मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 621, कुल 804 में से
संदर्भ में पढ़ेंइति पूर्वपक्षे, वक्ष्यते, तथाऽत्रापि गकारादिवर्णसमुदायसंस्कारपक्षे प्रतिवर्णं संस्कारावृत्तिः प्रसज्येतेत्यर्थः । ननु पूर्वपक्षस्यास्थायित्वान्न दृष्टान्तता युक्तेत्याशङ्क्याह -- न चेति । अयमाशयः -- इष्टकाव्यतिरिक्तावयव्यभावेनाग्निशब्देस्येष्टकासमुदायमात्रवाचित्वात्समुदायसंस्कारत्वाभ्युप - गमेन पूर्वपक्षिते, स्थण्डिलारूपस्यावयविनाऽग्निशब्दवाच्यस्येष्टकाभिरारम्भोपपादनेन संस्कार्यद्रव्यैक्यात्संस्कारानावृत्तिरिति पूर्वपक्षन्यायानुपमर्देन सिद्धान्तकरणाद् युक्तं दृष्टान्तत्वम् । न चात्र गकारादिभिः एको गोशब्दाऽवयव्यारम्यते, येनाग्निधर्मसिद्धान्तन्यायो न स्यात् । 'विच्छिन्नयत्नव्यङ्ग्यैश्च नित्यैः सर्वंगतैरपि । व्यतिरिक्तपदारम्भो वर्णैर्नत्रोपपद्यते ॥' इति श्लोकेन स्फोटवादे निराकृतत्वादिति स्फोट-गोशब्द-गत्वानाम्प्यवयविवन्निरा- कृतत्वान्न संस्कार्यत्वं सम्भवतीत्याह स्फोटेति । समुदायसंस्कारपक्षे च सर्ववर्णसमुदायो वा संस्क्रियेत, कतिपयवर्णसमुदायो वा तत्राद्ये पक्षे सर्ववर्णसमुदायस्यार्थाभावादर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियम इति वार्त्तिकमयुक्तं स्यादित्याह-सर्वेति । कतिपयवर्ण- संस्कारपक्षेऽपि केचिदेव वर्णाः संस्क्रियन्ते, नान्य इति व्यवस्थाहेत्वभावेन स्वरूपतः कतिपयत्वायोगात्कतिचिदेवं संस्क्रियन्त इति संख्यातः कतिपयत्वं वाच्यम् । तत्र संख्यां विना वर्णानामसंस्कार्यत्वेनान्वयव्यतिरेकाभ्यां वर्णसंख्यायाः संस्कार्यत्वात्साधुत्वं स्यात् । तच्च गाव्यादिपदेषु अपि समानमित्याह--अथेति । गवादिपदगतेव वर्णसंख्या संस्कार्या, न गाव्यादिपदगतेति व्यवस्थाशङ्कानिरासार्थम्-पदे पदइत्युक्तम् । क्रमसंस्कारपक्षं दूषयति संस्क्रियेतेति । शब्दधर्मत्वाभावेन तत्संस्कारेऽपि शब्दस्य साधुत्वं न सिध्यतीत्युक्तम् । ग्रहणोच्चारणद्वारापचारिकशब्दधर्मत्वाभ्युपगमेऽपि गाव्यादिष्व- प्यानुपूर्व्याः सम्भवात्साधुत्वं प्रसज्येतेत्यर्थः । ग्रहणोच्चारणसंस्कारपक्षौ दूषयति- ग्रहणेति । अत्रोपरिष्टादित्यपेक्षायामाह - वक्ष्यति हीति । यथाभिक्रामं जुहोतीत्यभिक्रमणस्य होमसाधनत्वासम्भवोऽभिक्रमाधिकरणपूर्वपक्षे वक्ष्यते । तथा ग्रहणमुच्चारणं वा प्रतिव्याकरण- क्रियायाः साधनत्वं न भवतीत्यर्थः । ननु साक्षात्साधनत्वाभावेऽपि, यथाभिक्रमणस्य कर्तृप्रत्यासत्तिजननद्वारा होमसाधनत्वं सिद्धान्ते वक्ष्यते, तथोच्चारणसाधनतालवादिसंस्कार- द्वारोच्चारणसाधनत्वं ग्रहणसाधनश्रोत्रसंस्कारद्वारा वा ग्रहणसाधनत्वं व्याक्रियाया भविष्यतीत्याशङ्क्याह -- तालवादीति । अस्तु तर्ह्यूच्चारयितुः पुरुषस्य संस्कारद्वारा तन्मनः संस्कारद्वारा वोच्चारणसाधनत्वं ग्रहीतृपुरुषसंस्कारद्वारा, तन्मनःसंस्कारद्वारा वा ग्रहणसाधनत्वमिति स्वयमेवाशङ्कयाह मनो वेति । यच्छास्त्रारम्भे भाष्यकृता 'अथ शब्दानुशासनमित्युक्त्वा अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते । शब्दानुशासनं शास्त्र- मधिकृतं वेदितव्यमिति स्वथमेव व्याख्यातम् तद्व्यर्थं स्यादित्यर्थः । इतश्च शब्दानुशा- सनं व्यर्थमित्याह - शिष्येति ।