसरणेन हिमवद्विन्ध्यान्तराल- कृष्णमृगसंचारणाद्युपलक्षितधर्माधिकृतार्यावर्तनिवासिव्यतिरिक्तबर्बरादिभाषागतस्य म्लेच्छितत्वसमानाधिकरणापशब्दत्वज्ञानात्तेन भाषणं प्रतिषिध्यते । युक्तं च तस्याशेषतदीयाचरणवत्परिहरणीयत्वम्, न त्वार्यावर्तनिवासिप्रयुक्तेषु गव्यादिषु म्लेच्छतिधात्वर्थानुगमः कश्चित् । येन तदनाचारितत्वेनापवृत्तवदपशब्दत्वं निरूप्यते । यदपि च "आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत्” इति तदप्यनूत्वादवैदिकशब्दविनाशम्लेच्छभाषाप्रयोगाश्रयमेव वेदितव्यम्, न तु व्याकरणानुगतव्यतिरिक्तशब्दप्रयोगविषयम् । तथा हि— कथं नामेदृशात्कार्यात्सर्व एवाऽऽहिताग्नयः । प्रवर्तेरन्कथं१ चान्यैर्न निन्द्येरन्नशिष्टवत् ॥ ७१८ प्रायेण हि शिष्टानां धर्माचारप्रणितचेतसां कश्चिदेव प्रमादादल्पोऽनाचारो भवति । गव्यादिशब्दप्रयोगेषु पुनर्न केषांचिदप्यनाचारबुद्धिः । न च कलञ्जा- दिभक्षणवद्विचिकित्सा,२ गर्हा वा दृश्यते न चाऽऽहिताग्निसहस्रेऽप्येकस्त्वदभि- मतसाधुशब्दैरेव व्यवहरमाणो दृश्यते । कल्पसूत्रकारादीनामपशब्दप्रयोगवर्णनम् कल्पसूत्रस्मृतिग्रन्थमीमांसागृह्यकारिणः । शिष्टा दृष्टाः प्रयुञ्जाना अपशब्दाननेकंशः ॥ ७१९ 'समानमितरच्छद्येनेन' इत्यादितकारान्तप्रथमान्तनपुंसकप्रयोगेषु मशकेन तत्र तत्र प्रयुक्तम्, 'समानमितरं ज्योतिष्टोमेन' 'समानमितरं गवा ऐकाहिकेन' इति सूत्रकारेणाप्यभिहितम् । “अहीने बहिष्पवमानैः सदसि स्तुवीरन्” इति कर्त्रभिप्रायक्रियाफलवर्जितेऽप्यृत्विक्कर्तृके स्तवने 'यजन्ति याजका' इतिवत्परस्मैपदे प्रयोक्तव्ये व्याकरणमनपेक्ष्याऽऽत्मनेपदं प्रयुक्तम् । तथाऽऽश्वलायनेन “प्रत्यसित्वा प्रायश्चित्तं जुहुयुः” इति समासेऽपि ल्यप्न प्रयुक्तः । आज्येनाक्षिणी आज्य इत्यसमासेऽपि प्रयुक्तः । १. क. प्रवर्त्येरन् । २. क. मक्षणवच्चिकित्सा । ३३