मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 590, कुल 804 में से
संदर्भ में पढ़ें५३६ मीमांसादर्शनम् [ सू०
गवादय एव साधव इति नियमे कृते अन्येषामसाधुत्वावगतिरित्यर्थः । एतदेवोपसंहरति— स एष इति । प्रासङ्गिकं व्याकरणस्य त्रिविधश्रुतिमूलत्वेऽपि साध्वनुशासनमात्रात्मकत्वस- म्भवमुपसंहृत्य प्रकृतं मूलश्रुत्यनुमानासम्भवमुपसंहरति—नन्विति । मूलासम्भवमेव द्रढयितुं व्यवस्थापकोपपदासम्भवं पूर्वाधिकरणोक्तमत्रापि योजयन्नाह—इदङ्गीति । एवमेकोपलक्षणासम्भवेन विधिनिषेधासम्भवमुक्त्वा, विधिविषयासम्भवादपि विध्य- सम्भवमाह—अथ प्राप्तश्चेति । अनेन च शब्दप्रयोगस्य लोकव्यवहारार्थत्वेनैवोत्पत्तेः सिद्धेरशास्त्रविषयत्वादित्येतत्सूत्रावयवो व्याख्यातः । नन्वत्र महावार्त्तिककारेण सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्म्मन्नियमो यथा लौकिकवैदिकेष्विति व्यवहारलक्षणेनैवार्थेन साध्वसाधुशब्दप्रयोगे आक्षिप्ते धर्म्मार्थं शास्त्रेण साधुनियमः क्रियते । यथा लोके क्षुत्प्रतीघातार्थे प्राप्ते भक्षणे भक्ष्याभक्ष्यनियमो वेदे वा पयोव्रतं ब्राह्मणस्येत्यादिवदिति नियम इति वदता समाधान- मुक्तमित्याशङ्कते--अथेति । धर्म्मजिज्ञासाप्रकृतत्वेन धर्म्मस्य नियम इति । षष्ठीविग्रहेऽपि सम्बन्धमात्रोत्पन्नायाः षष्ठ्यास्तादर्थ्यलक्षणविशेषनिष्ठत्वसन्दर्शनार्थं धर्मयेति चतुर्थ्यानिर्देशः । साधूनां नियमविषयत्वासम्भवेनैतन्निराकरोति—तदिति । नित्यप्राप्तस्य नियम- विषयत्वासम्भवे हेतुमाह—यस्य हीति । ननु गाव्यादिभ्योऽप्यर्थप्रत्ययसिद्धेस्तत्प्रसक्तौ गवादिशब्दस्य पाक्षिकत्वापत्तेर्गव्यादिनिवृत्त्यर्थो नियमो भविष्यतीत्याशङ्क्याह— यस्यापीति । गाव्यादिशब्दानां साध्वसाधुत्वपक्षद्वयेऽपि व्यावत्र्यत्वायोगादित्यशयः । एतदेवोपपादयितुं विकल्पयति कीदृशश्चेति । उभयत्र दोषमाह—यदीति । न च साधूनामप्यर्थप्रत्ययहेतुत्वादस्तिप्रसक्तिरित्याशङ्कयाह—यदि हीति । शब्दव्यापारसाध्यमर्थ- प्रतिपादनं भाषणम् । नार्थप्रतिपादनमात्रं शब्दस्य च मुख्यार्थे साक्षाद्व्यापारो गौणलाक्षणिकयोस्त्वभिधेयसाहचर्याविनाभावद्वारा । गाव्यादीनां तु कथञ्चिद्व्यापाराल्लाभान्न शब्दव्यापारसाध्यार्थप्रतिपादनात्मके भाषणे हेतुतास्तीत्याशयः । ननु साधूच्चारणायैव प्रवृत्तस्य प्रमादेन अशक्त्या वा प्रसज्यमानस्यासाधोर्निवृत्त्यर्थो नियमो भविष्यतीत्याशङ्कते—अथेति । प्रमादाशक्तिजानां दोषाणां परिहर्त्तुमशक्यत्वात्तन्नि- वारणमनर्थकमिति परिहरति—तदसदेति । नन्वव्यग्राणां शक्तानामपि च गाव्यादिशब्द- प्रयोगदर्शनादप्रयुक्ताभिधानमयुक्तमित्याशङ्कते—दृष्ट इति । मत्पक्षे गाव्यादिशब्दानामप्यर्थ- प्रतिपादने व्यापारसद्भावायुक्ता प्रसक्तिः । त्वत्पक्षे तु तेषां कथंचिद्व्यापाराभावान्न तावच्छब्दव्यापारसाध्यार्थप्रतिपादनात्मके भाषणे प्रसक्तिः । यथा कथंचिदर्थप्रतिपादने तु प्रसक्तस्य गाव्यादेर्निवृत्त्यर्थं नियमाभ्युपगमे अक्षिनिकोचादेरपि प्रसक्तेः, तन्निवृत्त्यर्थो नियमः कल्प्यः, ततश्च शब्दव्यतिरिक्तसर्वप्रमाणोच्छेदः स्यादित्यभिप्रायेण परिहरति— उच्यत इति । निवृत्त्यर्थत्वे च नियमत्वं व्याहन्येतेत्याह—न चेति । साध्वसाध्वोश्च द्वयोर्नित्यप्राप्त्यभावात्परिसंख्या युक्तेत्याह—नियमेति । 'किं चादृष्टार्थस्य यागादीष्टसिद्धयर्थं