भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 619, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 619

सूर्य्यं सुपिराग्निरनुप्रविश्य तदन्तर्गतं मलमपहन्ति एवं सप्तसिन्धवः ताल्वनुक्षरन्ति तेनासि सत्यदेव इति व्याख्याय, सत्यदेवाः स्यामेत्यध्येयं व्याकरणमिति भाष्येण सत्यदेव- त्वप्राप्तिर्व्याकरणप्रयोजनमुक्तम् । तत्रास्या ऋचः सङ्ख्यासामान्यमात्रेण विभक्तिविषय- त्वमभ्युपगम्याप्यन्यतः सिद्धत्वान्नातीव व्याकरणापेक्षेति तावदाह—सुदेव इति । परमार्थ- तस्तु सिन्धुशब्दस्य नदीवाचित्वेन प्रसिद्धत्वान्नद्य एवात्र सप्त विवक्षिताः । अथापि वरुणशब्देन यज्ञमृत्विजं यजमानं वाऽभिप्रेत्य तत्प्रशंसापरेयमृगिष्यते, तथापि होत्रीया- प्रशास्त्रीयाब्राह्मणाच्छंसीयापोत्रीयानेष्ट्रीयाच्छावाकीयाग्नीध्रीयाह्वयहोत्रागताः सप्तवाचः, षड्जऋषभ गान्धारमध्यमपञ्चमधैवतनिषादाख्यसामस्वरगतां वा प्रस्तावप्रणवोद्गीथहिङ्कार- प्रतिहारोपद्रवनिधनाख्यसामभक्तिगता वा वाचः सप्तेत्यन्यपरत्वात् व्याकरणप्रयोजनत्वं निष्प्रमाणकमित्याह — यदा पुनरिति । नदीनामतिहासगोचरापन्नत्वादितरासां याज्ञिक- गोचरापन्नत्वादित्यर्थः । एवं महाभाष्योक्तमुख्यानुषङ्गिकप्रयोजननिराकरणेन न चाश्रितप्रतिपदपाठानां वैदि- कानां लक्षणेन कार्यमित्यादिग्रन्थोक्ते व्याकरणस्य निष्प्रयोजनत्वे समर्थिते, यदि कश्चित- स्मादव्याकृता वागुद्यत इति श्रुतिपर्यालोचनेन व्याकरणसंस्कृतानां शब्दानामदृष्टसाधनत्व- लक्षणसाधुत्वावगमात्साधुत्वसिद्धिर्व्याकरणप्रयोजनं वदेतं प्रत्याह—संस्कृतानां चेति । श्लोकं व्याचष्टे —व्याकरणेनेति । शब्दत्ववर्णत्वतद्व्यक्तितत्समुदायावयविस्फोटगोशब्दत्व- क्रमग्रहणोच्चारणतत् साधनपुरुषाणां मध्ये किं वस्त्विति कस्येत्यस्य व्याख्या । उत्पत्त्यादीनां चतुर्णां मध्ये कः संस्कार इति को वेत्यस्य । शब्दत्ववर्णत्वजातिव्यक्ति- पक्षेषु तावद् दोषमाह — न तावदिति । जातिपक्षे तावदुभयत्र प्रसङ्गं विवृणोति-शब्दत्व इति । वर्णव्यक्तीनां तु संस्कारः प्रत्येकं वा स्यात् समुदितानां वा । तत्र प्रत्येकपक्षेऽतिप्रसङ्गं विवृणोति — एतेनेति । समुदायाभावात् समुदितानामपि संस्कारो न भवतीत्याह — समुदायस्त्विति । किं च नित्यानां वर्णव्यक्तीनां संस्कारः स्यादनित्यानां वा । तत्रानित्य- पक्षे तावद्विनष्टानुत्पन्नानामसंस्कार्यत्वादुत्पन्नानामपि संस्कारक्षणं यावदवस्थानान्न संस्कारः सम्भवतीत्याह येषां तावदिति । संस्कारक्षणं यावदवस्थानाभ्युपगमेऽपि व्यवहारकाले- विनष्टत्वेन कार्यानुपयोगित्वात्संस्कारो न तु युक्त इत्याह — न चेति । एतदेव विवृणोति — यथैवेति । ननु भाष्यकृता किं पुनर्नित्यः शब्दः आहोस्वित्कार्य इति पृष्ट्वा सङ्ग्रह एतत्प्राधान्येन परीक्ष्यते नित्यो वा स्यात्कार्यो वेति भाष्येण सङ्ग्रहाख्ये वार्त्तिककारकृते ग्रन्थान्तरे तात्पर्येणैतद्विचार्यते, नात्र तेन विचारेण प्रयोजनमित्युत्तरे दत्ते, कथं तर्ह्यत्र लक्षणप्रवृत्ति- रित्याशङ्क्य, यद्यपि नित्योऽथापि कार्यं उभयथापि लक्षणं प्रवर्त्यमित्युक्त्वा कथमनित्य- पक्षे संस्कारानुपपत्तिरित्याशङ्क्याह — तत्तश्चेति । अत्यन्तविरुद्धत्वाच्च नित्यानित्यत्वयोरनियमाभिधानं न युक्तमित्याह — अदूरेति । कार्यत्वे च शब्दस्योत्पत्तिलक्षणः संस्कारः स्यात्तत्र च नित्यस्य वेदस्यानित्यशब्दव्युत्पत्ति-