मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 595, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः ५४१ नन्वाहिताग्निरपशब्दं प्रयुञ्जीत श्रुतेम्लेंच्छशब्दसामानाधिकरण्याभावाद् व्याकरणा- नुगतशब्दापेतत्वनिमित्तलब्धापशब्दव्यपदेश्यत्वगाव्यादािप्रयोगनिमित्तप्रायश्चित्तविधानार्थत्वाद् व्याकरणापेक्षा भविष्यतीत्याशङ्कयाह-यदपि चेति । निषिद्धाचरणनिमित्तत्वात्प्रायश्चि- त्तस्य, गाव्यादीनां च शिष्टाचार्विजतत्वेनानिषिद्धत्वावसायाद्यथासम्भवमन्यविषयतैवेयं श्रुतिर्भवेदित्याशयः । व्याकरणानुगतव्यतिरिक्तशब्दविषयत्वासम्भवमुपपादयति-तथा हीति । गाव्यादि- शब्दप्रयोगलक्षणस्य कार्यस्य सर्वशिष्टपरिगृहीतत्वेनापरिहरणीयत्वमीदृशशब्देनोक्तम्। श्लोकं विवृणोति-प्रायेण हीति । ननु सर्वस्यापि व्याकरणानुगतशब्दप्रयोगनियमो न दृश्यत इत्याह-न चेति । एतदेव प्रपञ्चयितुमाह-कल्पेति । कल्पकारस्यापशब्दमुदाहरति-समानमिति । छान्दोग्यसूत्र- कारस्योदाहरति-सूत्रेति । वह्वृचसूत्रकारस्यापशब्दद्वयमुदाहरति-तथेति । कल्पादि- ग्रहणस्योपलक्षणार्थत्वात् शिक्षाकारस्यापशब्दमुदाहरति-तथेति । स्मृतिकारस्योदा- हरति-अनुनाषीति । स्मृतिग्रन्थकारेणापि । साक्षिणः सन्ति मेत्युक्त्वा वदेत्युक्त्वा वदेत्तु यः । इत्यत्र मेशब्दस्येतीकारे परभूते संहितायामेचोऽयवायाव इत्यादेशे कृते लोपः शाकल्यस्येति च यकारलोपे कृते म इतीतिव्याकरणानुगतां संहितामनपेक्ष्यान्यथा कृतेत्यर्थः । मीमांसाकारस्यापशब्दद्वयमुदाहरति--तथेति । सम्वत्सरसत्रेषु गावामयनिक- विध्यन्तातिदेशप्रतिपादनायाऽष्टमे गवामयनोत्तरकालविहितेष्वादित्यानामयनप्रभृतिषु गवा- मयनस्य विध्यन्तः प्रवर्त्तत इति वक्तव्ये ‘तस्य विकारोऽवयवे च प्राण्यौषधिवृक्षेभ्य इत्याधिकृत्य गोपयसोर्यदिति विकारोवयवयोर्र्विहितो यत्प्रत्ययोऽर्थवादावगतगोकर्तृकत्वमात्रनिमित्तप्रयुक्तः । न चैवाग्नीषोमीयप्रकरणाधीतः स्यादिति' मासामुपोक्ते तानिति बहुवचनान्तस्यापि मन्त्रस्य प्रतिपदिकार्थसमवायाद् बहुवचनस्य प्रातिपदिकार्थलक्षितावयवबहुत्वाभिधानार्थ- त्वेनोपपत्तेरनुत्कर्ष इति सिद्धान्तिते, 'द्यावापृथिव्योरहं देवयज्ययोमोर्लोकयोर्ऋद्ध्यासम’- त्यादीनां दर्शपूर्णमासप्रकरणाधीतानां द्यावापृथिव्याद्यनुमन्त्रणानामपि केनचिद् गुणयोगेन दर्शपूर्णमासदेवताप्रकाशकत्वोपपत्तेरनुत्कर्ष इत्याशङ्कयार्थं सूत्रे सरूपाणामेकशेषः' इत्याद्येक- शेषलक्षणहीनं चावोरित्युक्तमित्यर्थः । गृह्यकारेणापि जिघ्राणामिति ल्युडन्तजिघ्रादेशः पाघ्रादिसूत्रेण शित्येव प्रत्यये परभूते घ्रातेर्जिघ्रादेशमन्वाख्यातमनपेक्ष्यैव कृत इत्याह-तथेति । व्याकरणसर्वस्वे निरुक्तेऽपि व्याकरणानुगताः शब्दाः सन्तीत्याह-कात्स्न्यर्थं इति । आद्धर्धधातुके परभूते ब्रुवो वच्या- देशस्याभिधानात्तदकरणं हीनलक्षणमित्यर्थः । एतदेव विवृणोति - सम्वत्सरमिति । पुराणेतिहासहस्तिशिक्षादिकारिणस्तु नात्यन्तं व्याकरणमाद्रियन्त इत्याह-अन्त इति । हस्तिशिक्षादिग्रन्थकारिणो ये उमाभ्यादिरूपा अपशब्दास्तेषामन्तो नास्तीत्यर्थः । एतदेव