भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 596, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 596

५४२ मीमांसादर्शनम् [ सू० विवृणोति—युगपदिति। वेदप्रयुक्तानां च शब्दानापशब्दत्वाशङ्कानुपपत्तेर्निश्चितसाधुत्वा- नामनन्वाख्यानादव्यापकं लक्षणं स्यादित्याह—वेदेष्वपीति। सामान्यं छन्दसि, भाषायां च साधारणम्, चातुर्वर्ण्यादिवत्स्वार्थे तद्धितः। ननु 'व्यत्ययो बहुलमि'ति बहुलग्रहणेन विकरणवत्सुबादीनामपि व्यत्ययसूचनाद् 'बहुलं छन्दसीति' च लोपाद्यनियमविधानादस्ति सर्वशब्दानां छान्दसं लक्षणमित्याशङ्कयाह—न हीति। 'सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृ यङां च। व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन॥' इति वचनान्नियतविषय एव व्यत्ययविधिः दक्षिणायामिति हि प्राप्ते धुरि दक्षिणाया इति सुपो व्यत्ययः। तक्षन्तीति प्राप्ते ये अश्वयूपाय तक्षतीति तिङः, स्रुवन्तीति प्राप्ते सामगाः स्रुवत इत्युपग्रहस्य, इन्द्रः सोमस्य कामुक इति प्राप्ते कामुकेति लिङ्गस्य, ममृवां आवाह इत्यत्रावाहादिति प्रथमपुरुषप्राप्तौ आवाहा इति पुरुषस्य। अग्निमद्यहोतारममवृणी- तेत्यत्राद्यतनकालवाचिनि लकारे प्राप्ते अनद्यतनकालवाचिलङ्‍प्रयोगात्कालव्यत्ययः, काण्डञ्चेत्यत्र कामुके इति प्राप्ते णकारप्रयोगाद्धलव्यत्ययः। अम्यक्सात इत्यत्रामेत्याकारे प्राप्ते अभ्यगिति संहितादर्शनेनाकारप्रयोगादच्त्व्यत्ययः। अश्वावतीर्गोमतीरित्यत्रान्तोदात्तत्वे प्राप्तेऽश्वावतीर इत्याद्युदात्तत्वात्स्वरव्यत्ययः, कर्तृशब्दस्य कारकोपलक्षणत्वादद्भिर्ददातीत्यत्र सम्प्रदानस्य दातृत्वेन प्रत्युपकारार्थं दानकरणत्वाभिधानाद्दद्भ्य इति प्राप्ते दद्द्भिरिति- व्यत्ययः, यङ्शब्दस्य प्रत्याहारत्वेन योगाद्यङन्तविकरणप्रत्ययग्राहित्वाद् वृत्रं हनतीत्यत्र हन्तीतिप्राप्ते हनतीति यङ्व्यत्ययः। बहुलं छन्दसीति च अदिप्रभृतिभ्यः शप इत्याद्यधि- कारविशेषेण शबादिविषयमेवावसीयते, न सर्वविषयमित्यर्थः। तत्रोदाहरणद्वयमाह— तद्यथेति। आपस्येत्यत्र तावल्लिङ्गवचनव्यत्ययो न व्यत्ययसूत्रस्य विषयः। तस्य बहुल- ग्रहणेन नियतलिङ्गवचनविधेयत्वाभावात्। नाप्युपधादीर्घादेशो व्यञ्जनान्तस्य च स्वरागमो बहुलं छन्दसीत्यत्राधिकृतो। येन लक्षणानुगमः स्यादित्याह—न हीति। अवित्यस्य नित्यं स्त्रीलिङ्गस्य बहुवचनविषयमस्य व्यञ्जनान्तस्य प्रातिपदिकस्य षष्ठ्यन्तस्यापामित्यविकृ- तस्यान्वाख्यानादापस्येत्यस्त्रीलिङ्गमेकविषयमकारान्तं दीर्घोपधं रूपं न केनापि लक्षणेना- नुगतमित्यर्थः। द्वारशब्देऽपि दकारलोपो पाकारस्य च वकारादेशो न केनचिल्लक्षणेना- नुगत इत्याह—नापीति। बहुलग्रहणस्य दृष्टानुविधानार्थत्वाद द्वारशब्दस्य भाषायामपि व्यत्ययस्यादर्शनान्न दृष्टानुविधानाथंत्वाद द्वारशब्दस्य भाषायामपि व्यत्ययस्यादर्शनान्न दृष्टानुविधानमस्तीति दर्शयितुम् — लाटेत्युक्तम्। अतो वैदिकशब्दानामसाधुत्वाशङ्कानुप- पत्तेर्लक्षणमेवाव्यापकत्वादुपेक्षणीयमित्युपसंहरति—तेनेति । व्याकरणान्तरयुक्तानामपि तदनुगतशब्दप्रयोगदर्शनान्न व्याकरणप्रामाण्याध्यवसानमित्याह—येऽपीति। प्रमादादिनिमि- त्तशङ्कानिवृत्त्यर्थं प्रायेणेत्यस्यार्थे—सुतरामित्युक्तम्। सन्तु व्याकरणामियुक्ताः व्याकरणकाराणामेव तदनुगतशब्ददर्शनात्प्रामाण्याध्यवसानं दुर्लभमित्याह-सूत्रेति। न च तेषां विस्मृत्या प्रयोगोपपत्तिरिति दृष्टान्तद्वारेणाह—अश्वेति।