मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 593, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः ५३९ तद्विहेति । एकस्मिन्वाक्ये साधनद्वयविध्ययोगात्सति ज्ञाने साधुशब्दप्रयोगोऽप्यनुषङ्गान्निष्पद्यत इत्येवं ज्ञानस्तुत्यर्थत्वेन सुप्रयुक्तस्तु शब्दो ज्ञानस्य धर्मसाधनत्वपक्षे व्याख्येयः । प्रयोग- पक्षे तु ज्ञातमात्रोऽपि साधुशब्दः स्वर्गं साधयति, किमुत प्रयुक्त इति प्रयोगस्तुत्यर्थत्वेन सम्यग्ज्ञानशब्दो व्याख्येयः । ततश्च ज्ञानधर्मत्वे, प्रयोगस्य धर्मत्वायोगात् लोकसिद्धस्यैव ज्ञानानुनिष्पादितत्वेन सत्यामपि व्याकरणादुपकारनिवृत्तौ व्याकरणं प्रति प्रयोजकत्वाभावान्न भवदभिप्रेतद्वारेण व्याकरणस्य धर्मप्रयोजनत्वं युक्तम् । प्रयोगस्य तु धर्मत्वे यदेकस्मादपूर्वं तदेतरत्तदर्थमितिन्यायेन ज्ञानस्य प्रयोगाङ्गत्वेन पारार्थ्यज्ञानात्फलश्रुतेः सुप्रयुक्त इति- वत्सम्यग्ज्ञान इत्यनेनाप्यन्वये कल्प्यमानेऽर्थवादत्वावसायेन ज्ञानस्य धर्मत्वायोगात्तद्- द्वारेणापि व्याकरणस्य धर्मप्रयोजनत्वं न युक्तमित्यर्थः । आदिमध्याद्व्याकरणानुगतशब्द- प्रयोगस्यानादिशास्त्रविषयत्वाभावादित्यष्टमी योजनामाह किं चेति । व्याकरणपूर्वकज्ञान- प्रयोगयोरित्यर्थः । एतदेव विवृणोति - यन्नामेति । मन्त्रार्थवादगतस्यानित्यसंयोगस्य परिहारो यो न्यायो अनित्यसंयोगविरोधरूपः तेनेत्यर्थः । न च व्याकरणस्यापि नित्यत्वं शङ्कनीयमित्याह - न चेति । ननु व्याकरणस्य कूटस्थनित्यत्वाभावेऽपि, प्रवाहनित्य- त्वाद्वैदिकविधिविषयत्वं भविष्यतीत्याशङ्क्याह - अथापीति । उक्तमौत्पत्तिकसूत्रेऽध्येतॄणाम- स्मरणादिभिश्चशब्दपूर्वत्वमिति वेदाधिकरणसिद्धान्तसूत्रोक्तेन न्यायेन सर्वपुरुषेभ्यो वेदस्य प्राथम्यान्न पौरुषेयग्रन्थविषयत्वं युक्तमित्यर्थः । ननु व्याकरणत्वजातेः कूटस्थनित्यत्वाद्वेद- विषयत्वं भविष्यतीत्यत आह - न चेति । ननु व्याकरणस्य सूत्रमिति षष्ठ्यर्थस्य भेदं विनानुपपत्तेः सूत्रमात्राच्छब्दाप्रतिपत्तेः, व्याकरणाच्छब्दान्प्रतिपद्यामह इति प्रयोगानुपपत्तेः । न सूत्रस्य व्याकरणत्वं युक्तं 'नापि शब्दस्य' व्याक्रियन्ते शब्दा अनेनेति व्याकरणमिति ल्युडर्थानुपपत्तेर्योगस्य च शब्दवत्त्वा- भावाद् व्याकरणे भवो योगो वैयाकरण इति भवतद्धितानुपपत्तेः । शब्दस्य च पाणिन्या- दिभिरप्रोक्तत्वेन पाणिनिना प्रोक्तं पाणिनीयमिति प्रोक्ततद्धितानुपपत्तेरिति वार्तिककारेण व्याकरणशब्दस्य सूत्रपरत्वशब्दपरत्वरूपे पक्षद्वये इत्यर्थः । पक्षद्वयेऽपि दूषिते भाष्यकारेण शब्दपक्षे तावद् दोषपरिहारार्थं प्रस्कन्दनं प्रपतनमित्यपादानादिष्वपि दर्शनेन, करणाधि- करणयोरेव ल्युट्प्रत्ययनियमाभावाद्, व्याक्रियत इति व्याकरणमिति कर्मव्युत्पत्त्या ल्युडर्थोपपत्तिमुक्त्वा भवप्रोक्तादितद्धितोपपत्त्यर्थं लक्ष्यलक्षणे व्याकरणमिति लक्ष्यलक्षणयोः शब्दसूत्रयोः समुदायिनोर्व्याकरणत्वाभिधानात्सूत्रात्मकस्य व्याकरणस्य कृत्रिमत्वेऽपि शब्दात्मकस्य नित्यत्वाद्वेदविषयत्वं युक्तमित्याशङ्कते-अथेति । लक्षणनिरपेक्षाणां शब्दा- नामानानन्त्याद्विधिविषयत्वानुपपत्तिं तु गवादिगाव्यादीनां जातिरूपेण, व्यक्तिरूपेण वा विधिप्रतिषेधौ उपपद्येते इत्यादिनोक्तेन परिहरति - तदिति । ननु यथा यदितिहासपुराणानि कल्पानीति ब्रह्मयज्ञविधिविषयत्वान्यथानुपपत्त्या कल्पसूत्राणां कर्तृस्मृतिदार्ढ्यात्कूटस्थनित्यत्वाभावेऽपि प्रवाहनित्यत्वमुक्तम्, तथात्रापि 'तस्मादेषा व्याकृता वागुद्यत' इति व्याकरणानुगताया अर्थवाचो वदितव्यत्वश्रुतेर्व्या-