भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 598, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 598

५४४ मीमांसादर्शनम् [ सू० वार्त्तिककृतेदमुक्तम् । दण्ड अग्रमिति व्यस्तोच्चारणे दण्डपदान्त्यस्याग्रपदाद्यस्य वाकारस्या- न्तरालकालानुपलम्भलक्षणत्कालव्यवायाद्व्यवधानाद्—अन्यत्वमित्युक्तम् । नन्वेकत्वेऽपि व्यञ्जकाभावान्मध्येऽनुपलब्धिर्युज्यत इत्याशङ्क्य—शब्दव्यवायादित्युक्तम् । दण्ड इत्यत्र दकारडकारपरयोरकारयोर्मध्ये व्यञ्जकाभावे णकारडकारयोरप्यनुपलम्भः स्यात् न च व्यञ्जकानां प्रतिनियतविषयत्वम् दीपादी दृष्टम्, येन णकारडकारयोर्व्यञ्जकसद्भावादुप- लब्धिः, अकारस्य तु व्यञ्जकाभावादनुपलब्धिरिति व्यवस्था युज्येतेत्याशयः । अत्र चान्यभावमित्यन्यशब्दः । तथा हि निष्कर्षलक्षणगुणाभिधायी भावशब्दो यदि निष्कर्पणी- यान्यशब्दवाच्यगुण्यपसर्जनत्वेन निष्कर्षलक्षणं गुणं ब्रूते, ततो गुणमुक्त्वा गुणिनि वर्तमान- त्वेन गुणवचनसंज्ञापत्तेः । पूरणसुहितार्थसदव्ययतव्यसमानाधिकरणेनेति षष्ठीसमासनिषे- धादपशब्दत्वम्, स्वप्रधानगुणाभिधायित्वमभ्युपगमेन तु षष्ठीसमासकल्पने गुणवचनसंज्ञावाधाद् गुणवचनसूत्राननुगतब्यञ्प्रयोगायोगादपशब्देतेत्यर्थः । कर्म्मधारयस्तु (कर्मण्युपपदे धातोरण्प्रत्ययोक्तेर्नित्यसमासाच्च कुम्भकार इतिवत् हिमवद्भावः इत्यादिप्रयोगमाशङ्क्य, अनभिधानात्तादृशप्रयोगाभावादित्युत्तरे अविरविकेति दृष्टान्तः । भावशब्दस्यान्यत्वगुणविशिष्टगुणिपरत्वेनान्यशब्दसमानार्थत्वात्पर्यायाणां सह- प्रयोगाभावाद्द्वैयर्थ्यमित्यर्थः१) भावशब्दस्यानर्थक्यापत्तेरयुक्त इत्याशयः । भाष्यकृतापि कर्म्मण्यणिति सूत्रे हिमवन्तं शृणोत्यादित्यं पश्यतीति दृशिशृणोति- भ्यामण्प्रत्ययः कस्मान्न भवतीत्याशङ्क्यानभिधानादिति परिहारमुक्तम् । यथाविकशब्दस्य स्वाधिकप्रत्ययान्तस्याविशब्दसमानार्थत्वेऽपि तस्य विकार इति विकारतद्धिते लक्षणानु- गतेऽप्याविकं मांसमितिप्रयोगदर्शनादविकशब्दादेवोत्पद्यते नाविशब्दात्तथात्रापि प्रयोगाभावे- नाभिधानसामर्थ्याभावान्न इण्प्रत्ययोत्पत्तिरित्युपपादनायाविरविकन्यायेनेति दृष्टान्तेऽभि- हितेऽपशब्दः प्रयुक्त इत्याह—भाष्येऽपीति । अविश्चाविकश्चाऽव्यविकौ तयोर्न्याय इति द्वन्द्वगर्भस्तत्पुरुषः । तस्यैवापशब्दान्तरमुदाहरति—तथेति । ऋलृगित्यत्र सूत्रे वार्त्तिककारेण लृकारस्य स्वातन्त्र्येण क्वचिदप्यप्रयोगात् कॢपिस्थस्य च यणादिकार्यं प्रत्यसिद्धत्वादुपदेशानर्थक्य- मित्याशङ्क्य, यदृच्छाशब्दादिषु (कुमारी ऋतकर्मिति वाच्ये लृतकमित्यनुकरणशब्दो यदृच्छाशब्दः । तत्र लृकारे परे ईकारस्यानुकार्यं यणादेशः कुमारी लृतकमित्येवं लृकारस्य प्रयोजनमित्यर्थः२) यणादिकार्यसिद्धिलृंकारोपदेशप्रयोजनमुक्त्वा यदृच्छाभावात्तद्विषयाच्च कार्यसिद्धिप्रयोजनत्वासम्भवेऽभिहिते, भाष्यकारेणान्यथाकृत्वा प्रयोजनमुक्तं अन्यथा कृत्वा परिहारः । सन्ति यदृच्छाशब्दा इति कृत्वा प्रयोजनमुक्तं न सन्तीति परिहारदूषणमाशङ्कितम्, तत्र अन्यथैवं कथमित्थं सुसिद्धाप्रयोगश्चेदिति सूत्रेणान्यथादिषु चतुर्षूपपदेषु करोतेर्णमुलिवि- धानादन्यथाकारमिति प्रयोक्तव्ये, अन्यथाकृत्वेति क्त्वाप्रत्ययप्रयोगादपशब्द इत्यर्थः । १. अयं पाठः सर्वत्र नास्ति । २. अयं पाठः सर्वत्र नास्ति ।