मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 620, कुल 804 में से
संदर्भ में पढ़ें५६६ मीमांसादर्शनम् [ सू० विषयत्वायोगेन व्याकरणस्य वेदमूलत्वासम्भवादनित्यशब्दोपयुक्तत्वेन च नित्यवेदाङ्ग- त्वाभावाद्दुभयविधमपि शास्त्रत्वं हीयेतेत्याह—उत्पादश्चैवेति । श्लोकं व्याचष्टे—व्याकर- णेति । वेदोत्पादकत्वेन तु व्याकरणस्य वेदाङ्गत्वे वेदोऽप्यप्रमाणं स्यादित्याह—अथेति । कार्यत्वे च शब्दस्य संस्कारोऽशक्योऽनर्थकश्चेति दोषद्वयं पूर्वोक्तमप्यनियमनिरासायाह -- शब्दश्चेति । नित्यत्वे तु शब्दस्य विक्रियारूपोऽपि शब्दादुत्पत्त्याख्यश्च तावत्संस्कारो न सम्भवतीत्याह - तस्मादिति । न च ज्ञानरूपप्राप्तिलक्षणः संस्कारः शब्दस्य व्याकरणेन क्रियते, श्रोत्रजन्मत्वात्तस्येत्याह—विनेति । अविहितत्वाच्च व्याकरणस्य नापूर्वसाधन- सामर्थ्याधानलक्षणसंस्कारार्थता युक्तेत्याह—अदृष्टार्थस्त्विति । शब्दानां च दृष्टार्थत्वेना- पूर्वसाधनत्वाभावान्न तत्सामर्थ्याधानलक्षणेन संस्कारेण प्रयोजनमस्तीत्याह— दृष्टार्थेषु चेति । ननु लोकव्यवहारार्थानां शब्दानां दृष्टार्थत्वादसंस्कार्यत्वायोगेऽपि, क्रत्वर्थानां व्रीहि- यववन्नियमापूर्वार्थत्वात् संस्कार्यत्वं भविष्यतीत्याशङ्कयाह—कर्मेति । किं च व्याकरण- क्रियायाः पौरुषेयग्रन्थाधीनत्वेनादिविधिविषयतैव न युज्यते । प्रकरणााम्नानं दूरनिरस्त- मित्याह—ह्रस्त्थादीति । ननु 'तस्मादेषा व्याकृता वागुद्यत' इत्यानारभ्याधीतः प्रत्यक्षो विधिः कथमपहूयत इत्याशङ्कयाह तेनेति । नित्यानित्यसंयोगविरोधप्रसङ्गान्नास्यैतत्पर- तास्तीति प्रागेवोक्तमित्याशयः । व्याकरणक्रियाविधेयत्वाभ्युपगमेऽपि प्रकरणाभावेन क्रत्वर्थत्वाभावान्न क्रत्वर्थशब्दसंस्कारत्वं युक्तमित्याह –अनारम्येति । नन्वनारभ्याधीत- स्यापि खादिरोदेर्दशपूर्णमासार्थता दृष्टेत्याशङ्कयाह ऐकान्तिकम् हीति । ननु यथाफलकल्पनालाघवायाऽश्वप्रतिग्रहेष्टौ वैदिकाश्वदानविषयत्वं तृतीये वक्ष्यते, तथेहापि वैदिकशब्दविषयत्वं व्याकरणक्रियाया भविष्यतीत्याशङ्कयाह—लोकेति । लौकिकवैदिकशब्दानां भेदस्य निराकरिष्यमाणत्वान्न संस्कार्यासंस्र्कार्यव्यवस्था युक्तेत्याशयः । उपसंहरति—अत इति । किं च श्रोत्रोपलब्धिबुद्धिनिर्ग्राह्यः प्रयोगेणा- भिलक्षितः आकाशदेशः शब्द इति वदद्भिर्वैयाकरणैः शब्दस्याकाशाश्रितत्वाभ्युपगमान्नि- त्याश्च शब्दा इति .च नित्यत्वाभ्युपगमादमूर्तत्वाच्चाकाशाश्रितविभुत्वदृष्टान्तेन संस्कार्यत्वं वारणीयमित्याह—आकाश इति । विभुत्वस्य ज्ञानविषयत्वलक्षणप्राप्तिसम्भवेऽपि गां दोग्धीत्यादौ स्वरूपप्राप्तेः संस्कारत्वेन प्रसिद्धायाः वारणीयत्वेनात्रेष्टत्वान्न साध्यविकल- त्वम् । अइउणित्यादिचतुर्दशसूत्रात्कृताणादिसंज्ञात्मकप्रत्याहारमात्रेण वर्णव्यक्तिसंस्कारसिद्धेः शेषग्रन्थानर्थक्यं स्यादित्याह—वर्णेति । जातिव्यक्तिसंस्कारपक्षौ दूषयित्वा, समुदाय- संस्कारपक्षं दूषयति—समुदायास्त्विति । नन्वेकेषां गकारौकारविसर्जनीयानामेकगोशब्दबुद्धिविषयत्वलक्षणः समुदायो लोकसिद्धत्वान्नाप्राप्तत्वमर्हतीत्याशङ्कयाह—प्रत्येकं चेति । तथा नवमे हिरण्यशकलसहस्ते णाग्निं प्रोक्षतीत्यग्निबुद्धिविषयभूतानामिष्टकानां धर्म्मः प्रोक्षणादिः प्रतीकमावर्त्तनीय