मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 599, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः ५४५ अन्येन प्रयोजनमुक्तमन्येन प्रकारेण परिहार इत्यस्यार्थस्यान्यथाशब्दमात्रेण सिद्धेर्नियमेन प्रयोज्यत्वाभावान्नायं करोति, अन्यथाकृत्वा 'शिरो भुङ्क्ते इति वदसिद्धप्रयोग इत्याशयः। एतच्च प्रयोजनं परिहारशब्देन निराकार्यतयोपन्यस्तमिति सूचितत्वादाशङ्कामात्रं नाभि- मतमिति, द्योतनार्थं महाभाष्यगतं प्रयोजनमुक्तमितिपाठं तात्पर्यतो व्याख्यातुं चोदितपदं तत्स्थानेऽप्रयुक्तम्। ननु त्वगादिशब्दवत्सिद्धवत्प्रयोगरूपनिपातानां साधुत्वं सेत्स्यतीत्याशङ्क्याह— न चेति। ननु प्रयोगमूलत्वाद् व्याकरणस्मृतेः, तद्बाधकत्वं न युक्तमित्याशङ्क्य, प्रयोग- मूलताऽप्याप्यसिद्धेति मत्वा पूर्वोक्तं स्मृतिबलीयस्त्वमाह—स्मृतीति। अतो नैषां निपात- नात्साधुत्वसिद्धिरित्युपसंहरति—प्रत्यक्षेति। नन्वेवं सत्येकप्रयोगमात्रेणेतरासाधुत्वानिश्चयात्प्रकृतिप्रत्ययान्वाख्यानं विना प्रयोगमात्रेण साध्वसाधुत्वविवेकासिद्धेर्निपातानर्थक्यं स्यादित्याशङ्क्याह—प्रत्यक्षेति। निपातानर्थ- क्यपरिहारायाऽन्वाख्यानमनुमीयत इत्याशयः। ननु लक्षणवाक्यगतानां शब्दानां स्वात्मनि क्रियाविरोधेन तद्वाक्यगतैलक्ष्यितुमशक्यत्वाल्लौकिकवैदिकशब्दलक्षणार्थत्वेन च व्याकरण- स्यात्मार्थत्वाभावात्प्रदेशान्तरस्थानामप्यलक्षणयत्वेनानुगमानादराच्च व्याकरणकाराणां. व्याकरणानुगतशब्दप्रयोगो दोष इत्याशङ्क्याह—न चेति। व्याकरणगतानामपि शब्दानां लोकवेदाधिकरणन्यायेन लौकिकेभ्यो भेदाभावाल्लक्षणीयत्वोपपत्तिं वक्तुम्— लक्ष्यभूत इत्युक्तम्। अत एव व्याख्यातृभिर्वृद्धिरादैजित्यादिषु वृद्धिरादैजदेङ् गुण इति जश्त्वदर्शनेन पदसञ्ज्ञत्वावगमाच्चोः कुरिति कुत्वेन भवितव्यमित्याशङ्क्य अयस्मयादीनि च्छन्दसीति सूत्रेष्वपि छन्दोवद्भावेन भसञ्ज्ञत्वात्सन्नुष्टुभा ( सन्नृक्वतेत्यत्र ऋग्युक्तेनेत्यर्थके पदे ऋच्शब्दस्य वतिपरे पदसञ्ज्ञत्वाच्चोः कुरिति कुत्वे ऋक्वतेति सिध्यति। अत्र पद-. सञ्ज्ञत्वात् झलाञ्जशोऽन्ते इति जश्त्वेन नग्नस्य जकारः कस्य ढकारो वा न भवति। अयस्मयादीनि च्छन्दसीत्युक्त्या भसञ्ज्ञया पदसञ्ज्ञाबाधात्। न च पदत्वाभावात्कुत्वमपि न स्यादिति वाच्यम्। प्रयोगानुसारित्वाद्धचाकरणस्य, तेन यथा तत्र मत्वा जश्त्वाभावः। पदत्वाच्च कुत्वमिति सञ्ज्ञाद्वयसमावेशः, तथा प्रकृतेऽपीति भावः । अत्र वृद्धिरादै- जित्यादिसहोच्चारणं सिद्धं कृत्वोक्तम् (अन्यदेव तु 'उपदेशेऽजनुनासिक' इतीत्याद्युदाहार्यम्')। सन्नृक्वता गणेनेतिवत्सञ्ज्ञाद्वयाविरोधात्कुत्वाभावोपपत्तिरित्यादिपरिहाराभिधानवत् 'समर्थः पदविधिर्, त्यत्र च विधिशब्द कर्मसाधनो भावसाधनः करणादिसाधनो वेति पृष्ट्वा विपूर्वाद्धातोः कर्म्मसाधने इकारो विधीयत इति कर्म्मसाधनतया व्याख्यानाल्लक्षण- सूत्रेष्वपि लक्षणानुगमादरः कृत इत्याह—तथा चेति। अन्यथा न क्वचिदपि साधुशब्दादरः स्यादित्याह—यदि चेति। न त्वाचारे नियम इत्यत्र वार्त्तिके भाष्यकृता याज्ञे कर्म्मणि १. अयं पा० २ पु० ना० । ३५