मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 618, कुल 804 में से
संदर्भ में पढ़ें५६४ मीमांसादर्शनम् [ सू० व्याख्याय, उतो त्वस्मै तन्वं विसस्रे तनु विवृणुते । जायेव पत्य उशती सुवासाः तद्यथा जाया पत्ये कामयमाना सुवासाः स्वमात्मानं विवृणुते, एवं वाग्वाग्विदे स्वमात्मानं विवृणुत इत्युत्तरार्द्धं व्याख्याय, वाङ् नो विवृणुयादित्यध्येयं व्याकरणमिति भाष्येण वाक्प्रकाशनं व्याकरणप्रयोजनमुक्तम् । तद् अन्यतः सिद्धेः प्रयोजनाभासमित्याह—उतत्व इति । यत्तु भाष्यकृता— सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत । अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि ॥ इत्यृचमुपन्यस्य सक्तुः सचतेर्दुर्द्भावो भवति, कसतेर्वा विपरीताद्विकसितो भवतीति तितउ परिपवनं ततवद्वा तुन्नवद्वा धीरा ध्यानवन्तः मनसा प्रज्ञानेन वाचमकृषत अत्र सखायः सन्तः सख्यानि जानते क्व एष दुर्गो मार्गः एकगम्यो वाग्विषयः । के पुनस्ते ? वैयाकरणाः । कुतः एतद् भद्रैषां लक्ष्मीर्निहिताधिवाचि भद्रा ह्येषां लक्ष्मीर्निहिता भवति । क्व अधिवाचि लक्ष्मीर्लक्षणाल्लाञ्छनाद्वा परिवृढा भवतीति व्याख्यानेन लक्ष्मीनिधानं व्याकरणप्रयोजनमुक्तम् । तद् गुरुसम्प्रदायसिद्धत्वात् व्याकरणप्रयोजनत्वयोग्यं न भवतीत्याह—एवमिति । यच्च सारस्वतीमित्युपक्रम्य याज्ञिकाः पठन्त्याहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेदिति श्रुतिमुपन्यस्य प्रायश्चित्तीया माभूमेत्यध्येयं व्याकरणमिति भाष्येण प्रायश्चित्ताभाजनत्वं व्याकरणप्रयोजनमुक्तम् । तदपि वैदिकशब्दविनाशविषयत्वात् व्याकरणप्रयोजनत्वयोग्यं न भवतीत्याह—आहिताग्निरिति । यच्च दशम्यां पुत्रस्येत्युपक्रम्य याज्ञिकाः पठन्ति 'दशम्युत्तरकालं पुत्रस्य जातस्य पिता नाम विदध्यात् घोषवदाद्यन्तरस्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं तद्धि सुप्र- तिष्ठिततमं भवति द्वयक्षरं चतुरक्षरं वा कृतं कुर्यान्न तद्धितमिति' न चान्तरेण व्याकरणं कृतस्तद्धिता वा शक्या विज्ञातुमिति भाष्येण पुत्रनामज्ञानं व्याकरणप्रयोजनमुक्तम् । तद् अन्यतः सिद्धेः प्रयोजनाभासमित्याह—यदपीति । घोषवन्तो वर्गंतृतीयाद्या वर्णा आदौ यस्य, तदन्तरं तस्य घोषवदादेरन्तरस्थस्य द्विचतुरादिवर्णस्य कृदन्तस्य नाम्नः परिग्रहः तद्धितस्य वर्जनं वा तयोर्न्नामकरणे वचनम् । तत्र न व्याकरणं नामप्रयोगोत्पत्ति- शास्त्रत्वेनापेक्षणीयमिति । तत्कृत्तद्धितसञ्ज्ञयोरिति तदित्यव्ययं लुप्तसप्तमीकमङ्गीकृत्य योज्यं तदुपपादनाथं कृत्तद्धितसञ्ज्ञयोरित्याद्युक्तम् । यच्च भाष्यकृता— सुदेवो असि वरुण यस्य ते सप्तसिन्धवः । अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥ इत्यृचमुपन्यस्य, सुदेवो असि वरुण सत्यदेवो यस्य ते सप्तसिन्धवः, सप्तविभक्तयः अनुक्षरन्ति काकुदं तालुं काकुर्जिह्व्वा सास्मिन्नुद्यत इति काकुदं सूर्म्यं सुषिरामिव तद्यथा