भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 600, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 600

५४६ मीमांसादर्शनम् [ सू० स नियमः, अन्यत्रानियम इत्युक्तत्वाच्च व्याकरणे कल्पसूत्रादिषु चापशब्दप्रयोगो दुष्यतीत्याशङ्कते-अथेति । फलवत्त्वेन क्रत्वर्थत्वायोगात्क्रतुविषयत्वानुपपत्तिरिति परिहरति- तदस्रदिति । आहिताग्निग्रहणानर्थक्यापत्तेश्च न यज्ञविषयतेत्याह - सारस्वतीति । ननु तस्माद् ब्राह्मणेन 'न म्लेच्छितवै' इत्यपशब्दनिषेधस्य प्रकरणाज्ज्योतिष्टोमाङ्गत्व्वा- वगतेरन्यत्रानियमोऽवसीयत इत्याशङ्क्याह-योऽपि चेति । आदित एव च व्याकरणे निरुपपत्तिकपूर्वापरविरुद्धामिधानादनाप्तप्रणीतत्वात्त्रसोयत इत्याह-यदपि चेति । भाष्यकृता हि शास्त्रादावथ शब्दानुशासनमिति शास्त्रस्य विषयमुक्त्वा, केषां शब्दानामिति पृष्ट्वा, लौकिकानां वैदिकानां चेत्युत्तरं दत्तम् । तत्तावद् बहूनां शब्दानां लोकवेदसाधारण्याद्युक्तमित्यर्थः ।' उभयत्रापि च साधारणशब्दोदाहरणमत्यन्तमयुक्त- मित्याह-न चेति । ननु वेदादिवाक्योदाहरणत्वेनैषां लौकिकेभ्यो भेदोऽस्तीत्या- शङ्कयाह - न चेति । कानि तर्हि वैदिकत्वेनोदाहार्याणीत्यपेक्षायामाह - अत इति । ननु गव्यादिपदानार्माप नियतस्वरत्वादिनो छान्दसत्वाद्युक्तोदाहरणतेत्याशङ्कयाह- छान्दसेति । एवमपि सिद्धे शब्दार्थसम्बन्ध इति शास्त्रारम्भवात्तिकव्याख्यानावसरे कथं पुनज्ञायते ? सिद्धः शब्दोऽर्थः सम्बन्धश्चेत्याशङ्क्यानराकरणार्थत्वेन लोकत इति वार्तिकावयवस्य यद्व्याख्यानं करिष्यते, तद्वयाहन्येत स्वरनियमादेर्लोकतः सिद्धचमावादित्याशयः । गव्यादिशब्दानन्वाख्यानात्, लौकिकान्वाख्याने प्रतिज्ञा न युक्तेत्याह-यदि चेति । गवादि शब्दानां तु केवलवैदिकत्वस्यापि वक्तुं शक्यत्वात्तदन्वाख्यानमात्रेण लौकिकान्वाख्या- नासिद्धिरित्याह-गवादयः पुनरिति । एतदेव च सर्वेषां च स नामानि कर्माणि च पृथक्पृथगित्यादिना मनुवचनेनोगदयति-तथा चेति । ननु लौकिकार्थविवक्षायां वैदिक- शब्दप्रयोगो न युक्त इत्याशङ्क्याह-दृश्यन्ते चेति । वैदिकानां च पाठसिद्धत्वादनानर्थकं लक्षणमित्याह -- न चेति । दोधीवेवीटामित्येतत्सूत्रदूषणार्थं न दीधीवेव्योश्छन्दोविषय- त्वाद् दृष्टानुविधित्वाच्च छन्दस्यदीधेददीध्युरिति च गुणदर्शनादप्रतिषेध इति वार्तिके दीधीवेव्यौ छन्दोविषयौ, दृष्टानुविधिः छन्दसि भवति । तत्र च होत्रा वृत्तः कृपयन्नदीधेत् अदीध्युर्दशरात्रे वृत्तास इति गुणस्य दर्शनादनर्थकः प्रतिषेध इत्येवं व्याचक्षाणेन भाष्यकृता स्वयमेव वैदिकशब्दलक्षणानर्थक्याभिधानाच्छान्दसोदाहरणं व्याहतमित्याह- दृष्टेति । मन्दशब्दो मृदूक्त्यर्थः । आनर्थक्यमेव दृष्टान्तेनोपपादयति - यथैवेति । न च भाष्यकृतैव कानि पुनरस्य शब्दानुशासनस्य प्रयोजनानीति पृष्ट्वा, 'रक्षोहाग- मलध्वसन्देहाः प्रयोजनमिति' मुख्यानि च पञ्चप्रयोजनान्यभिधाय, इमानि भूयः, शब्दानु- शासनस्य प्रयोजनानीत्यानुषङ्गिकाणां त्रयोदशानामुक्तत्वात् कथमानर्थक्यमित्याशङ्कयाह - रक्षाद्यपीति । वेदरक्षणस्यान्यतः सिद्धिमपपादयति-शिष्येति । महच्छब्देन व्यापकतोक्ता । तच्च क्रमरक्षानादरणीयेत्याह-तद्विनाशेऽपि चेति । ननु लोपागम-वर्णविकारद्वारा पदरक्षा