भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 622, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 622

५६८ मीमांसादर्शनम् [ सू० . किं च वैयाकरणैः स्फोटात्मकः शब्दोऽभ्युपगतः । तस्य च निरवयवत्वात्प्रकृति- प्रत्ययान्वाख्यानरूपः संस्कारो न युक्त इत्याह — स्फोटेति । स्फोटपक्षे न केवलं वर्णा एवा- सन्तः किं तु प्रकृतिप्रत्ययावपीत्यर्थः वाक्यस्फोटापेक्षायां च स्वरूपेणापि पदस्फोटस्यासत्त्वा- त्संस्कार्यत्वं न युक्तमित्याह — वाक्येति । नन्वसतामेव नामादीनां निष्कृष्य कल्पनया संस्कारो भविष्यतीत्याशङ्कयाह — अपोद्धारेणेति । कल्पनाप्यसतो न सम्भवतीत्याशयः । ननु निरवयवोऽपि पदस्फोटस्तत्तद्- ध्वनिसहकृतश्रोत्रवशात्पूर्वं गकारादिरूपेण प्रतीयते, ततस्तदाकारमिथ्याज्ञानसहकृतेन श्रोत्रेण गौरित्येकं पदमिति स्फुटं पदतत्त्वज्ञानम्, रत्नतत्त्वपरीक्षायामिवानैकमिथ्याज्ञान- सहकृतेन चक्षुषा स्फुटा रत्नतत्त्वप्रतीतिः । एवं वाक्यस्फोटोऽपि पूर्वं गोपदाकारेण शुक्लपदाकारेण च प्रतीयते । ततः पदाकारमिथ्याज्ञानसहकृतेन श्रोत्रेण गौः शुक्ल इत्येकं वाक्यमिति स्वरूपेण वाक्यस्फोटः प्रतीयते । ततश्च ध्वनयो यत्स्थानकरणवशादेकस्मिन्पद- स्फोटे वाक्यस्फोटे वा यद्वर्णाकारम्, यत्पदाकारं वा ज्ञानं जनयन्ति, पदवाक्यस्फोटान्तरेऽपि तत्स्थानकरणवशात्तद्वर्णाकारम्, तत्पदाकारं वा ज्ञानं जनयन्तः सादृश्यनिमित्तभ्रान्तिवशात्स एवायं वर्णः । तदेवेदं पदमिति प्रत्यभिज्ञानं जनयन्तीत्यन्योन्यविलक्षणेषु गौः शुक्लो गौः 'कृष्ण इत्यादिषु सादृश्याध्यवसितैकत्वानां नामादीनामपोद्धारो भविष्यतीत्याशङ्कयाह — अन्येति । अन्यस्य वाक्यस्फोटस्यावयवानामन्यस्य वाक्यस्फोटस्यावयवैः सारूप्यादित्यर्थः । सादृश्यमप्यसतो न सम्भवतीत्याशयः । ननु — गवये नरसिंहे वाप्येकज्ञानादृते यथा । भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥' इत्यादिस्फोटवादिभिरसतामप्यवयवानां सादृश्यसम्भवे निदर्शनमुक्तम् । तत्कथमसत्त्वे सादृश्यानुपपत्तिरित्याशङ्कयाह — गवयादिष्विति । लेख्यादिकृतेषु गवयादिषु येऽवयवाः तेषां मुख्यगवयादिगतैः कर्णखुरादिभिरवयवैः सारूप्यं यन्निदर्शितम्, तत् तेषां सत्यत्वा- त्स्वावयवसामान्ययोगाच्चोपपन्नम्, तथा इहापि वाक्यस्फोटे तथात्वे अवयवानां सत्यत्वे स्वावयवसामान्ययोगे च सति सारूप्यं स्यात् । ततश्च निरवयवस्फोटसिद्धान्तहानि- रित्याशयः । विस्तरेण चैतत्पूर्वं निरस्तमित्याह — वाक्येति । उपसंहरति -- तेनेति । नामादीनामपोद्धारेण प्रकृतिप्रत्ययान्वाख्यानरूपस्य संस्कारस्य कल्पनेत्यर्थः । अप्रामाण्या- पत्तेश्चासतामपोद्धारो न युक्त इत्याह - अन्वाचक्षीतेति । यच्च शब्दानुशासकत्वेन शास्त्रत्वं व्याकरणस्योक्तम्, तत्पदविषयं वा स्यात्, वाक्यविषयं वा । तत्रासत्यत्वेन पदानामनुशास्यत्वाद्वाक्यानुशासनस्य च व्याकरणेना- कृतत्वान्नोभयथापि युक्तमित्याह - अशिष्यत्वादिति । युक्तं तु वाक्यस्यैवानुशासनं लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियम इति वार्त्तिककृताथं प्रयुक्तानां शब्दानामनु- शास्यत्वाभिधानाद्वाक्यस्यैव चार्थप्रयुक्तत्वेनेष्टत्वादित्याह — अर्थेनेति ।