मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 591, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः ५३७ पुरोडाशादिद्रव्यनियमः, तत्प्रकृतित्वादिनियमः । तदपेक्षितावघाताद्युपायनियमश्च युक्तः । शब्दप्रयोगस्य तु परप्रतिपत्त्यर्थत्वेन दृष्टार्थत्वाच्च तत्साधनसाधुनियमो युक्त इत्याह-न चेति । नन्वेकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवतीति शब्दप्रयोगस्य स्वर्गसाधनत्वावगमात्तदन्यथानुपपत्तिरस्त्येवापूर्वकल्पनायां प्रमाणमित्या- शङ्कयाह-परार्थत्वाच्चेति । ननु यथा दृष्टार्थस्यापि भोजनादेः 'आयुष्यं प्राङ्मुखो भुङ्क्त इत्यदृष्टार्थः' प्राङ्मुखत्व नियमः तथा दृष्टार्थस्यापि शब्दप्रयोगस्यादृष्टार्थः साधुनियमो भविष्यतीत्याशङ्कयाह- न चेदमिति । शब्दादीनां विषयाणां गोचरे समुदाये तन्मध्य इत्यर्थः । शब्दस्य तावन्नियम- जन्यादृष्टाश्रयत्वस्य सम्भवमुपपादयति-शब्दस्येति । कर्तृत्वेन परार्थस्यापि स्वर्गकामादेः कर्म्मफलभोक्तृत्वेन प्राधान्यस्यापि भावेनापूर्वाश्रयत्वदर्शनात्तद्वैषम्यप्रदर्शनार्थम्- अत्यन्तग्रहणम् । यत्पुनः परार्थस्याप्याहवनीयोद्देशसम्मार्गादिजन्यापूर्वाश्रयत्वप्रदर्शनात्- दृष्टार्थग्रहणम् । नन्वर्थस्य भाषणं प्रति प्राधान्यादपूर्वाश्रयत्वं भविष्यतीत्याशङ्कयाह-सत्यपि चेति । क्रत्वङ्गभूतानामप्यर्थानामर्थाक्षिप्तस्याभिधानस्यापि वैधत्वेन केवलदृष्टार्थत्वान्नापूर्वेणो- पयोगः इत्याशयः । ननु श्रोतुरुनुष्ठेयादृष्टार्थक्रियाफलभोक्तृत्वयोग्यताधानायाऽपूर्वपेक्षणात्तदाश्रयत्वं भविष्य- तीत्याशङ्कयाह-श्रोतुः पुनरिति । शब्दार्थविषययोस्तु श्रोतृबुद्ध्योः क्षणिकत्वान्नापूर्वा- श्रयत्वशङ्केत्याह-बुद्ध्योश्चेति । वक्तुरपि बुद्धिवद्गुणभूतत्वान्नापूर्वाश्रयतेत्याह-वक्त्रेति । ननु कामधुक्शब्देन शब्दप्रयोगस्य फलसाधनत्वावगमात्प्रयोक्तुः फलभाक्त्वात्प्राधान्यं भविष्यतीत्याशङ्कयाह-नेति । स्वर्गकामादिशब्दात्काम्योपयिकत्वावगतेस्तदनुरोधेन क्रिया- फलभाक्त्वावगतिः । इह तु साधुशब्दप्रयोगस्य फलसाधनत्वमात्रं प्रतीयते । तच्चार्थवाद- मात्रत्वेनोपपत्तेर्न प्रयोक्तुः फलभाक्त्वमाक्षिपतीत्याशयः । यदि वात्र वक्तुः कामधुगिति षष्ठी स्यात्, ततः सप्तदशवैश्यस्येत्यादिवत् षष्ठ्युक्तसम्बन्धसामान्यस्यापेक्षावशात्स्व- स्वामिलक्षणविशेषरूपत्वप्रतीतेः प्राधान्यं स्यात् त्वसावस्तीत्याह-न चेति । ननु यथा कमिपादाद्यभावेऽपि प्राङ्मुखोऽन्नानि भुञ्जीतेत्याख्याताक्षिप्तस्य भोक्तुर्गुणभूतस्य दिङ्नियमपूर्वाश्रयत्वम्, तथात्रापि साधुशब्दप्रयोगाक्षिप्तस्य प्रयोक्तुः साधुनियमपूर्वा- श्रयत्वं भविष्यतीत्याशङ्कयाह-यत्त्विति । कमिपादाद्यभावेऽपि भोजनं प्रति भोक्तुर्लोकादेव प्राधान्यावगतेरपूर्वाश्रयत्वं युक्तमिति भावः । अपूर्वाश्रयत्वमुच्चारणस्यानाशङ्क्यमेवेत्याह-स्वरूपेण पुनरिति । अतो विषयाभावाद व्यवस्थाभावाददृष्टार्थत्वाभावाच्च नियमानुपपत्तेस्साधुनियमार्थस्य व्याकरणस्य वेदमूलत्वा- योगाच्छास्त्रेण धर्म्मनियम इति यन्महावार्त्तिककारेणोक्तम् तद्युक्तमित्युपसंहरति-एवं चेति । अनेन च साधुशब्दप्रयोगाणामुत्पत्तिरस्मादिति व्युत्पत्त्या व्याकरणं प्रयोगोत्पत्ति- शब्देनाभिप्रेत्य तस्याः शास्त्रमूलत्वाच्छन्दव्यवस्थानियमो न प्रयोजनमिति सूत्रं योजितम् । ननु स्वयमेवैतस्य वेदवच्छास्त्रत्वं भविष्यतीत्याशङ्कयाह-न चेति । अत्रापि प्रयोगोत्पत्ते-