भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 617, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 617

२४ ] प्रथमाध्याये तृतीयपादः ५६३ सम्भवतीत्याह—एतद्विषयत्वे चेति । कस्तर्ह्यस्या ऋचः पारमार्थिकोऽर्थः पूर्वापरार्द्धर्चा विरोधीत्यपेक्षायामाह -- तस्मादिति । अस्मिन् व्याख्याने वागिति पदं षष्ठ्यन्तत्वेन विपरिणमयितव्यं प्रबो देवायानय इति शंसतीति प्रतीकविधिप्रभवमवयवान्तरानुमानम् । विश्वजिता यजेतेत्यत्राव्यक्तचोदनात्वरूपप्राकृतवाक्यसारूप्यसम्भवं ज्योतिष्टोमवदिति पदोप- मानम्, विधिप्रत्ययावगतफलव्यतिरेकेणानुपपद्यमानयागकर्त्तव्यत्वप्रभवा -स्वर्गकामपद- कल्पिकार्थापत्तिः । दध्नेन्द्रियकामस्येत्यत्र सारूप्याभावेऽपि सन्निधानमात्रेणाग्निहोत्रवदिति पदोपमानसूचनायादिशब्दः । ननु प्रमाणषट्कस्य प्रथमपादे व्युत्पादितत्वाच्चतुष्ट्वं प्रमाणानां न युक्तमित्याशङ्कयाह - षडिति । अपोद्धारे कारणमाह—अभावस्तावदिति । न चैरं कृत्वोद्गेयमित्यागमार्थज्ञायज्ञीयस्यैरापदवत्त्वावगतेरागमस्याप्यागमप्रामाण्यमस्तीत्याशङ्कयाह - प्रत्यक्ष्येति । स्वरूपादानेनात्र प्रत्यक्षत्वसम्भवान्नागमगम्यतेत्याशयः । ननु नामादिपदचतुष्टयविषयत्वे भाष्यकृता पूर्वं— चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश ॥ इतीयमृगुपन्यस्ता सा किमित्यपेक्षितेत्याशङ्कयाह-चत्वारीति । ननु भाष्यकृता चत्वारि शृङ्गेति चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च, त्रयो अस्य पादा भूतमविष्यद् वर्त्तमानाः, द्वे शीर्षे शब्दात्मानौ, नित्यः कार्यश्चेति, सप्त हस्तासो अस्य सप्त विभक्तयः । त्रिधा बद्धो वृषभो रोरवीति त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसीति, वृषभो वर्षणात् रोरवीति शब्दं करोति महोदेवो मर्त्याँ आविवेश महान्देवः शब्दः मर्त्यान्मरणधर्माणो मनुष्यानाविवेशेति व्याख्याय, महता देवेन नः साम्यं स्यादित्यध्येयं व्याकरणमिति भाष्येण शब्दब्रह्मसाम्यं व्याकरणप्रयोजनमुक्तम् । का तत्रानुपपत्तिरित्याशङ्कयाह— यत्त्वि त । विनियोगनिरपेक्षं मन्त्रस्यार्थतात्पर्य्यविधारणमशक्यमित्याशयः । संख्यासामान्य- मात्रेण च विनियोगनिरपेक्षमन्त्रयोजनायां वैशेषिकादिष्वपि तन्त्रेषु योजयितुं शक्यत्वाद- व्यवस्था स्यादित्याह—तादृशं चेति । पार्थिवाप्यतैजसवायवीयान्यवयविद्रव्याणि चत्वारि शृङ्गाणि । त्रयो अस्य लोकस्य पादा महत् कार्यारम्भकाणि द्व्यणुकाति । द्वे शीर्षे प्रधाना- प्रधानपुरुषौ सप्त हस्ता द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षड्भावरूपाः । सप्तमश्चा- भावः त्रिधा बद्धः समवाय्यसमवायिनिमित्तकारणैर्बद्धः । वृषभो भोगहेतुः रोरवीति शब्दवान्महा देवो द्योतनात् मर्त्यानाविवेश मर्त्यैर्योग्य इत्येवमादियोजनोपपत्तेरतिप्रसक्तिः स्यादित्याशयः । यच्च भाष्यकृता — उत त्वः पश्यन्न ददर्श वाचमुतः त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं विसस्रे जायेव पत्यउशती सुवासा ॥ इत्यृचमुपन्यस्याप्येकः पश्यन्नपि न पश्यति, शृण्वन्नपि न शृणोत्येनामिति पूर्वार्द्धर्चम- विद्वांसमाहार्थमिति भाष्येण। विद्वांसमर्धं पूर्वार्द्धं वा वदतीत्यभिधानाद्वेदार्थविद्विषयत्वेन

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 617, कुल 804 में से · BharatKosha