भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 592, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 592

व्याकरणस्य शास्त्रत्वाभावादिति योज्यम्, साधितं चास्य स्वातन्त्र्यं कल्पसूत्राधिकरणे इत्याह—तदुक्तमिति । एतदेव विवृणोति—न हीति । यद्वा पौरुषेयत्वात् व्याकरणस्य वक्त्रभिप्रायमात्रपर्यवसानेनार्थपरत्वाभावात्साधुप्रयोग- नियमं प्रत्यशास्त्रत्वादिति षष्ठेन प्रकारेण योज्यमित्याह—सर्वत्र हीति । स्मृतिशास्त्रान्तर- सम्वादाभावादिति सप्तमीं योजनामाह—न चेति । एतदेव विवृणोति—प्रायेणेति । अस्तु तावत्स्मृत्यन्तरेणासम्वादः । परस्परमपि व्याख्येयव्याख्यानग्रन्थानां न सम्वादोऽस्तीत्याह—परस्परेण चेति । सूत्रवार्तिकभाष्येषु ये पाणिनिकात्यायनपतञ्जलय आचार्यास्ते विगीतवचना इत्यर्थः । कीदृशं विगानमित्यपेक्षायां निःप्रयोजनं व्याकरणं सूत्रकृतोऽभिप्रेतम् । साधुशब्दप्रयोगद्वारेण धर्मप्रयोजनत्वं वार्तिककृता साधुशब्दज्ञानद्वारेण भाष्यकारस्येति विगानं दर्शयितुमाह—न तावदिति । तेन तस्य प्रयोजनाभावाभिप्रायो लक्ष्यत इति भावः । ननु विस्मृत्याप्य- नुक्त्युपपत्तेः, कथं प्रयोजनाभावाभिप्रायो लक्ष्यत इत्याशङ्क्याह—कथं चेति । एतावत्त्वेन बह्वायासात्वमभिप्रेतम् । एतदेव विवृणोति—येष्विति । मोक्षाणामिति निर्धारणे षष्ठी । न चानादरेणानुक्त्युप- पत्तिरित्याह—न चेति । सुज्ञानत्वेनापि नोपपत्तिरित्याह—सुज्ञानत्वं पुनरिति । यद्यपि वार्तिककृता शास्त्रेण धर्म्मनियम इति धर्म्मप्रयोजनत्वं व्याकरणस्योक्तम् । तद्ब्याकरणे धर्म्मस्याप्रतिपाद्यमानत्वादयुक्तमित्याह—धर्म्मश्चेति । ननु न साक्षाद् धर्म्मप्रयोजनत्वं व्याकरणस्याभिप्रेतम्, किं तु तदनुगतशब्दप्रयोगद्वारेण, ज्ञानद्वारेण वेत्याशङ्क्याह-धर्म्मत्व- मिति । एतदेव विवृणोति—शास्त्रार्थो हीति । किं पुनः शब्दस्य ज्ञाने धर्मः, आहो- स्वित्प्रयोग इति सन्दिग्धो वार्त्तिककृता ज्ञाने धर्मं इति चेत्तथाधर्म्म इत्यनेन साध्वसाधु- विवेककारिणो व्याकरणवत्साधुत्वज्ञानेऽर्थान्तरोपलक्षणरहितानामसाधुत्वाज्ञानापत्तेः, तस्य च न म्लेच्छभाषां शिक्षेतेत्यादिनिषेधपर्यालोचनेनाधर्म्मसाधनत्वाधर्म्मसाधनत्वावसायाद- धर्म्मः प्रसज्येतेत्युक्त्वा प्रयोगे र्तहि धर्म्मो भविष्यतीत्याशङ्क्य तस्मिन्पक्षे व्याकरणानभि- ज्ञानामपि साधुशब्दप्रयोगात् धर्म्मोत्पत्तेर्व्याकरणानानर्थक्यमिति, प्रयोगे सर्वलोकस्येत्य- नेनोक्त्वा दोषद्वयमयाच्छास्त्रपूर्वकं प्रयोगेऽभ्युदयः, तस्य च वेदशब्देनेत्यनेन व्याकरण- जनितज्ञानपूर्वकसाधुशब्दप्रयोगो धर्म्मसाधनम्, यथा वेदशब्दपूर्वोऽग्निष्टोमादिजनित- ज्ञानपूर्वकमनुष्ठितो धर्म्मसाधनम् । यथा वा वेदरूपः शब्दो नियमपूर्वमधीतो धर्म्मसाधन- मित्युकतं भाष्यकृता । तत्सर्वं व्याख्याया, अथ वा 'पुनरस्तु ज्ञाने धर्मं' इत्युक्तम् । न चैवमव्यवस्थितशास्त्रार्थावधारणं युक्तमित्यर्थः । ननु सम्यग् ज्ञातः सुप्रयुक्त इत्युभयोर्ज्ञानप्रयोगयोरेकवाक्योपादानात्समुच्चितयोर्धर्म्मत्वं भविष्यतीत्याशङ्क्याह-सम्बद्धयोश्चेति । एकवाक्योपपत्तयोरप्याख्याते नामाथंयोः समुच्चयः, प्रतिपदमपूर्वाणि एकपदे एवापूर्वमित्याधिकरणं यदेकस्मादपूर्वं तदेतरत्तदर्थमित्येतदित्यर्थः प्रतिपदाधिकरणे निराकरिष्यत इत्याशयः । सामान्यन्यायमुक्त्वा प्रकृते योजयति—